| YouTube Channel

कलनं (kalanaM)

 
शब्दकल्पद्रुमः
Sanskrit
कलनं,
क्ली,
(कल्यते लक्ष्यते दुष्यते वा कल +ल्युट् ।) चिह्नम् दोषः इति हलायुधः
(कल्यतेशुक्रशोणिताभ्यामन्योन्यं मिश्य्रते ।) गर्भे मिश्रितंशुक्रशोणितम्
यथा, भागवते ३१ ।“कलनं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।दशाहेन तु कर्क्कन्धूः पेश्यण्डं वा ततः परम्”
क्वचित् कललं इत्यपि पाठो दृश्यते कलयतिजानात्यनेन कल गतौ गत्यर्था ज्ञानार्थाश्च ।कल + करणे ल्युट् ज्ञानम्
)