कलञ्जाधिकरण (kalaJjAdhikaraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकलञ्जाधिकरण “न कलञ्जं भक्षयेदित्यादिवाक्यमधि-कृत्य पञ्चावयवन्यायभेदे स च न्यायः यथा किं यदाकष्टापि तद्भक्षणनिषेधः । उत सर्व्वदेति संशयः ।यदा कदाचिन्निषेध इति पूर्व्वपक्षः सर्व्वदा तन्निषेधइति सिद्धान्तः । तदेतत्भङ्ग्या एका० त० दर्शितं यथा“न कलञ्जंभक्षयेत्” इति श्रुतिः कलञ्जमक्षणाभाव-विषयकं कार्य्यमित्यर्थः । तत्र कालविशेषानुपादाना-न्निषिध्यमानक्रियायां प्रवृत्तिमतोनिषेधविधावधिकारा-द्यावत्कालमेव तस्यां तस्य निवृत्तिः । न हि कलञ्ज-भक्षणाद्यतः कुतश्चित् करणान्निवृत्तस्य निषेधानुपालनसकृद्वृत्तमिति कलञ्जभक्षणनिषेधो न पुनस्तं निवर्त्ता-यति किन्तु भक्षणप्रवृत्तिमत्तामात्रमधिकारिविशेषणयदा यदा भवति तदा तदैव निषेधविधिरपि तंनिवर्त्तयति । न हि कलञ्जस्य भक्षणमुपक्रम्य यावत्कालं तद्भक्षयति । अतस्तदितरकाले निवृत्तिः सिद्धै-वेति भवति विफलोविधिः । ननु नासौ निवृत्तिरप्रवृ-त्तस्य निवृत्त्यनुपपत्तेः । सत्यं, प्रवृत्त्युपाधिना विनाशंप्राप्स्यन् प्रागभाव एव प्रवृत्तिनिराकरणात् साध्यमा-नोनिवृत्तिरुच्यते न तु प्रवृत्तिरपि साध्यतयोपदि-श्यते किन्तु रागप्राप्तप्रवृत्तिमतएव निषेधविधावधि-कारः । यत्तु “मनसा तु प्रवृत्तस्य भूतचेष्टावतोऽपिवा । यदनागतभावस्य वर्ज्जनं तन्निवर्त्तनम्” इति ।अत्रापिशब्देनाप्रवृत्तमात्रसमुच्चयान्न विरोधः । भूतचेष्टावतइति । “भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीवं त्रिषूचिते ।प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तुना” इति मेदिन्युक्तेः भूतेप्राप्ते निषेध्ये चेष्टावतैत्यर्थः । ततश्च प्रागभाव एव काला-न्तरसम्बन्धितया साध्यत्वेनोपदिश्यते । प्रागभावश्चानादि-संसर्गाभावमात्रपरः सचाप्रवृत्तस्य भक्षणकारणमननु-तिष्ठतः सिध्यत्येव । तस्मात् सकृत्क्रियापर्य्यव-सायित्वे विफलोविधिः । कादाचित्काकरणस्य निषे-धमन्तरेणापि प्राप्तेः । न च स्वर्गकामादिवत् साध्यतयाप्रवृत्तिमत्कर्त्तृकत्वमप्यङ्गं विषयमात्राननुष्ठानाधीनसि-द्धत्वान्निषेधनियोगानामितिकर्त्तव्यताकाङक्षाविरहात् अत-एव शुचित्वमपि तत्र नाङ्गम् । तस्मान्निषेधविधिषुकाकवन्तोदेवदत्तस्य गृहाइत्यादिवत्तटस्थत्वेनाधिकारि-विशेषणीभूतायाः प्रवृत्तेर्यावत्कालभनुवृत्तिस्तावत्का-लमेव निवृत्तौ साफल्यं पुनर्निमित्तान्तरवन्न सकृदनुष्ठानेनैव शास्त्रार्थसिद्धिः” ।यथा चात्र निवृत्तेरेव बोध्यता न प्रवृत्त्यभावस्य तथा सम-र्थितं वृहदारण्यकब्राह्मणभाष्ययोः यथा--“प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते न चानुष्ठेयःसः । न च प्रतिषिद्धविषये प्रवृत्तक्रियस्याकरणादन्यदनुष्ठे-यमस्ति । अकर्त्तव्यताज्ञाननिष्ठतैव हि परमार्थतःप्रतिषेधविधीनां स्यात् । क्षुधार्त्तस्य प्रतिषेधज्ञानसंस्कृ-तस्याभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलञ्जाभिशस्तान्ना-दाविदं भक्ष्यमदो भोज्यमिति वा ज्ञानमुत्पन्नं तद्वि-षयया प्रतिषेधज्ञानस्मृत्या बाध्यते मृगतृष्णिकायामिवपेयज्ञान तद्विषययाथार्थ्यविज्ञानेन तस्मिन् बाधितेखाभाविकविपरीतज्ञानेऽनर्थकरी तद्भक्षणभोजनप्रवृत्तिर्नभवति । विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेवन पुनर्यत्नः कार्य्यस्तदभावे” शङ्कराचार्य्यकृतभाष्यम् ।“यद्यपि कलञ्जभक्षणादेरधःपातस्य च सम्बन्धो” न कलञ्ज-म्भक्षयेत्” इत्यादिवाक्यात्प्रतीयते, तथापि तस्यानुष्ठेयत्वा-द्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याह न चेति । सम्ब-न्धस्यामावार्थत्वान्नानुष्ठेयतेत्यर्थः । अभक्षणादि कार्य्यमितिविधिपरत्वमेव निषेधवाक्यस्य किन्न स्यादित्याशङ्क्याहन चेति । तस्यापि कार्य्यार्थत्वे विधिनिषेधभेदभङ्गात्नञश्च स्वसम्बन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौलक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतोनिषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात् प्रसक्तक्रि-यानिवृत्त्युपलक्षितादौदासीन्य दन्यदनुष्ठेयं न प्रतिभाती-त्यर्थः । भावविषयं कर्त्तव्यत्वं विधीनामर्थोऽभावविषयन्तुनिषेधानामिति विशेषमाशङ्क्याह । अकर्त्तव्यतेति ।अभावस्य भावत्वाभावात् कर्त्तव्यताविषयत्वासिद्धिरितिहि शब्दार्थः । प्रतिषेधज्ञानवतोऽपि कलञ्जमक्षणा-दिज्ञानदर्शनात् तन्निवृत्तेर्नियोगाधीनत्वात् तन्नि-ष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह । क्षुधार्त्तस्येति ।विषलिप्तवाणहतस्य पशोर्मासं कलञ्जम् । ब्रह्मबधाद्य-भिशापयुक्तस्यान्नपानादि । तस्मिन्नमक्ष्येऽभोज्येच प्राप्तेयद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्यतद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह । मृगतृ-ष्णिकायामिति । तथापि प्रवृत्त्यभावसिद्धये विधिरर्थ्य-तामिति चेन्नेत्याह । तस्मिन्निति । तदभावः प्रवृत्त्य-भावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धे-रित्यर्थः” आनन्दगिरिः ।नैयायिकमते तत्र बोधप्रकारः शब्दचि० दर्शितो यथा-“ननु न कलञ्जं भक्षयेत्” इत्यत्र विध्यर्थनिषेधानुपपत्तिःतद्भक्षणस्य श्रेयोरूपेष्टसाधनत्वात्, न चासुराऽविद्यावत्पर्य्युदासलक्षणया विरोध्यनिष्टसाधनबोधनं, नञोऽसमस्त-त्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्युत्पत्ते-श्चेति चेत् न विशेष्यवति विशिष्टनिषेधस्य “सविशे-षणे हीति” न्यायेन विशेषणनिषेधपर्य्यवसायितया कलञ्ज-भक्षणमिष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति” नकलञ्जं भक्षयेत्” इत्यनेन बोधनात्, इष्टसाधनतावाचकस्यविधेः सामात्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धीष्टसाधनविशेषे तात्पर्य्यं तथा चाशक्यविशेषणनिषेधपरत्वंनञ इति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहायघटत्वेन तदितरान्वयो न तच्छिद्रेतरत्वेन, युगपद्-वृत्तिद्वयविरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेननोपस्थितिरिति”विशेषबोधप्रकारस्तु आख्यातवादे गदाधरेण दर्शितो यथा“न कलञ्जं भक्षयेत्” इत्यादिनिषेधविधेः प्रामाण्यानुरोधेनबलवदनिष्टाननुबन्धित्वस्य विध्यर्थेप्रवेशः निषेधोऽपि, कलञ्ज-भक्षणादौ तृप्त्यादिरूपेष्टसाघनतासत्त्वेन तदभावस्य नञा-बोधने तत्प्रामाण्यानुपपत्तेः बलवदनिष्टाननुबन्धि-त्वस्य विघिप्रत्ययवाच्यत्वे तस्यैवाभावो बलवदनिष्टनरकानु-बन्धिनि तत्कर्म्मण्यबाघितो बोध्यत इति तत्प्रामाण्यो-पपत्तिः । वलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेषणतयावाच्यत्वे विशिष्टाभावस्यैव शाब्दबोधे भानं सोऽपि विशे-षणाभावायत्तोऽबाधितः । कलञ्जभक्षणादौ विशिष्टाभाव-बोधानन्तरं तल्लिङ्गकानुमानगम्यो बलवदनिष्टाननुबन्धि-त्वरूपतदननुबन्धित्वाभावः । प्रवर्त्तकमिव निवर्त्तकमपिज्ञानं श्रुतिवाक्यात् परम्परयैव, न तु साक्षात् । मव-न्मते च तादृशाभावस्य शाब्दबोधे न भानं पदा-र्थैकदेश इतरविशेषणत्वेनोपस्थितत्वेन नञर्थविशेषण-तया अनिष्टानमुबन्धित्वान्वयासम्भवात् । वस्तुतोविशिष्टशक्तौ विशेष्यविशेषणभावे विनिगमनाविरहात्पृथगेव बलवदनिष्टाननुबन्धिताया वाच्यत्वम् । न चबलवदनिष्टाननुबन्धित्वस्येष्टसाधनताविशेष्यत्वे विधिवा-क्यतः क्रियाविशेष्यकेष्टसाधनताज्ञानसम्भवात् क्रिया-गोचरचिकीर्षाद्यर्थं विधिवाक्यजन्यशाब्दबोधोत्तर-मिष्टसाधनत्वप्रकारकक्रियाविशेष्यकज्ञानान्तरं कल्प-नीयमिति तदकल्पनप्रयुक्तलाघवमेव बलवदनिष्टा-ननुबन्धित्वविशेषणत्वे विनिगमकमिति वाच्यंक्रियायां बलवदनिष्टासाधनत्वज्ञानतद्गोचरेच्छयोर्हेतुतयाबलवदनिष्टासाधनत्वस्येष्टसाधनताविशेषणत्वमते क्रिया-विशेष्यकतत्प्रकारकज्ञानान्तरस्य कल्पनीयतया तन्नयेकल्पनासाम्यात् । यदि च बलवदनिष्टानुबन्धित्वज्ञान-मेव तद्द्वेषसामग्रीत्वेन इच्छाप्रतिबन्धकं न तु तद-साधनत्वज्ञानमिच्छाहेतुस्तदोक्तविशेष्यविशेषणभावे विनि-गमकस्य सम्भवेऽपि विशिष्टस्य वाच्यत्वोपगमे तत्रवाधेन तद्विधायकश्रुतेरप्रामाण्यप्रसङ्ग इति शक्ति-भेदस्य श्येनस्थले इष्टसाधनताबोधस्य चोपगम आव-श्यकः । मणिकृतापि तत्र बलवदनिष्टसाधनत्वविनि-र्म्मोकेणेष्टसाधनत्वस्य भानं लिखितं तदभानञ्च विशि-ष्टशक्तिपक्षे न सम्भवति विशिष्टशक्तेर्विशेषणविनिर्मो-केण विशेष्याभासकत्वात् । तद्धर्मप्रकारेण पदार्थविषय-कशाब्दबोधे तत्तर्द्धमांशे शक्यतावच्छेदकतापर्य्याप्त्यवगाहि-ज्ञानस्यं हेतुत्वात् अन्यथा विशिष्टसुखादिवाचकस्वर्गा-दिपदाद्विना लक्षणां केवलसुखत्वादिशाब्दबोधापत्तेः” ।“इदन्तु बोध्यं बलवदनिष्टाजनकत्वमत्र न तीव्रदुःखा-जनकत्वं बह्वायातसाध्ययागादौ तस्य बाधात् नापिबलवद्द्वेषविषयदुःखाजनकत्वं दुःखमात्रस्य विरक्तानांबलवद्द्वेषविषयत्वेनाऽव्यावर्त्तकतापत्तेः तज्ज्ञानस्याप्रवर्त्तक-तया तस्य विधित्वायोगाच्च यत्र बलवान् द्वेषस्तज्जनकता-ज्ञानत्वेन बलद्द्वेषविषयत्वेन वा प्रवृत्तिसामान्यं प्रतिप्रतिबन्धकत्वात्, परन्तु नरकाजनकत्वं पापाजनकत्वंवा, तद्विरहस्यैव कलञ्जभक्षणादौ नञा बोधनात्” शब्द० प्र०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
