| YouTube Channel

कर्व्वुरः (karvvuraH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्व्वुरः,
पुं,
(कृणाति हिनस्ति प्राणिनः किरतिविक्षिपति जीवानिति वा कॄ + “कॄगॄशॄवृच-तिभ्यः ष्वरच्” उणां १२३ इति ष्वरच् ।)राक्षसः इति सिद्धान्तकौमुद्यामुणादिवृत्तिः
व्याघ्रः इति मेदिनी
(यथा, उणादिटीका“कर्व्वुरो व्याघ्ररक्षसोः” १२३
)
कर्व्वुरः,
पुं,
(कर्व्वति हिनस्ति सदर्पो भवति वा कर्व्वदर्पे हिंसायाञ्च “मद्गुरादयश्चेति” + उरच् ।)राक्षसः इति शब्दार्णवः
चित्रवर्णः इत्यमरः ।२ ९४
शटी इति भरतः