| YouTube Channel

कर्व्वटः (karvvaTaH)

 
Wordnet
Sanskrit
Synonyms:
राजधानी, राजधानम्, स्कन्धावारः, कर्व्वटः, कर्व्वटम्, खर्व्वटः, खर्वटम्
noun
शासनानां धानकं नगरम्।
"उत्तरप्रदेशस्य राजधानी लखनौ इति अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
कर्व्वटः, पुं
क्ली,
(कर्व्व + अटन्प्रत्ययः ।) द्विशतग्राम-मध्ये मनोरमस्थानम् ग्रामशतस्थजनाः क्रयवि-क्रयादिना सेवादिना वा येन ग्रामेण जीवन्तिसः इति केचित्
चतुःसमग्रामः इत्येके
चतुः-समं गृहस्थानम् इत्यपरे
इत्यमरटीकायांभरतः
चतुःशतग्रामसंग्रहस्थानम् इति सार-सुन्दरी
(तथा हि याज्ञवल्क्यः १६७ ।“धनुः शतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् ।द्वे शते कर्व्वटस्य स्यात् नगरस्य चतुःशतम्”
देशभेदः यथा, महाभारते ३० २२ ।“ताम्रलिप्तं राजानं कर्व्वटाधिपतिं तथा ।सुह्मानामधिपञ्चैव ये सागरवासिनः”
)