| YouTube Channel

कर्म्मस्थान (karmmasthAna)

 
वाचस्पत्यम्
Sanskrit
कर्म्मस्थान
न०
कर्मणः व्यापारचिन्तनस्य स्थानम् ज्योति-षोक्ते लग्नावधिदशमस्थाने आजीवशब्दे विवृतिः ।“लग्नेन्दुभ्यां वीर्य्यभाजः खभं स्यात् कर्मस्थानं खेशदृष्टंयुतं सत् सत्खेटैर्वा युक्तदृष्टं सुवृत्त्यै पापैर्दृष्टं वा युतंदुष्टवृत्त्यै कर्मास्थोऽगुः स्वगृहे चेत् कुजज्ञकविभिर्युतः ।दृष्टो वा वृद्धिहानिभ्यां युतोवित्तकरोमतः कर्मभे शुभ-खगामिलिताः स्यूराज्यदा रिपुनीचगृहे चेत् ।धर्मधान्य सुखवृद्धिकराश्च खायुषः स्थिरधनस्य वृद्ध्यै ।नीचारिसंस्था अपि पापदृष्टाः पापाश्च कर्मण्यशुभ-प्रदाःस्युः क्रूरा अपि खभवने शुभाः स्युर्विशे-षतः सद्ग्रहवीक्षिताश्चेत् शुभदृष्टाः शुभायोगाःकर्मभे सद्ग्रहोद्भवाः अशुभाः प्रायशः प्रोक्ताः खल-खेटनिरीक्षणात् चिकित्सकाः शास्त्रविवादकाश्च पुरो-हिता वञ्चनतत्परा वा नरा अथो स्युर्गणकाः खलैस्तुकर्मस्थितैः सद्ग्रहवीक्षितैश्च तृतीयषष्ठगाः पापालग्नेन्दुभ्यां शुभा मताः निधनान्त्यगता नेष्टा विशेषाल्लग्न-संस्थिताः एकोनविंशे वियुतिं रविः खे, चन्द्रोधन ३, चन्द्रसुतः ४, क्रमेण त्रिवेदनन्दैकमिते १२ ऽर्क ईज्यो ९भृगुः सुखं खे कुसुतो १२ ऽस्त्रभीतिम्” जातके तच्चिन्ता-प्रकारः