| YouTube Channel

कर्म्मव्यतिहार (karmmavyatihAra)

 
वाचस्पत्यम्
Sanskrit
कर्म्मव्यतिहार
पु०
वि--अति हृ--घञ् कर्मणा व्यतिहारः३ त० परस्परैकजातीयक्रियाकरणे, क्रियाविनिमये ।यथा यः कश्चित् येन कर्मणा इतरं कर्म्मत्वादिना संबध्नाति, इतरोऽपि तज्जातीयेनैव कर्मणातं कर्मत्वादिना संबघ्नाति, तयोः कर्मविनिमयो भवति यथा अन्योन्यं ताडयतइत्यादौ अत्र अन्योन्ययोरेकजातीयताडनक्रियायां कर्मत्वेनसम्बन्धात्तथात्वम् ‘कर्त्तरि कर्मव्यतिहारे’ ‘कर्मव्यतिहारे णच्स्त्रियाम्’ “न कर्मव्यतिहारे” पा० क्रियाव्यतिहारोऽप्यत्र