| YouTube Channel

कर्म्मविपाकः (karmmavipAkaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्म्मविपाकः,
पुं,
(कर्म्मणः अधर्म्ममूलकस्य अशुभ-फलजनकस्येति यावत् विपाकः परिणामः इहरोगादिभोगजनकदुःखमयपरिणामः अमुत्र नर-कभोगादिजनकदुःखमयपरिणामश्च ।) अशुभकर्म्मजन्यफलस्य विपाकः रोगादिरूपजन्मान्तरीया-शुभकर्म्मफलभोग इति यावत् तद्विवरणं यथा, --“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते ।पतितात् प्रतिगृह्याथावरयोनिं व्रजेद्बुधः
नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकः ।उपाध्यायव्यलीकन्तु कृत्वा श्वा मवति द्विजः
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।गर्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत्
मात्रादीतरमाक्रम्य शारिका संप्रजायते ।पितरौ पीडयित्वा तु कच्छपत्वञ्च गच्छति
भर्त्तुः पिण्डमुपाश्वस्तो हित्वान्यानि निषेवयेत् ।सोऽपि मोहसमापन्नो जायते वानरो मृतः
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।असूयकश्च नरकान्मुक्तो भवति राक्षसः
विश्वासहर्त्ता नरो मीनयोनौ प्रजायते ।यवधान्यानि हृत्वा तु जायते मूशिको मृतः
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ।भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः
गुर्व्वादिभार्य्यागमनात् शूकरो जायते नरः ।यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः
देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ।प्रमुक्तो नरकाद्वापि वायसः प्रजायते
ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौ प्रजायते ।शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।कृमिः स्त्रीवधकर्त्ता बालहन्ता जायते
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः
घृतं हृत्वा नकुलः काको मद्गुरमामिषम् ।मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः
अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ।हृते कांस्ये हारीतः कपोतो वा प्रजायते
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा
मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते ।जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः
छुछुन्दरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत् ।षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः
पुष्पापहृद्दरिद्रस्तु पङ्गुर्यावापहृन्नरः ।शाकहर्त्ता हारीतस्तोयहर्त्ता चातकः
गृहहृन्नरकान् गत्वा रौरवादीन् सुदारुणान् ।तृणगुल्मलतावल्लीत्वक्सारतरुतां व्रजेत्
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणां ।विद्यापहारी मूकश्च गत्वा नरकान् बहून्
असमिद्धेऽग्नौ हुते मन्दाग्निः सम्प्रजायते ।परनिन्दा कृतघ्नत्वं परमर्म्मावघातनम्
नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् ।परस्वहरणाशौचं देवतानाञ्च कुत्सनम्
निकृत्य वञ्चणं नॄणां कार्पण्यञ्च नृणां बुधः ।उपलक्षणादि जानीयात् मुक्तानां नरकादनु
दयाभूतेषु सम्वादः परलोकं प्रतिक्रिया ।सत्यं हितार्थता चोक्तिर्वेदप्रामाण्यदर्शनम्
गुरुदेवर्षिपूजा केवलं साधुसङ्गमः ।सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ।अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं फलम्”
इति गारुडे कर्म्मविपाकः २२९ अध्यायः
शातातपभृगुभरतोक्तः पापरोगप्रायश्चित्तानांविवरणग्रन्थः प्रायश्चित्तविहीनपापिनां नरकान्तेप्रतिजन्म तत्पापसूचितरोगयुक्तं शरीरं भवति ।नृणां दुष्कर्म्मजा रोगा जपदेवार्च्चनहोमदाना-दिभिः शमं यान्ति
*
महापातकजा रोगाः सप्त-जन्मसु जायन्ते तद्यथा--कुष्ठम् राजयक्ष्मा ।प्रमेहः ग्रहणी मूत्रकृच्छ्रम् अस्मरी कासः ।अतीसारः भगन्दरः दुष्टव्रणः गण्डमाला ।पक्षाघातः अक्षिनाशनम् इत्यादयः अत्रसम्पूर्णं प्रायश्चित्तम्
*
उपपापोद्भवा रोगाःपञ्चजन्मसु जायन्ते तद्यथाः--जोलदरम् ।यकृत् प्लीहा शूलम् व्रणः श्वासः जीर्णज्वरः ।छर्द्दिः भ्रमः मोहः गलग्रहः रक्तार्व्वुदम् ।विसर्पः इत्यादयः अत्र अर्द्धं प्रायश्चित्तम्
*
पापसमुद्भवा रोगाः त्रिषु जन्मसु जायन्ते ।तद्यथाः--दण्डापतानकः चित्रवपुः कम्पः ।विचर्च्चिका वल्मीकः पुण्डरीकम् इत्यादयः ।अत्र षष्ठांशं प्रायश्चित्तम्
*
अतिपापात्अर्श आद्याः रोगा भवन्ति अन्ये बहुधा रोग-सङ्कराश्च
*
अथ दानादिषु साधारणविधिः ।गोदाने सुशीला सवत्सा पयस्विनी गौः वृषदानेशुक्लवस्त्रकाञ्चनसहितः शुभोऽनड्वान् भूदानेदशनिवर्त्तनपरिमिता भूः सुवणदाने शतनिष्कंखर्णं तदर्द्धार्द्धं वा अश्वदाने उपस्करसहित-सुशीलाश्वः महिषदाने स्वर्णायुधयुक्तमहिषी ।गजमहादाने सुवर्णफलसहितगजः देवार्च्चनेलक्षोच्चावचपुष्पदानम् ब्राह्मणभोजने सहस्र-द्विजेभ्यो मिष्टान्नदानम् रुद्रजपे लक्षसङ्ख्यक-पुष्पकरणकत्र्यम्बकपूजनानन्तरं एकादशरुद्रजपःतद्दशांशसघृतगुग्गुलहोमःवरुणमन्त्रैरभिषेचनञ्च ।धान्यदाने षष्ठिसङ्ण्यकखारी परिमितधान्यम् ।वस्त्रदाने कर्पूरमिश्रितपट्टवस्त्रद्वयम्
*
अथ प्रायश्चित्तग्रहणानुष्ठानादि दश पञ्चाष्ट-चतुरो वा ब्राह्मणानुपवेश्य तेषामनुज्ञया प्राय-श्चित्तमुपक्रम्य विष्णुं सम्पूज्य निजकाम्यया सङ्कल्प्यद्विजेभ्यो धेनुंशक्तितोदक्षिणाञ्च दत्त्वा तान् वस्त्रा-लङ्ककणैरलङ्कृत्य दण्डप्रमाणेन प्रायश्चित्तं याचेत ।तेषामनुज्ञया प्रायश्चित्तंयथाविधि कृत्वा परिपूर्णा-र्थान् तान् यथाविधि अर्च्चयित्वा तेभ्योऽनुज्ञामा-शिषश्च प्रतिगृह्य ब्राह्मणान् भोजयित्वा वन्धुभिःसह भोक्तव्यम् इति शातातपीयकर्म्मविपाक-प्रथमाध्यायविवरणम्
*
जन्मान्तरीयमहापातक-शेषचिह्नकुनखादिरोगाणां प्रायश्चित्तं पराकव्रतंमहापातकादतिपातकस्य गुरुत्वात्तच्छेषजन्यगलत्कुष्टरोगस्य प्रायश्चित्तं द्विगुणम् इति स्मार्त्ताः
*
अथ शातातपोक्तहिंसास्तेयाऽगम्यागमनाऽगतिप्रायश्चित्तानि क्रमेण लिख्यन्ते
पापी१ अजाघाती …२ अश्वहन्ता …३ उरभ्रघाती …४ उष्ट्रहन्ता …५ काकघाती …६ कारुहन्ता …७ खरहन्ता …८ गजघाती …९ गोत्रहा …१० गोवधी …११ तरक्षुहन्ता …रोगी१ अधिकाङ्गः …२ वक्रतुण्डः …३ पाण्डुरोगी …४ विकृतस्वरः …५ कर्णहीनः …६ रूक्षः …७ खररोमा …८ सर्व्वकार्य्येष्वसिद्धार्थः …९ कुष्ठी निर्व्वंशश्च …१० कुष्ठी …११ केकरेक्षणः …प्रायश्चित्तम्१ विचित्रवस्त्रयुक्तां अजां दद्यात्
शतपलानि चन्दनानि दद्यात्
व्राह्मणाय पलपरिमितकस्तूरिकां दद्यात्
कर्पूरकं फलं दद्यात्
कृष्णां गां दद्यात्
शुक्लवर्णवृषभं दद्यात्
कृष्णगुल्मिवत् प्रायश्चित्तं कुर्य्यात्
प्रासादं कारयित्वा गणेशप्रतिमां स्थापयेत् अथवा कुलत्थशाकैः पूपैश्च गण-शान्तिपूर्व्वकं लक्षसंख्यकगणेशमन्त्रं जपेत्
शतप्राजापत्यव्रतञ्चरित्वा ब्राह्मणाय भूमिं दक्षिणां दत्त्वा भारतं शृणुयात्
१० पञ्चपल्लवसंयुक्तपञ्चवर्णसमन्वितरक्तचन्दनलिप्ताङ्गरक्तपुष्पाम्बरान्वितैकरक्तकुम्भं द-क्षिणस्यां दिशि संस्थाप्य तत्र तिलचूर्णपूरितताम्रपात्रं विन्यस्य तदुपरि निष्कमितसुवर्ण-निर्म्मितयमदेवं पुरुषसूक्तमन्त्रेण संपूज्य पापं मे शाम्यतामिति प्रार्थयेत् ततः सामविद्ब्राह्मणस्तत्र कलसे सामपारायणं कुर्य्यात् ततो दशांशं सर्षपं दत्त्वा पात्रमाल्यामि-षेचनं कुर्य्यात् ततो “यमोऽपि महिषारूढो दण्डपाणिर्भयानकः दक्षिणाशापतिर्देवोमम पापं व्यपोहतु”
इति मन्त्रेण यजमानो यमं विसृज्य तं आचार्य्याय निवेद्य सद्भक्ति-माचरेत्
११ गुल्ममयीं धेनुं दद्यात्
पापी१२ पितृहा …१३ बालघाती …१४ ब्रह्महा …१५ भ्रातृहा …१६ महिषीघाती …१७ मातृहा …१८ मार्जारहा …१९ राजहा …२० वकघाती …२१ वैश्यहन्ता …२२ शुकशारिकाघाती …२३ शूकरहन्ता …२४ शूद्रहन्ता …२५ शृगालहा …२६ स्त्रीहन्ता …२७ हरिणघाती …रोगी१२ चेतनाहीनः …१३ मृतवत्सः …१४ पाण्डुकुष्ठी …१५ मूकः …१६ कृष्णगुल्मी …१७ अन्धः …१८ पीतपाणिः …१९ क्षयरोगी …२० दीर्घनसः …२१ रक्तार्ब्बुदी …२२ स्खलितवाक् …२३ दन्तुरः …२४ दण्डापतानकः …२५ विपादकः …२६ अतिसारी …२७ खञ्जः …प्रायश्चित्तम्१२ त्रिंशत् प्राजापत्यानि कृत्वा पलपरिमितां सुवर्णनावं कारयित्वा ताम्रपात्रे रूप्यमयंउम्भं स्थापयित्वा निष्कपरिमितस्वर्णनिर्म्मितं विष्णुं पट्टवस्त्रेण सबेष्ठ्य विधानतः पूजयेत् ।तत् सर्व्वं ब्राह्मणाय दत्त्वा ब्राह्मणं विसर्जयेत् अन्येभ्योऽपि विप्रेभ्यो भूयसीं दक्षिणांदद्यात्
१३ ब्राह्मणोद्वाहनं यधाविधि हरिवंशश्रवणञ्च कुर्य्यात् महारुद्रजपान् कारयेत् ।तद्दशांशेन अयुतसंख्यकदूर्व्वया हुत्वा दक्षिणासहितनिष्कपरिमितैकादशस्वर्णानिद्विजानुसारतः एकादशपलानि दद्यात् अन्यब्राह्मणेभ्यो यथाशक्ति दक्षिणां दद्यात् ।तत आचार्य्यो वरुणदैवतमन्त्रैर्दम्पतीः स्नापयेत् यजमान आचार्य्याय वस्त्रालङ्करणानिदद्यात्
१४ यजमानश्चतुर्दिक्षु पञ्चपल्लवपञ्चवर्णसंयुक्तचतुरः कलसान् संस्थाप्य तन्मध्ये कुम्भोपरिरौप्यमष्टदलपद्मं विन्यस्य तदुपरि पलार्द्धार्द्धपरिमितसुवर्णनिर्म्मितदशहस्तं चतुर्म्मुखदेवंसंन्यस्य प्रत्यहं त्रिकालं पुरुषसूक्तेन पूजयेत् ततः पूर्व्वादिकुम्भेषु ब्रह्मचारिणो ब्राह्मणाःऋग्वेदप्रभृतीन् स्वस्ववेदान् शनैः पठेयुः ततो मध्यकुम्भे तिलाक्तघृतहेमभिर्ग्रहशान्ति-पुरःसरं दशांशेन होमं कुर्य्यात् ततो ब्राह्मणो द्वादशाहेनेदं कर्म्म समाप्य तत्र पीठेयथाविधि यजमानमभिषिञ्चेत् ततो यजमानो ब्राह्मणेभ्यो यथाशक्ति गोभूहेमतिलोद-कानि दत्त्वा कुम्भादीन् आचार्य्याय निवेदयेत्
१५ चान्द्रायणव्रतं चरित्वा “सरस्वति जगन्मातः शब्दब्रह्मादिदेवते दुष्कर्म्मकरणात्पापात् पाहि मां परमेश्वरि”
इमं मन्त्रमुच्चार्य्य पलपरिमितसुवर्णसहितपुस्तकं ब्राह्म-णाय दत्त्वा तं ब्राह्मणं विसर्ज्जयेत्
१६ निष्कत्रयपरिमितस्वर्णमयीं प्रकृतिं दद्यात्
१७ पितृहवत् प्रायश्चित्तं कुर्य्यात्
१८ निष्कमितस्वर्णनिर्म्मितं पारावतं दद्यात्
१९ गोभूहिरण्यमिष्टान्नजलवस्त्राणि घृतधेनुं तिलधेनुञ्च दद्यात्
२० शुक्लां गां दद्यात्
२१ चत्वारि प्राजापत्यव्रतानि चरित्वा सप्तधान्यानि उत्सृजेत्
२२ ब्राह्मणाय सदक्षिणं सच्छास्त्रपुस्तकं दद्यात्
२३ सदक्षिणं घृतकुम्भं दद्यात्
२४ एकं प्राजापत्यव्रतञ्चरित्वा सदक्षिणैकधेनुं दद्यात्
२५ खञ्जवत् प्रायश्चित्तं कुर्य्यात्
२६ दशाश्वत्थवृक्षान् रोपयेत् शर्कराधेनुं दद्यात् शतं व्राह्मणांश्च भोजयेत्
२७ पलपरिमितसुवर्णाश्वं दद्यात्
*
“हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता ।तदर्द्धार्द्धप्रमाणेन क्षत्रियादिष्वनुक्रमात्”
इति शातातपोक्तकर्म्मविपाकद्वितीयाध्याय-हिंसाप्रायश्चित्तविवरणम्
*
अभक्ष्यभोक्ता …२ अस्पृश्यस्पृष्टान्नभोक्ता …३ गर्भपातकर्त्ता …४ दावाग्निदः …५ दुष्टवाग्मी …६ द्रव्ये सति कदन्नदः …७ धूर्त्तः …८ परनिन्दावान् …९ परान्नविघ्नकर्त्ता …१० परोपतापी …११ परोपहासकृत् …१२ पिशुनः …१ कृमिकोदरः …२ कृमिलोदरः …३ यकृत्प्लीहजलोदररोगी …४ रक्तातिसारी …५ खण्डितः …६ मन्दोदराग्निः …७ अपस्मारी …८ खल्लीटः …९ अजीर्णी …१० शूली …११ काणः …१२ श्वासकासी …१ भीमपञ्चकोपवासं कुर्य्यात्
त्रिरात्रमुपवसेत्
पलत्रयपरिमितसुवर्णरूप्यताम्रान्दितजलधेनुदानं कुर्य्यात्
उदपानं वटवृक्षरोपणञ्च कुर्य्यात्
दुग्धसमन्वितघटद्वयं पलद्वयपरिमितरूप्यञ्च द्विजातये दद्यात्
प्राजापत्यत्रयं कृत्वा शतं द्विजान् भोजयेत्
ब्रह्मकूर्च्चमयींधेनुं दत्त्वा सदक्षिणां गां दद्यात्
काञ्चनसहित धेनुं दद्यात्
यथाविधि लक्षहोमं कुर्य्यात्
१० अन्नदानं रुद्रजपञ्च प्रकुर्व्वीत
११ सकाञ्चनां गां दद्यात्
१२ सहस्रपलसम्मितं घृतं दद्यात्
पापी१३ प्रतिमाभङ्गकारी …१४ मद्यपः …१५ मार्गहा …१६ रजस्वलादृष्टान्नभोक्ता …१७ विषदः …१८ सभायां प्रक्षपाती …१९ सुरापः …२० सुरालये जले वा …शकृन्मूत्रकारी …रोगी१३ अप्रतिष्ठः …१४ रक्तपित्ती …१५ पादरोगी …१६ कृमिलोदरः …१७ छर्द्दिरोगी …१८ पक्षघातवान् …१९ श्यावदन्तः …२० गुदरोगी …प्रायश्चित्तम्१३ वत्सरत्रयपर्य्यन्तं प्रतिदिनं अश्वत्थसेचनानन्तरं गृह्योक्तविधिना समां गम्यामुद्वाह-येत् सुपूजितं विघ्नराजञ्च संस्थापयेत्
१४ सर्पिषो घटं सहिरण्यं मधुनोऽर्द्धघटञ्च दद्यात्
१५ अश्वं दद्यात्
१६ त्रिरात्रं गोमूत्रयावकं भुञ्जीत
१७ दश पयस्विनीर्गा दद्यात्
१८ सत्यवर्त्तिने निष्कत्रयपरिमितं हेम दद्यात्
१९ प्राजापत्यव्रतञ्चरित्वा सप्ततुलापरिमितशर्करां दत्त्वा महारुद्रं जप्त्वा तद्दशांशं तिलै-र्हुत्वा वरुणदैवतमन्त्रैरभिषेकं कुर्य्यात्
२० मासं व्याप्य सुरार्च्चनं गोद्वयदानं प्राजापत्यमेकञ्च कुर्य्यात्
*
इति शातातपोक्तकर्म्मविपाकतृतीयाध्यायप्रकीर्णप्रायश्चित्तविवरणम्
*
अगम्याभिगामी …२ अश्वयोनिगामी …३ आमान्नहारी …४ इक्षोर्विकारहारी …५ ऊर्णाहारी …६ औषधापहर्त्ता …७ कन्दमूलहारी …८ कांस्यहारी …९ गुरुजायाभिगामी …१० चाण्डालीगामी …११ तपस्विनीप्रसङ्गी …१२ तपस्विनीसङ्गमी …१३ ताम्बूलहारी …१४ ताम्रचौरः …१५ तेलचौरः …१६ त्रपुहारी …१७ दधिचौरः …१८ दारुहारी …१९ दीक्षितस्त्रीप्रसङ्गी …२० दुग्धहारी …२१ देवहारी …२२ नानाविधद्रव्यचौरः …२३ पक्वान्नहारी …२४ पट्टमूत्रहर्त्ता …२५ पशुयोनिगामी …२६ पितृष्वसृगन्ता …२७ पुत्त्रजायाभिगामी …१ ध्रुवमण्डली …२ गुदस्तम्भी …३ हीनदीप्तिः …४ उदरगुल्मवान् …५ लोमशः …६ सूर्य्यावर्त्तरोगी …७ ह्रस्वपाणिः …८ पुण्डरीकसमन्वितः …९ मूत्रकृच्छ्री …१० हीनमुष्कः …११ प्रमेहगदी …१२ अश्मरीगदी …१३ श्वेतौष्ठः …१४ औडुम्बरी …१५ कण्ड्वादिपीडितः …१६ नेत्ररोगवान् …१७ मदवान् …१८ स्विन्नपाणिः …१९ दुष्टरक्तदृक्रोगी …२० बहुमूत्रकः …२१ विविधज्वरी …२२ ग्रहणीयुक्तः …२३ जिह्वारोगी …२४ विलोमा …२५ मूत्राघाती …२६ दक्षिणांशव्रणी …२७ कृष्णकुष्ठी …१ कार्पासभारकांस्यदोहसंयुक्तसवत्सकतिलषष्टिमितहेमधेनुं “सुरभी वैष्णवी माता ममपापं व्यपोहतु” इमं मन्त्रमुच्चार्य्य दद्यात्
मासं व्याप्य प्रतिदिनं सहस्रसङ्ख्यकमलकरणकशिरःस्नानं कुर्य्यात् स्त्रीणामपितत्तत्पुरुषसंसर्गात्तत्तत्प्रायश्चित्तम्
निष्कद्वयस्वर्णनिर्म्मिताश्विनीकुमारौ दद्यात्
गुडधेनुं प्रदद्यात्
कम्बलान्वितनिष्कमितस्वर्णनिर्म्मितवह्निमूर्त्तिं अर्च्चयित्वा ब्राह्मणाय दद्यात्
मासं व्याप्य सूर्य्यार्ध्यं काञ्चनञ्च दद्यात्
यथाशक्ति देवगृहं उद्यानञ्च कुर्य्यात्
ब्राह्मणमलङ्कृत्य तस्मै शतपलं कांस्यं दद्यात्
नीलमाल्यादिभूषितनीलवस्त्राच्छन्नघटं पश्चिमस्यां दिशि संस्थाप्य तदुपरि ताम्रपात्रेषड्णिष्कस्वर्णनिर्म्मितवरुणं पुरुषसूक्तेन यजेत सामवेदी ब्राह्मणस्तत्र सामवेदमाचरेत्विंशतिनिष्कमितसुवर्णपुत्तलिकां निष्पापोऽहमित्युच्चार्य्य ब्राह्मणाय दद्यात् “यादसा-मधिपो देवो विश्वेषामधिपो वरः संसारनौकर्णधारो वरुणः पावनोऽस्तु मे”
इतिमन्त्रेण आचार्य्याय स्वर्णवरुणं दद्यात्
१० मातृगामिवत प्रायश्चित्तं कुर्य्यात्
११ मासं व्याप्य रुद्रं जपेत् यथाशक्ति काञ्चनञ्च दद्यात्
१२ मधुधेणुं हिरण्यसहितशतद्रोणपरिमिततिलञ्च दद्यात्१३ सदक्षिणोत्तमविद्रुमद्वयं दद्यात्
१४ प्राजापत्यव्रतं शतपलपरिमितताम्रदानञ्च कुर्य्यात्
१५ उपोष्य विप्राय तैलघटद्वयं दद्यात्
१६ उपोष्य विधिवद्घृतधेनुं दद्यात्
१७ विप्राय दधिधेनुं दद्यात्
१८ विदुषे पलद्वयपरिमितकुङ्कुमं दद्यात्
१९ प्राजापत्यद्वयं कुर्य्यात्
२० ब्राह्मणाय यथाविधि दुग्धधेनुं दद्यान्
२१ तत्र ज्वरे कर्णे रुद्रं जपेत् महाज्वरे महारुद्रं रोद्रज्वरे अतिरौद्रं वैष्णवज्वरे महा-रुद्रातिरौद्रौ जपेत्
२२ शक्त्यनुसारेणान्नोदकवस्त्राणि हेम दद्यात्
२३ लक्षसंख्यकगायत्रीं जपेत् तिलकरणकं तद्दशांशहोमञ्च कुर्य्यात्
२४ धेनुं दद्यात्
२५ तिलपात्रद्वयं दद्यात्
२६ शक्तितः अजां दद्यात्
२७ स्वमुतागमनप्रायश्चित्तस्यार्द्धं घृताक्ततिलकरणकदशांशहोमञ्च कुर्य्यात्
पापी२८ फलहारी …२९ भ्रातृजायामिगामी …३० मधुचौरः …३१ मातुलानीगन्ता …३२ मातृगामी …३३ मातृष्वसृगन्ता …३४ मृतभार्य्याभिगामी …३५ रक्तवस्त्रप्रबालहारी …३६ लौहहारी …३७ वस्त्रहारी …३८ विद्यापुस्तकहारी …३९ विप्ररत्नापहारी …४० विप्रहेमहृत् …४१ शाकहारी …४२ शुक्तिहारी …४३ सौगन्धिकहारी …४४ स्वगोत्रस्त्रीप्रसङ्गी …४५ स्वजातिस्त्रीगामी …४६ स्वसुतागामी …रोगी२८ व्रणिताङ्गुलिः …२९ गुल्मकुष्ठी …३० नेत्ररोगवान् …३१ पृष्ठकुब्जः …३२ लिङ्गहीनः …३३ नानाङ्गे व्रणवान् …३४ मृतभार्य्यः …३५ रक्तवातवान् …३६ कर्व्वूराङ्गः …३७ कुष्ठी …३८ मूकः …३९ अनपत्यः …४० कुलघ्नः …४१ नीललोचनः …४२ पाण्डुमूर्द्धजः …४३ दुर्गन्धाङ्गः …४४ भगन्दररोगी …४५ हृदयव्रणी …४६ रक्तकुष्ठी …प्रायश्चित्तम्२८ द्विजातये अयुतसंख्यकनानाफलं दद्यात्
२९ स्वसुतागमनप्रायश्चित्तस्यार्द्धं घृताक्ततिलकरणकदशांशहोमञ्च कुर्य्यात्
३० उपवासं कृत्वा मधुधेनुं दद्यात्
३१ कृष्णाजिनं प्रदद्यात्
३२ उत्तरतः कृष्णमाल्यादिभूषितकृष्णवस्त्रसमाच्छन्नकुम्भं विन्यस्य तदुपरि कांस्यपात्रेनिष्कषट्कमितसुवर्णनिर्म्मितनरवाहनकुवेरं पुरुषसूक्तेन यजेत् अथर्व्ववेदविद्ब्राह्मण-स्तत्र अथर्व्वोक्तकर्म्म कुर्य्यात् व्राह्मणाय विंशतिनिष्कपरिमितसुवर्णनिर्म्मितपुत्रिकांनिष्पापोऽहमिति ब्रुवन् दद्यात् “निधीनामधिपो देवः शङ्करस्य प्रियः सखा सौम्या-शाधिपतिः श्रीमान् मम पापं व्यपोहतु”
इति मन्त्रेण तं कुवेरं आचार्य्याय दद्यात्
३३ दासदानं अगम्यागमनप्रायश्चित्तञ्च कुर्य्यात्
३४ एकब्राह्मणं विवाहयेत्
३५ मणिरागसमन्वितां सवस्त्रां महिषीं दद्यात्
३६ एकदिनमुपोष्य शतपललौहं दद्यात्
३७ निष्कमितहेमनिर्म्मितप्रजापतिं वस्त्रयुग्मञ्च दद्यात्
३८ ब्राह्मणाय सदक्षिणं न्यायेतिहासं दद्यात्
३९ महारुद्रजपादिकं कुर्य्यात् तद्दशांशपलाशसमिद्भिर्यधाविधि जुहुयात् मृतवत्सोक्त-सर्व्वकर्म्म कुर्य्यात्
४० चान्द्रायणत्रयानन्तरं सुवर्णशतं दद्यात्
४१ ब्राह्मणाय महानीलमणिद्वयं दद्यात्
४२ उपवासानन्तरं पलशतशुक्तिं दद्यात्
४३ अग्नौ लक्षसंख्यकपद्मैर्होमं कुर्य्यात्
४४ महिषीं दद्यात्
४५ प्राजापत्यद्वयं कुर्य्यात्
४६ पूर्व्वतः पीतमाल्यादिभूषितपीतवस्त्रसमाच्छन्नकलसं संस्थाप्य तस्योपरि स्वर्णपात्रंनिष्कषट्कमितसुवर्णनिर्म्मितवासवं पुरुषसूक्तेन यजेत् तत्र ऋग्यजुःसामानि समा-चरेत् ब्राह्मणं सम्पूज्य निष्पापोऽहमिति ब्रुवन् तस्मै शतसुवर्णनिर्म्मितपुत्त्रिकां दद्यात् ।“देवानामधिपो देवो वज्री विष्णुनिकेतनः शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु”
इति मन्त्रं पठेत्
*
इति शातातपीयकर्म्मविपाके चतुर्थाध्यायोक्तस्तेयप्रायश्चित्तस्य तथा पञ्चमाध्या-योक्तागम्यागमनप्रायश्चित्तस्य विवरणम्
*
पापयुक्तः--१ अनध्यायेऽध्ययनकर्त्ता …२ अस्पृशी …३ करवृत्तिः …४ कुमतिप्रदः …५ कुमारीगन्ता …६ कृत्तवासाः निकृन्तनश्च …७ क्रतुनिन्दकः श्रुति-निन्दकोऽपि पाठः …८ गुरुघाती …९ दक्षिणाचौरः …१० द्रोही …११ द्विजनिन्दाकर्त्ता …१२ द्विजवस्त्रहृत् …मरणविशेषविशिष्टः--१ विद्युदाहतः …२ अस्पर्शसङ्गी मृतः …३ वृकहतः वृषहतः …४ विषहतः …५ व्याघ्रादिहतः …६ कृमिहतः …७ शस्त्रहतः …८ शय्यामृतः …९ दवहतः दारुहतः …१० संस्कारहीनमृतः …११ प्रस्तरहतः …१२ अनपत्यमृतः …और्द्ध्वदेहिकपूर्व्वकालीनतत्पुत्त्रादिकर्त्तव्यप्रायश्चित्तम् ।१ विद्यादानं कुर्य्यात्
वेदपारायणं कुर्य्यात्
यथाशक्ति काञ्चणं दद्यात्
क्षेत्रसंयुतां मेदिनीं दद्यात्
परकन्यां विवाहयेत्
द्विजाय गोधूमान्नं दद्यात्
सदक्षिणां महिषीं दद्यात्
निष्कमितसुवर्णनिर्म्मितपात्रस्थितविष्ण्वधिष्ठिततूलीसमन्वितशय्य दद्यात्
सदने सभां कुर्य्यात्
१० कुमारं विवाहयेत्
११ सवत्सां पयस्विनीं गां दद्यात्
१२ नवतिं कृच्छ्राणि चरेत्
पापयुक्तः--१३ निक्षेपहारकः …१४ नृपनाशकः …१५ पशुहिंसकः …१६ पाशिकः …१७ मत्सरी …१८ मद्यविक्रेता …१९ मित्रभेदी …२० मेदिनीचौरः …२१ यज्ञहानिकर्त्ता …२२ राजकुमारघ्नः …२३ राजदन्तिहृत् …२४ लौहहृत् …२५ विषदः …२६ शङ्करद्रोही …२७ शास्त्रहृत् …२८ सूचकः …२९ सेतुभेदी …३० स्वदर्पकार्य्यकारकः …३१ हिंस्रः …मरणविशेषविशिष्टः--१३ कुक्कुरहतः …१४ गजहतः …१५ चौरहतः …१६ अरण्ये शूकरहतः …१७ शौचहीनमृतः …१८ पतितमृतः …१९ वैरिहतः …२० भृगुपातहतः …२१ वह्निहतः …२२ राजहतः …२३ वृक्षहतः …२४ अतीसारमृतः …२५ सर्पदष्टः …२६ शृङ्गिहतः …२७ वान्तमाश्रित्य मृतः-अस्पश्यस्पर्शनमृतश्च …२८ शकटहतः …२९ जलहतः …३० साकिन्यादिहतः …३१ उद्बन्धनमृतः …३२ हयाहतः …३३ कपिहतः …३४ विसूचिकामृतः …३५ कण्ठकबलमृतः …३६ केशरोगमृतः …और्द्ध्वदेहिकपूर्व्वकालीनपुत्त्रादिकर्त्तव्यप्रायश्चित्तम् ।१३ अत्र प्रायश्चित्तस्यानुक्तत्वात् व्याघ्रादिहत इत्यत्रादिपददर्शनाच्च तत्रोक्तप्रायश्चित्तंयुक्तम्
१४ चतुर्निष्कमितहेमगजं दद्यात्
१५ धेनुं दद्यात्
१६ कुक्कुरहतवत्
१७ द्विनिष्कस्वर्णजहरिं दद्यात्
१८ षोडशप्राजापत्यानि कुर्य्यात्
१९ वृषं दद्यात्
२० धान्यपर्व्वतं दद्यात्
२१ स्वशक्तित उपानहं दद्यात्
२२ हिरण्मयपुरुषं दद्यात्
२३ स्वर्णसंयुतं सौवर्णवृक्षं दद्यात्
२४ संयतो लक्षसङ्ख्यकगायत्रीं जपेत्
२५ नागबलिदानं काञ्चनदानञ्च कुर्य्यात्
२६ वस्त्रसंयुक्तवृषभं दद्यात्
२७ सच्छास्त्रपुस्तकं दद्यात्
२८ उपस्करान्वितं अश्वं दद्यात्
२९ निष्कत्रयमितस्वर्णवरुणं दद्यात्
३० यथोचितं रुद्रं जपेत्
३१ पयस्विनीं गां दद्यात्
३२ निष्कत्रयमितं स्वर्णं दद्यात्
३३ कनकनिर्म्मितकपिं दद्यात्
३४ शतं द्विजान् भोजयेत्
३५ तिलधेनुं दद्यात्
३६ अष्टौ कृच्छ्रान् समाचरेत्
*
इति शातातपीयकर्म्मविपाके अगतीनां विशेषप्रायश्चित्तम्
*
अगतीनां साधारणप्रायश्चित्तम् ।सफलसप्तधान्योपरि पञ्चपल्लवसर्व्वौषधिसंयुक्तंकृष्णवस्त्रसमाच्छन्नमकालमूलं कलसं संस्थाप्य तत्रमहिषासनसंस्थितं चतुर्भुजं दण्डहस्तं स्वर्णकुण्डल-संयुतं निष्कपरिमितं प्रेतरूपिणं पुरुषं संस्थाप्यपूजयेत् प्रत्यहं पुरुषसूक्तेन दुग्धेन तर्पयेत् तत्रकलसे षडङ्गरुद्रं जपेत् यमसूक्तेन यमपूजादिकंआत्मविशुद्ध्यर्थं गायत्रीजपं ग्रहशान्तिपूर्व्वकदशां-शतिलहोमञ्च कुर्य्यात् अज्ञातगोत्रविप्राय सति-लमुदकं दद्यात् ।“इमं तिलमयं पिण्डं मधुसर्पिःसमन्वितम् ।ददामि तस्मै प्रेताय यः पीडां कुरुते मम”
इति मन्त्रेण मधुशर्करायुक्तप्रस्थमितकृष्णतिल-पिष्टपिण्डं प्रेतरूपाय दद्यात् यजमानः प्रेत-मुद्दिश्य तिलपात्रसंयुतान् द्वादशकृष्णकलसान्विष्णुमुद्दिश्यैकं कलमञ्च दद्यात् वरायुधधरःशुचिराधार्य्यः वरुणदैवतमन्त्रैः कलसोदकैर्दम्पतीअमिषिञ्चेत् ततो यजमान आचार्य्याय दक्षिणांदद्यात नारायणबलिञ्च कुर्य्यात्
*
“एवं कृते विधानेन प्रकुर्य्यादौर्द्ध्वदेहिकम् ।ततः प्रेतत्वनिर्म्मुक्ताः पावितास्तर्पितास्तथा
दद्युः पुत्त्रांश्च पौत्त्रांश्च आयुरारोग्यसम्पदः”
इति शातातपीयकर्म्मविपाकषष्ठाध्यायोक्ता-गतिप्रायश्चित्तविवरणम्
*
(मार्कण्डेयोक्ताः कर्मविपाकाश्च यथा, तत्रैव१५ अध्याये उक्ताः ।“पतितात् प्रतिगृह्यार्थं खरयोनिं व्रजेद्द्विजः ।नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः ।तज्जायां मनसा वाञ्छन् तद्द्रव्य चाप्यसंशयम्
गर्द्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।मातापितरावाक्रुश्य शारिका सम्प्रजायते
भ्रातुः पत्न्यवमन्ता कपोतत्वं प्रपद्यते ।तामेव पीडयित्वा तु कञ्छपत्वं प्रपद्यते
भर्तृपिण्डमुपाश्नन् यस्तदिष्टं निषेवते ।सोऽपि मोहसमापन्नो जायते वानरो मृतः
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।असूयकश्च नरकात् मुक्तो भवति राक्षसः
विश्वासहन्ता नरो मीनयोनौ प्रजायते ।धान्यं यवांस्तिलान्माषान् कुलत्थान् सर्षपांश्चणान्
कलायान् कलमान् मुद्गान् गोधूमानतसीस्तथा ।शस्यान्यन्यानि वा हृत्वा मोउहाज्जन्तु रचेतनः
सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ।परदाराभिमर्षात्तु वृको घोरोऽभिजायते
श्वा शृगालो वको गृध्रो त्याडः कङ्कस्तथा क्रमात् ।भ्रातृभार्य्याञ्च दुर्ब्बुद्धिर्योधर्षयति पापकृत्
पुंस्कोकिलत्वमाप्नोति चापि नरकाच्च्युतः
सखिभार्य्यां गुरोर्भार्य्यां राजभार्य्याञ्च पापकृत् ।प्रधर्षैव हि कामात्मा शूकरो जायते नरः
यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः
पुनर्द्दाता कन्याया कृमिरेवोपजायते
देवता पितृविप्राणामदत्त्वा योऽन्नमश्नुते ।प्रमुक्तो नरकात् सोऽपि वायसः सम्प्रजायते
ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ।नरकात् सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते
शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते
अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः ।कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ।मत्स्यस्तु वायसः कूर्म्मः पुक्कशो जायते ततः
अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः
कृमिः स्त्रीवधकर्त्ता बालहन्ता जायते
भोजनं चोरयित्वा तु मक्षिका जायते नरः
तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् ।हृत्वान्नन्तु मार्जारो जायते नरकाच्च्युतः
तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः
घृतं हृत्वा तु नकुलः काको मद्गुरजामिषम्
मत्स्यमांसापहृत् काकः श्येनो मार्गामिषापहृत् ।वीचीकाकस्त्वपहृते लवणे दधनि कृमिः
चोरयित्वा पयश्चापि बलाका सम्प्रजायते
यस्तु चोरयते तैलं तैलपायी जायते
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ।चोरयित्वा तु निष्पावान् जायते गृहगोलदः
आसवञ्चोरयित्वा तु तित्तिरित्वमवाप्नुयात्
अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ।हृते कांस्ये हारीतः कपोतो रूप्यभाजने ।हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते
पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति ।कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते
दुकूले शार्ङ्गिके पापो हृते चैवांशुके शुकः ।तथैवाजाविकं हृत्वा वस्त्रं क्षौमञ्च जायते
कार्पासिके हृते क्रौञ्चो वाल्कहर्त्ता वकस्तथा ।मयूरो वर्णकान् हृत्वा शाकपत्रञ्च जायते
जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ।छुछुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत्
शण्डः फलापहरणात् काष्ठस्य घुणकीटकः ।पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः
शाकहर्त्ता हारीतस्तोयहर्त्ता चातकः ।भूहर्त्ता नरकान् गत्वा रौरवादीन् सुदारुणान्तृणगुल्मलताबल्लित्वक्सारतरुतां क्रमात् ।प्राप्य क्षीणाल्पपाप्रस्तु नरो भवति वै ततः
कृमिः कीटः पतङ्गोऽथ पक्षी तोयचरो मृगः ।गोत्वं प्राप्य चण्डालपुक्कशादि जूगुप्सितम् ।पङ्ग्वन्धो बधिरः कुष्ठी यक्ष्मणा प्रपीडितःमुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते
अपस्मारी भवति शूद्रत्वं गच्छति
एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ।विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः
जायामन्यस्य पुरुषः पारक्यां प्रतिपादयन् ।प्राप्नोति शण्डतां मूढो यातनाभ्यः परिच्युतः
यः करोति नरो हीममसमिद्धे विभावसौ ।सोऽजीर्णव्याधिदुःखार्त्तो मन्दाग्निः संप्रजायते”
*
नानापुराणोक्तकर्म्मविपाकसंक्षेपमाह ।१ अकिञ्चनता यः किल प्रभूतधनवानपिधर्म्मनिन्दको देवाग्निब्राह्मणदरिद्रेभ्यः किञ्चिदपिधनं दत्तवान् तु आयुषोऽवसाने मृतो यम-दूतैः प्रपीडितो लोलाख्यनरके, सर्व्ववस्तूनि पश्य-न्नपि निराशः परमं दुःखमाप्नोति ततो जन्मा-न्तरं परिगृह्याकिञ्चनत्वमासाद्य जीर्णवस्त्रधरःबहुना क्लेशेनापि स्वजीविकां निष्पादयेत्
अपुत्त्रता बहुपुत्त्रता यस्तु गवीमुखात्भोजनीयद्रव्यं आहृत्य दूरतो विसर्जयेत् समन्वन्तरत्रयं निर्जने घोरे मरुप्रभृतिस्थले उषित्वापुनर्जन्मान्तरं प्राप्य पुत्त्रविहीनो बहुपुत्त्रो वाभवेदिति
अर्शोरोगः यः खलु पतिव्रतां धर्म्मनियतांऋतुस्नातां पत्नीं नोपगच्छेत् यश्च आत्महाभ्रूणहा गोहन्ता स्यात् मृतः गाढान्ध-तमसावृतं तामिस्राख्यं नरकं गत्वा कर्म्मक्षयम्प्राप्य जन्मान्तरेण पुनर्मानुषयोनिमभिगम्य अर्शो-रोगेणाक्रान्तो भवेदिति
अल्पायुःसन्तानता यो हि तृषार्त्तांवारिपानरतां गां निवारयति अनेनैव पापेनतस्य अल्पायुषः सन्ताना भवेयुः
अस्मरीरोगः यस्तु ऋतुस्नातां स्त्रियंक्रोधादप्रीत्या वा नोपगच्छति मृतः पूय-शोणितसंमिश्रे नरके प्रपीडितः पुनर्मानुषत्वंप्राप्य अस्मरीरोगाक्रान्तो जायते इति
उन्मादरोगः यस्तु ब्राह्मणं वैष्णवं पितरौद्विजादिकं मानार्हं नार्चयेत् परं निन्देत् समृतः पुरीषाख्ये नरके अधःशिरा नाना दुःखभाक्भवेत् ततः कर्म्मक्षये मानुषीं तनुमुपलभ्यउन्मादरोगवान् जायते तथा येन ब्राह्मणेषुगुरौ दम्भाचारः कृतः तेभ्यः स्मृतिभ्रम-कराणि द्रव्याणि दत्तानि सोऽपि जन्मान्तरेउन्मादरोगवान् भवेदिति
कासः कासस्तु पञ्चविधः येन कर्म्मणायद्रूपो भवेत्तदुच्यते अतिकठोरैर्मिथ्यावाक्यैर्यस्तुलोकं पीडयेत् पित्तप्रबलकेन कासेन पीडितो भवेत् यो हि ब्राह्मणस्थानविनष्टकारीस वातकासेन पीडितो भवेत् यस्तु जलाशय-ध्वंसकारी श्लेष्मकासेन पीडितः स्यात् यो हिब्रह्म विष्णुं शिवञ्च भेदबुद्ध्या पश्यति सन्नि-पातोत्थकासपीडितः स्यात् यज्ञं विना पशुं हत्वातन्मांसभक्षणकारी सर्ब्बदोषोत्थकासेन गृह्यते ।यदुक्तं तन्त्रे पुराणे च, --“अयज्ञेन पशुं हत्वा भुङ्क्ते मांसन्तु यो नरः ।सर्व्वदोषोत्थकासेन गृह्यते शृणु भूपते !”
कुव्जत्वम् यदुक्तं पुराणेषु ।“देवताप्रतिमां दृष्ट्वा यस्तां नैवाभिवादयेत् ।ब्राह्मणञ्च गुरुं श्रेष्ठं ब्रह्मचारितपस्विनम्
श्मशाने जायते वृक्षः काकगृध्रोपसेवितः
भुक्त्वा कालमशेषञ्च मानुषत्वमवाप्य सः ।कुब्जत्वमश्नुते तस्मात् कर्म्मणो मानुषं ध्रुवम्”
गर्भस्रावः या काचित् नारी हिंसापर-तन्त्रा सतो सपत्न्यादीनामन्यासां स्त्रीणां दुष्टौ-षधादिभिर्दुर्म्मन्त्रैर्वा गर्भं अपत्यानि नाशयतिसा नरकान्निर्मुक्ता पुनर्मानुषीं योनिमासाद्यपुण्यान्तरेण ऐश्वर्य्यवत्यपि गर्भस्रावदुखैः प्रपीडिताभवेत् ।१० गलगण्डः यः खलु मोहाद् गुरुस्त्री-कण्ठदर्शनं कृतवान् मृतो यमकिङ्करैः नि-र्जले प्रान्तरे देशे दिव्यवर्षायुतत्रयं पात्यते ।पुनर्जन्म समासाद्य गलगण्डरोगाक्रान्तःसीदेत्
११ ग्रहणी ये धनलुब्धकाः प्रभूत-धनसंग्रहं कृत्वा यच्छन्ति चाश्नन्ति नकिमपि धर्म्मकार्य्यं कुर्व्वन्ति तथा ये परस्या-पहारिणः तथा अदुष्टामपतितां भार्य्यां ये चयौवने परित्यजन्ति ते मृताः पूरीषाख्ये नरकेकल्पकोटिशतं दग्द्धाः कर्म्मान्ते मानुषीं योनिमा-साद्य ग्रहणीरोगाक्रान्ता अवसीदेयुः
१२ छिन्ननासिकता श्रुतिस्मृतिकथाविघ्न-कारी देवनिन्दको हि मृत्युं प्राप्य नैरृतेपश्चिमे भागे स्थितायां पिङ्गलेति नगर्य्यां पिशाचैःसह बहुकालमुषित्वा महाघोरं दुःस्वञ्च भुक्त्वाकर्म्मान्ते मानुषयोनिमासाद्य छिन्ननासिको जा-यते
१३ छिन्नहस्तता, छिन्नपादता यस्तुपितरौ गुरुं विनापराधतो वृद्धं वा ताडयेत् समृतो यमलोके बहूनि कष्टान्यनुभूय छिन्नहस्त-श्छिन्नपादो वा इह जायते
१४ जलोदरः यदुक्तं पुराणेषु ।“ब्रह्मविष्णुमहेशेषु भिन्नभावं करोति यः ।गृह्यते तु दुष्टात्मा जलोदररुजा ततः”
१५ दौर्भाग्यम् येन सर्व्वासु तृतीयासुवेलासु तैलस्पर्शः क्रियते दुर्भगत्वमाप्नोतीति
१६ नेत्ररोगः दीपहरणकर्त्ता परस्त्री-प्रेक्षकः कामतः पररतिदर्शनकारी नेत्ररोगे-नाक्रान्तो भवेत्
१७ पक्षरोगः यो हि सशस्त्रः सन् शस्त्र-रहितं पुरुषं हन्ति मूढः आयुःशेषे कृक-राख्ये निरये उषित्वा महादुःखेन पच्यते ततोरासभयोनौ ततः क्रमशो मृगव्याघ्रयोनौ सम्भूयशस्त्रेण हन्यते ततः सारमेयो भूत्वा मत्स्य-योनौ जायते ततो मानुषीं योनिमासाद्यअनेनैवरोगेण पीड्यते
१८ पाण्डुरोगः यः खलु परभार्य्यारतःपरस्त्रीरमणप्रियः मृतो यमकिङ्करै र्बहुधा-दुःखं प्रापितः पुनः कर्म्मपाकेन मानुषीं योनि-मासाद्य पाण्डुरोगेण लिप्यते
१९ प्रदरम् या योषित् बुभुक्षितं पतिंत्यक्त्वा पत्यनुमतिं विना पूर्व्वं भुङ्क्ते सा मृता नरकंभुक्त्वा दशवर्षाणि वायसी ततः शुकी ततोमानुषी भूत्वा श्वेतप्रदरयुक्ता भवेत्
२० नन्ध्यता येन जलपिपासुर्वत्सः प्रति-निषिद्धः यस्तु अदक्षिणं वतं करोति यो हिमिष्टफलादिकं प्राप्य देवायानिवेद्य भुङ्क्ते यःखलु मैथुनीभावमवलोक्य विघ्नं कुरुते ते सर्व्वेबन्ध्यत्वमाप्नुवन्तीति
२१ भगन्दररोगः आचार्य्यभार्य्यागन्तारो-नराधमाः स्त्रीबालवृद्धधनापहारिणश्च मृत्युमधिगम्य विण्मलाख्ये नरके बहुदुःखं प्राप्प जन्मान्तरेभगन्दररोगेणाक्रान्ता भवन्ति
२२ मूत्रकृच्छ्रम् येन मूढेन विधवागमनंमद्यपानं वा कृतम् मृतो नरकं प्राप्य कर्म्मान्तेशरीरनाशकारिणा अनेन रोगेणाक्रान्तो भवेत् ।२३ मृतभार्यता यस्तु ज्येष्ठं भ्रातरमति-क्रम्य उद्वहेत् मृतभार्य्यो जायेत यस्तु सप्तम्यांतैलं स्पृशति तस्य ज्येष्ठा भार्य्या विनश्यति
२४ मेहः यदुक्तं पुराणेषु“मेहाश्च विंशतिः ख्याताः पृथक्कर्म्मप्रभावजाः ।तेषां नामान्यहं वक्ष्ये क्रमादुत्पद्यते यतः
मधुमेहः सान्द्रमेहः सुराशुक्रोदकस्तथा ।इक्षुः सिकतसीधुश्च सितमेहस्तथैव
फेनः क्षीरश्च नीलश्च हारिद्रः कालसंज्ञकः ।वशारक्तश्च माञ्जिष्ठो मज्जाक्षारस्तथा गजः
सद्वैद्यस्योपदेशेन ज्ञात्वा मेहान् पृथक् पृथक् ।नामानुसारतः पूर्व्वं कर्म्म ज्ञात्वा विधिञ्चरन् ।पूर्व्वं मैथुनकृद्यस्तु शौकरीयोनिमाव्रजेत्
तस्यान्ते मानुषीं प्राप्प जलभेहार्द्दितो भवेत्
मातृगामी बलान्मोहात् मधुमेही भवेन्नरः ।रजकीगमनाच्चैव क्षारमेही प्रजायते
सतीविपर्य्ययं कृत्वा सान्द्रमेहान्वितो भवेत् ।रोगिणीगमनान्मर्त्त्यो भवेन्माञ्जिष्ठमेहवान्
मित्रस्त्री धर्षिता येन भवेच्छुक्रमेहवान्
चतुष्पदाभिगमने भवेत् सिकतमेहवान्
स्वर्णहर्त्ता क्षीरमेही सितमेही सुरारतः ।कालमेही भवेत्सोऽपि पुष्पवत्याश्च धर्षणात्
रजस्वलायां रतिकृद्रक्तमेहार्द्दितो भवेत् ।मज्जमेहयुतः सोऽपि योऽन्त्यजागमनञ्चरन्
इक्षुमेह्यतिदुर्वृत्तो विधवागतिदोषतः ।व्राह्मणीगमनाद्देही हस्तिमेहेन मेहति
अक्षतागमनासक्तो हरिद्राभञ्च मेहति
मातरं येऽभिगच्छन्ति भगिनीञ्चात्मनः मुताम्
श्वश्रूञ्चैवाक्षतारक्तां भ्रातृभार्य्याञ्च मातुलीम् ।गुरुस्त्रीं राजपत्नीञ्च मित्रस्त्रीं वा कुटुम्बिनीम् ।मृता वैवस्वतपुरीं यान्ति भूतैः प्रपीडिताः
ताड्यन्ते तत्र दुर्वृत्ता मत्तः शृणु वदामि ते
अङ्गारराशौ प्रक्षिप्य तान् दहन्ति यमाज्ञया ।दूतास्तु महतीं घोरां ज्वलन्तीमायसीं शिलाम् ।खादयन्ति तान् पश्चात् नरके क्षिपन्ति वै
नरकान्ते पुनस्तेऽपि मृताः स्युः शूकरा भृशम्
शूकराः पञ्चवर्षाणि दशवर्षाणि कुक्कुराः ।पिपीलिकास्त्रयो मासा वृश्चिकाश्चाब्दमात्रकम् ।भूत्वा प्रयान्ति गोयोनौ सरुजा विफलेन्द्रियाः
तत्राधर्म्मक्षयं कृत्वा ततो मानुषयोनिषु ।प्रमेहगदवन्तः स्युः प्राप्नुवन्ति मनोव्यथाम्”
२५ यक्ष्मरोगः विप्रहन्ता न्यासापहर्त्तावृत्तिच्छेदकारी प्रजापीडको गुरुविद्रोही मूढोयक्ष्मकासाक्रान्तो भवेत्
२६ रक्तपित्तम् अतिदुराचारी परद्रव्या-भिलाषी पितृव्यबधूगन्ता अनेनैव रोगेण पीडितोमवेत्
२७ व्येश्यात्वम् या नारी मृते भर्त्तरिपरपत्यभिलाषिणी सा मृता यमलोके तप्तं आय-सं पुरुषमालिङ्गन्ती अतिघोरं नरकदुःखमनुभूयजन्मान्तरे वेश्या भूत्वा अशेषपुरुषैः रममाणाअशेषक्लेशमधिगच्छेत्
२८ वैधव्यम् या खलु यौवनेनातिगर्व्वितारमणी विरूपन्त्वात्मवशगं पतिं दिवा निन्दतिरात्रौ शय्यां भजते आज्ञप्ता रुष्टा भवतिसा जन्मान्तरं प्राप्य वैधव्ययन्त्रणया पीडिताभवेत्
२९ श्वासकासः श्वासकासस्तु महोर्द्ध्वच्छिन्न-तमकक्षुद्रभेदात् पञ्चधा यस्तु यज्ञमनासाद्यश्वासं निरुध्य पशुं हन्ति मोहात् तन्मांसादिकंभक्षयति महाश्वासेन पीड्यते पुराण-कथासमये यस्तु अन्यवाक्यं वदेत् ऊर्द्ध्वश्वासेननिगृह्यते निषिद्धदानग्रहणात् छिन्नश्वास-युतो भवेत् यो हि शास्त्रार्थं मृषा दूषयतिस तमकश्वासैः पीड्यते पाकविघ्नतो हिजीवः क्षुद्रश्वासैर्गृह्यते
३० हृद्रोगः यस्तु लोभात् द्वेषाद्वा परपीडा-प्रदायको भवेत् यस्तु प्रजानां मर्म्मव्यथां जनयेत्स मृतो दुर्वहं नरकमधिगम्य कर्म्मान्ते अति-दारुणैर्हृद्रोगैः पीडितो भवेदिति
*
)