| YouTube Channel

कर्म्मयोगः (karmmayogaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्म्मयोगः,
पुं,
(कर्म्मसु योगस्तत्कौशलम् ।) चित्त-शुद्धिजनकवैदिककर्म्म यथा निष्कामकर्म्म-णात्मज्ञानमित्युक्तं यथा ।“अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ।कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते
सोऽपि दुरितक्षयद्वारा साक्षात्” इति मल-मासतत्त्वम्
*
तदनुष्ठानस्यावश्यकत्वं यथा ।श्रीभगवानुवाच
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ! ।ज्ञानयोगेन सांख्यानां कर्म्मयोगेण योगिनाम्
कर्म्मणामनारम्भान्नैकर्म्म्यं पुरुषोऽश्नुते ।न सन्न्यसनादेव सिद्धिं समधिगच्छति
हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्म्मकृत् ।कार्य्यते ह्यवशः कर्म्म सर्व्वः प्रकृतिजैर्गुणैः
कर्म्मेन्द्रियाणि संयम्य आस्ते मनसा स्मरन् ।इन्द्रियार्थान् विमूढात्मा मिथ्याचारः उच्यते
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्ज्जुन ! ।कर्म्मेन्द्रियैः कर्म्मयोगमसक्तः विशिष्यते
नियतं कुरु कर्म्म त्वं कर्म्म ज्यायो ह्यकर्म्मणः ।शरीरयात्रापि ते प्रसिद्ध्येदकर्म्मणः
यज्ञार्थात् कर्म्मणोऽन्यत्र लोकोऽयं कर्म्मबन्धनः ।तदर्थं कर्म्म कौन्तेय ! मुक्तसङ्गः समाचर
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्
देवान् भावयतानेन ते देवा भावयन्तु वः ।परस्परं भावयन्तः श्रेयः परमवाप्स्यथ
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।तैर्दत्तानप्रदायैभ्यो यो भुङ्व्क्ते स्तेन एव सः
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व्वकिल्विषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।यज्ञाद्भवति पर्जन्यो यज्ञः कर्म्मसमुद्भवः
कर्म्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।तस्मात् सर्व्वगतं व्रह्म नित्यं यज्ञे प्रतिष्ठितम्
एवं प्रवर्त्तितं चक्रं नानुवर्त्तयतीह यः ।अघायुरिन्द्रियारामो मोघं पार्थ ! जीवति
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव सन्तुष्टस्तस्य कार्य्यं विद्यते
नैव तस्य कृते नार्थो नाकृतेनेह कश्चन ।न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः
तस्मादसक्तः सततं कार्य्यं कर्म्म समाचर ।असक्तो ह्याचरन् कर्म्मपरमाप्नोति पूरुषः
कर्म्मणैव हि संसिद्धिमास्थिता जनकादयः ।लोकसंग्रहमेवापि संपश्यन् कर्त्तुमर्हसि
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते
मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेष किञ्चन ।नानवाप्तमवाप्तव्यं वर्त्त एव कर्म्मणि
यदि ह्यहं वर्त्तेयं जातु कर्म्मण्यतन्द्रितः ।मम वर्त्तानुवर्त्तन्ते मनुष्याः पार्थ ! सर्व्वशः
उत्सीदेयुरिमे लोका कुर्य्यां कर्म्म चेदहम् ।सङ्करस्य कर्त्ता स्यामुपहन्यामिमाः प्रजाः
सक्ताः कर्म्मण्यविद्वांसो यथा कुर्व्वन्ति भारत ।कुर्य्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्
बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् ।योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन्
प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः ।अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते
तत्त्ववित्तु महाबाहो गुणकर्म्मविभागयोः ।गुणा गुणेषु वर्त्तन्त इति मत्वा सज्जते
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्म्मसु ।तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्
मयि सर्व्वाणि कर्म्माणि संन्यस्याध्यात्मचेतसा ।निराशीर्निर्म्ममो भूत्वा युध्यस्व विगतज्वरः
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्म्मभिः
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।सर्व्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।प्रकृतिं यान्ति भूतानि निग्रह्रः किं करिष्यति
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ
श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् ।स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः”
इति श्रीभगवद्गीतायां कर्म्मयोगो नाम अ-ध्यायः
*
अन्यत् भगवन्मन्दिरादिकरणं वह्नि-पुराणे यमानुशासननामाध्याये द्रष्टव्यम्