| YouTube Channel

कर्म्मभूमिः (karmmabhUmiH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्म्मभूमिः,
स्त्री,
(कर्म्मणः पुण्यात्मसम्पाद्ययज्ञादि-रूपक्रियायाः भूमिः ।) आर्य्यावर्त्तदेशः इतिहेमचन्द्रः
(भारवर्षं यथा, विष्णुपुराणे १-२ ।“उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।वर्षं तद् भारतं नाम भारती यत्र सन्ततिः
नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! ।कर्म्मभूमिरियं स्वर्गमपवर्गञ्च गच्छताम्”
तथा रामायणे १०९ २८ हेमा ।“कर्म्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म्म यत् शुभम्”
)