| YouTube Channel

कर्म्मप्रवचनीय (karmmapravacanIya)

 
वाचस्पत्यम्
Sanskrit
कर्म्मप्रवचनीय
पु०
कर्म क्रियां प्रोक्तवान् इति कर्मप्रवचनीयःकर्त्तरि भूते चानीयर् “कर्मप्रवचनीयाः” इत्यविकृत्य पाणि-न्युक्ते अन्वादिषु शब्देषु ते हि संप्रति क्रियां कथयन्ति नापिद्योतयन्ति किन्तु क्रियानिरूपितसम्बन्धविशेषं द्योतयन्तीतितेषां तथात्वं यथोक्तं हरिणा “क्रियाया द्योतकोनायं सम्ब-न्धस्य वाचकः नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः”इति “अधिपरी अनर्थका” वित्यादेस्तद्द्योतकत्वाभावेऽपि योग्यतया तथात्वम् अन्वादयश्चार्थभेदे तत्संज्ञकाः स्युस्ते चार्थापा० दर्शिताः यथा “कर्मप्रवचनीयाः” इत्यधिकृत्य “अनु-र्लक्षणे” “तृतीयार्थे” “हीने” “उपोऽधिकेच” “अपपरीवर्जने” “आङ्मर्यादावचने” “लक्षणेत्थम्भूताख्यानभाग-वीप्सासु प्रतिपर्यनवः” “अभिरभागे” “प्रतिः प्रतिनि-धिप्रतिदानयोः” “अधिपरी अनर्थकौ” “सुः पूजायाम्”“अतिरतिक्रमणे च” “अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु” “अधिरोश्वरे” पा० “कर्मंप्रवचनीययुक्तेद्वितीया” पा०