| YouTube Channel

कर्म्मपथ (karmmapatha)

 
वाचस्पत्यम्
Sanskrit
कर्म्मपथ
पु०
कर्मणां कायिकादीनां पन्थाः अच समा० ।“कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् मनसात्रिविधम् चैव दश कर्मपथांस्त्यजेत्” भा० अनु०१३ अ० उक्तेषु दशसु शुभाशुभकर्ममार्गेषु ते चदशकर्मपथास्तत्रैवोक्ताः यथा “प्राणातिपातः स्तैन्यञ्च पर-दारमथापि वा त्रीणि पापानि कायेन सर्वंतः परिवर्ज-येत् असत्प्रलापं पारुष्यं पैशुन्यमनृतन्तथा चत्वारिवाचा राजेन्द्र! जल्पेन्नानुचिन्तयेत् अनभिध्या परस्वेषुसर्वसत्वेषु सौहृदम् कर्मणां फलमस्तीति त्रिविधं मनसाचरेत् तस्माद्वाक्याय मनसा नाचरेदशुभं नरः शुभा-शुभान्याचरन् हि तस्य तस्याश्नुते फलम्”