कर्म्मन् (karmman)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishकर्म्मन् mn. (-र्म्मा-र्म्म)
1. Action in general.
2. The object of an action.
3. The subject of action in grammar, considered of three kinds,
प्राप्य or व्याप्य when it is simple, as ग्रामं गच्छति he goes to the village
सूर्य्यं पश्यति he sees the sun
विकार्य्य when change of form is implied,
as सुवर्णं कुण्डलं करोति gold forms the ear-ring
and निर्वर्त्य when
some new product is evolved, as कटं करोति he makes a mat
पुत्रं
प्रसूते she bears a son.
4. The objective noun.
5. Action specific,
moral duty, the obligation imposed by peculiarities of tribe,
occupation, &c.
6. Natural, active property, as maturity, of heat
support, of earth
dispersion, of wind, &c.
7. Religious action, as
sacrifice, ablution, &c. especially as originating in the hope of
future recompense, and as opposed to speculative religion or
knowledge of spirit.
8. (In Logic.) Substantial action or motion of
five kinds, upwards, downwards, extension, contraction, and going
in general.
9. Action or act involving retribution or reward, virtue,
vice, &c.
10. Fate, the certain consequence of previous acts.
कृञ्
to do, मनिन्
Wilson
Englishकर्म्मन्
mn. (-र्म्मा-र्म्म)
1 Action in general.
2 The object of an action.
3 The subject of action in grammar, considered of three kinds, प्राप्य or
व्याप्य when it is simple, as ग्रामं गच्छति he goes to the village
सूर्य्यं पश्यति he sees the sun
विकार्य्य when change of form is
implied, as सुवर्णं कुण्डलं करोति gold forms the ear-ring
and
निर्वर्त्य when some new product is evolved, as कटं करोति he makes a
mat
पुत्रं प्रसूते she bears a son.
4 The objective noun.
5 Action specific, moral duty, the obligation imposed by peculiarities of
tribe, occupation, &c.
6 Natural, active property, as maturity, of heat
support, of earth
dispersion, of wind, &c.
7 Religious action, as sacrifice, ablution, &c. especially as originating in
the hope of future recompense, and as opposed to speculative religion or
knowledge of spirit.
8 (In Logic, ) Substantial action or motion of five kinds, upwards, downwards,
extension, contraction, and going in general.
9 Action or act involving retribution or reward, virtue, vice, &c.
10 Fate, the certain consequence of previous acts.
कृञ् to do, मनिन्
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritकर्म्मन् पुंन० कृ--कर्मणि मनिन् अर्द्धर्चादि० पा० अमरे तुन० । व्याकरणपरिभाषिते कर्त्त्रा क्रियाफलाश्रयतयाप्तु-मिष्टतमे पदार्थे “कर्त्तुरीप्सिततमं कर्म” पा० । व्या-ख्यातञ्चैतत् सि० कौ० यथा--“कर्त्तुः क्रियया आप्तुमिष्टतमङ्कर्म्मसंज्ञं स्यात् । कर्त्तुःकिम्? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषा न तुकर्त्तुः । तमब्ग्रहणं किम्? पयसा ओदनं भुङ्क्ते । कर्मे-त्यनुवृत्तौ पुनःकर्मग्रहणमाधारनिवृत्त्यर्थम्, अन्यथा गृहंप्रविशतीत्यत्र व स्यात्” । विवृतञ्चैतदस्माभिः सरलायां यथाकर्त्तुरित्यादि । कर्त्त्राप्तुमिष्यमाणं कर्मेत्यर्थः । “धातूपात्त-व्यापाराश्रयः कर्त्ता” इति वक्ष्यते । आप्तिश्च सम्बन्धः, स चकर्त्तृविशेषणीभूतक्रियारूपव्यापारद्वारकएवानुपस्थितकल्पनेमानाभावात्, एवञ्च कर्त्त्रा स्वनिष्ठक्रियारूपव्यापारप्रयोज्य-फलेन सम्बद्धुमिष्यमाणं कर्मेत्यर्थः, तदेतदाह कर्त्तुःक्रियया आप्तुमिति । क्रियया धातूपात्तव्यापारेण, आप्तुंधातूपात्तफलद्वारा सम्बन्धुम् । फलव्यापारयोर्धातूपात्त-त्वन्तु “फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः” इत्यनेनसिद्धम् । तच्च कर्म्म सप्तविधम्, यथोक्तंहरिणा “निर्वर्त्यञ्चविकार्य्यञ्च प्राप्यञ्चेति त्रिधा मतम् । तच्चेप्सिततमं कर्मचतुर्द्धान्यत्तु कल्पितम् । औदासीन्येन यत् प्राप्यं यच्चकर्त्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्”इति । तत्र निर्वर्त्त्यादीनां लक्षणादिकमपि तेनैवोक्तंयथा--“यदसज्जायते सद्वा जन्मना यत्प्रकाशते ।प्रकृतेस्तु विवक्षायां विकार्य्यं कैश्चिदन्यथा । तन्निर्वर्त्त्यंविकार्य्यञ्च कर्मद्वेधा व्यवस्थितम् । प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्पवत् । किञ्चित् गुणान्तराधानात् सुवर्णादि-विकारवत् । क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते ।दर्शनादनुमानाद्वा तत् प्राप्यमिह कथ्यते” इति, “सती वाविद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्यनिर्वर्त्त्यत्वं प्रचक्षते” इति च । तदयं लक्षणनिष्कर्षः० प्रकृ-तिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्यो-त्पत्तिरूपफलवत्त्वं निर्वर्त्त्यत्वम् यथा घटं करोतीत्यादौ-घटादेः क्रियाजन्योत्पत्तिमत्त्वान्निर्वर्त्त्यत्वम् । प्रतीयमा-नप्रकृतिविकृतिभावत्ये सति क्रियानिर्वाह्यविशिष्टासत्त्वो-त्पत्तिरूपान्यतरफलवत्त्वं विकार्य्यत्वम्, यथा सुवर्णं कुण्डलंकरोतीत्यादौ सुवर्णस्य पूर्वरूपविशिष्टासत्त्वफलवत्त्वात् कुण्ड-लस्य चोत्पत्तिमत्त्वादुभयोरपि विकार्य्यत्वम् । क्रियाकृतासा-धारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति क्रियाजन्य-फलवत्त्वेनोद्देश्यत्वम्, प्राप्यत्वं यथा ग्रामं गच्छतीत्यादौग्रामादेः कर्त्तृसाधारणसंयोगरूपफलवत्त्वेऽपि क्रियाकृत-श्रमादिरूपासाधारणविशेषफलस्यानाधारत्वेन तादृशफल-प्रकारकबोधाविषयत्वात् प्राप्यत्वम् निर्वर्त्यविकार्य्ययोस्तुक्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधार-ण्येन तद्वत्त्वान्नातिप्रसङ्गैति बोध्यम् । कर्त्तुरनुद्देश्यत्वे सतिक्रियाजन्यफलवत्त्वम्, औदासीन्य प्राप्तं यथा ग्रामं गच्छन्तृणं स्पृशतीत्यादौ तृणादेरनुद्देश्यत्वेऽपि क्रियाजन्य-संयोगरूपफलवत्त्वेनोदासीनकर्मता । द्विष्टसाधनत्वे सतिक्रियाफलवत्त्वं, द्वेष्यंयथा अन्नं बुभुक्षुर्विषं भुङ्क्तेऽइत्यादौविषस्य तथात्वम् । कारकविशेषसंज्ञान्तरेणाविवक्षितत्वे सतिकर्मोपकारकत्वम्, संज्ञान्तरैरनाख्यातत्वम् यथा गां पयोदोग्धीत्यादौ गवादेः कारकान्तरसंज्ञाया अविवक्षया दुग्धो-पयोगितया कर्मत्वम् । व्यक्तीभविष्यति चेदमुपरिष्टात् ।कारकान्तरसंज्ञापूर्व्वकत्वं यथा ‘जलधिमधिशेते’ इत्यादौजलधेराधारसंज्ञकतया प्राप्तत्वेऽपि “अधिशीङ्स्थासांकर्म” पा० इत्यादिनाकर्मसंज्ञयाकर्मत्वम् । पयसेति भुजि-क्रियां प्रति पयसः प्रकृष्टोपकारकत्वविवक्षायां तस्यैप्सित-तमत्वात् पयः पिबतीति स्यादेव । इह तु तथा विवक्षावि-रहेणान्नभोजनं प्रति तस्याङ्गतया करणत्वमात्रं विवक्षित-मिति न ओदनस्य कर्मत्वम् । सहार्थे तृतीयेति तुन्याय्यम्, तस्याप्रधानत्वात्तमपा बोधयितुमशक्यत्वात्” ।कर्म्मताबोधनप्रकारलक्षणादिक शब्द० प्र० अन्यथोक्तं यथा“यगन्तधातोरर्थोयस्तिङा स्वार्थेऽनुभाव्यते । यत्रासौ कर्म्म-ता नाम कारकं कर्तृतेतरः” यगन्तस्य यद्धातोरुत्तरस्थतिङायत्र स्वार्थे तदीयोयादृशोऽर्थोऽनुभावयितुं शक्यते, तद्धातू-पस्थाप्यतादृशक्रियायां स तिङर्थः कर्तृताभिन्नः कर्मत्वंनाम कारकमित्यर्थः । ग्रामोगम्यत इत्यत्र गमधातूपस्थाप्यायाः संयोगावच्छिन्नक्रियायाः स्वजन्यत्वसम्बन्धेन तिङ्पदो-पस्थाप्ये संयोगे एवान्वयो न तु त्यज्यतैत्यादाविवविभा-गादौ धात्वर्थतावच्छेदकस्यैव फलस्य बोधने कर्मविहितप्रत्ययानां धातुसाकाङ्क्षत्वादतः संयोगस्यैव तत्र गतिक्रियाकर्मत्वं नतु विभागादेः, तेन तरोस्त्यागिनि स्वगे तरुंगच्छतीत्यादिकोन प्रयोगः । गम्यतेरथः स्वयमेवेत्यादौ (गम्यतेइति त्वनुशासनविरुद्धं कर्त्तृस्थभावकतया कर्मवत् क्रियायाअप्रसक्तेः) । कर्मत्वमिवानुकूलव्यापारवत्त्वलक्षणं कर्त्तृत्वंधात्वर्थस्य धर्म्म्यपि न तत्कर्तृताभिन्नमिति तद्व्युदासः ।ननु चैत्रकर्तृकगमनजन्यसंयोगस्य ग्रामैव चैत्रेऽपिसत्त्वाच्चैत्रेण गम्यते चैत्रैत्यपि प्रयोगः स्यात्, तिङर्थसंयो-गस्य जन्यत्वस्वाश्रयप्रतियोगिकत्वोभयसम्बन्धेन धात्वर्थगतेःसाकाङ्क्षत्वेन चैत्रकर्तृकगत्याश्रयप्रतियोगिकत्वविशिष्टस्यसंयोगस्य चैत्रे वाधितत्वात् । अतएव चैत्रोग्राम गच्छतिइतिवत् चैत्रश्चैत्र गच्छतीत्यपि न प्रयोगः, तत्रापि द्विती-यार्थसंयोगे प्रकृत्यर्थस्य स्वप्रतियोगिकत्वसम्बन्धेनैव साका-ङ्क्षतया द्वितीयान्तलभ्यस्य चैत्रीयत्वविशिष्टसंयोनस्य जनक-त्वस्वाश्रयवृत्तत्वोभयसम्बन्धेनैव क्रियायामन्वयेन चैत्रप्रति-योगिकसंयोगाश्रयवृत्तिगतेश्चैत्रे बाधितत्वात् । यत्तु फल-मिव क्रियायामन्वितं परसमवेतत्वमपि कर्म्मतावाचिप्रत्यय-स्यार्थः, परत्वञ्च तिङा स्वार्थफलान्वयिप्रतियोगिकं, द्विती-यादिसुपा तु प्रकृत्यर्थप्रतियोगिकं प्रत्याय्यते तथा च चैत्र-कर्तृकस्य चैत्रान्यसनवेतगमनस्याप्रसिद्धत्वेन चैत्रेतज्जन्यसंयोमस्यासम्भवाच्चैत्रेण नम्यते चैत्रैत्यादिकोनप्रयोगः । एवं चैत्रान्यसमवेतस्य चैत्रे बाधाच्चैत्रश्चैत्रंगच्छतीत्यादिरपि । चैत्रेण नम्यते ग्रामैत्यादौ तु चैत्र-कर्तृकस्य ग्रामभिन्नसमवेतस्य नमनस्य जन्योयः संयोगस्तद्वान् ग्रामैत्यन्वयबोधनेन किञ्चिद्बाधकमितिप्राच्यै-रुक्तं तन्न युक्तम्, संख्याकालातिरिक्तस्य तिङर्थस्य धात्वंर्य-विशेष्यत्वनियमेन तिङर्थस्य परसमवेतत्वादेर्धात्वर्थगत्यादा-वन्वयायोगात् प्रथमान्तोपस्थाप्यग्रामादेरभेदान्यसम्बन्धेना-न्यत्र प्रत्ययार्थे तिङर्थे वान्वयस्यादृष्टचरत्वेनाव्युत्पन्नत्वात्, चैत्रेण गम्यते द्रव्यं, द्रव्यं, गच्छति चैत्रैत्यादौ द्रव्यान्यसमवेतस्य मत्यादेरप्रसिद्धत्वेनायोम्यतापत्तेश्च । नव्यास्तुफलमिव भेदोऽपि कर्म्मत्ववाचिप्रत्ययस्यार्थस्तथा चचैत्रेण गम्यते ग्राम इत्यत्र तिङर्थभेदस्य सामा-नाधिकरण्यसम्बन्धेन धात्वर्थविशेष्यत्वात् प्रतियोगि-त्वसम्बन्धेन प्रथमान्तार्थे ग्रानादौ विशेषणत्वान्न व्युत्प-त्तिविरोधो नवातिप्रसङ्गः चैत्रकर्तृकगमनाश्रयवृत्ति-भेदप्रतियोगित्वस्य चैत्रे विरहात् चैत्रंनच्छतीत्यादावपिप्रतियोगित्वसम्बन्धेन चैत्रान्वितस्य द्वितीयार्थभेदंस्य सामा-नाधिकरण्यसम्बन्धेन धात्वर्थभतावन्वयात्तादृशनतेश्चैत्रे बाष्ठा-च्चैत्रं गच्छति चैत्रैत्यादिकोन प्रयोगः । प्रतियोगित्वञ्चउभयावृत्तिधर्मावच्छिन्नं धर्मद्वयानवच्छिन्नं वा ग्राह्यमतोद्रव्यंगच्छतीत्यादौ गतौ द्रव्यभेदसामानाधिकरण्यविरहऽपि नक्षतिरिति प्राहुस्तच्चिन्त्यम् । वृक्षं खगस्त्यजतीत्यादौविभागावच्छिन्नक्रिया त्यजेरर्थः द्वितीयायास्तु विभागस्तेनवृक्षावधिकविभागवती या विभागावच्छिन्नक्रिया तद्वान्स्वगैत्याकारस्तत्र बोधः । वृक्षावधिकविभागवत्त्वञ्च जनकत्व-स्वाश्रयवृत्तित्वोभयसम्बन्धेनैव क्रियायां ग्राह्यमतः खगाद्य-वधिकविभागस्य खगादावसत्त्वात् खगं त्यजति खगैत्या-टिकोन प्रयोगः । खगेन त्यज्यते खगैत्यपि प्रयोगःप्रागुक्तरात्या निरसनीयः । प्राञ्चस्तु ग्रामं गच्छतित्यजतीत्यादौ सर्व्वत्र क्रियामात्रं धात्वर्थस्त्यजिगम्योःपर्य्यायत्वेऽपि न क्षतिः, गत्यर्थक्रियायां संयोगस्यैकत्यज्यर्थक्रियायाञ्च विनाभागस्यैव बोधकतायाः कर्मप्रत्य-येषु व्युत्पन्नत्वात् तरुं त्यजतीत्यादौ संयोगस्य तरुंगच्छतीत्यादौ च विभागस्य द्वितीयादितो नावगमः परैरपिसमभिव्याहृतधात्वर्थतावच्छेदकफलस्यैव द्वितीयादिबोध्य-ताव्युत्पत्तेरभ्युपेतव्यत्वात् अन्यथातिप्रसङ्गात् । नचैवंस्पन्दोन स्पन्दैत्यादेरिव त्यागोन नतिरित्यादेरपिवाक्यस्य निराकाङ्क्षतापत्तिस्तत्र त्यजिगम्योर्विभागाद्यवच्छिन्न-क्रियालक्षकत्वेनैवान्वययोग्यत्वासम्भवात् । द्वितीयासाकाङ्क्ष-तुमन्तधातुत्वप्रयुक्तएव च धातूनां सकर्मकत्वव्यवदेशोनतुफलावच्छिन्नक्रियावाचित्वप्रयुक्तः ज्ञाप्रभृतावव्याप्तत्वात् ।स्मृत्यर्थधातूनां कर्मणि षष्ठ्या इव द्वितीयाया अपिसाधुत्वात् । एवञ्च ग्रामं गच्छति तरुं त्यजतीत्यादौ ग्राम-संयोगजनकाक्रयावांस्तरुविभागजनकक्रियावानित्याकारकएव बोधो नतु ग्रामसंयोगजनकसंयोगावच्छिन्नक्रियावांस्त-रुविभागजनकविभागावच्छिन्नक्रियावानित्याकारकः, संयो-नविभागयोरुभयथाभानस्य नीलघटजनकदण्डवानित्यादौघटादेरिव निराकाङ्क्षत्वेनासम्भवादनुभवबाधितत्वाच्चे-त्याहुः । परे तु संयोगः क्रिया च द्वयमेव प्रत्येकंनमिशक्यं तयोर्जन्यजनकभावस्तु वाक्यार्थमर्य्यादया भासतेएवार्थयोरन्ययोगव्यवच्छेदयोरिव, गम्यर्थयोः संयोगक्रिय-योर्मिथएव साकाङ्क्षत्वाच्च नैकमात्रे गमिप्रयोगः । पुष्प-वन्तपदे चन्द्रत्वसूर्य्यत्वाभ्यामिव विभिन्नरूपाभ्यां प्रकृतेऽपिसंयोनत्वक्रियात्वाभ्यां नमधातोरेकशक्तिस्वीकारेऽपि नक्षतिः । इयांस्तु विशेषो यस्तत्र सूरशशिनोर्मिथोनान्वयःप्रकृते तु संयोगक्रिययोस्तथेति तथाच ग्रामं नच्छतीत्यत्रद्वितीयाया आथेयत्वं प्रतियोनित्वं वार्थस्तेन तदन्वि-तस्य संयोगस्य क्रियायामन्वयात् ग्रामवृत्तिस्तत्प्रति-योगिकोवा यः संयोगस्तद्विशिष्टक्रियावानित्यारक-स्तत्र बोधः, तरुं त्यजतीत्यत्राप्याधेयत्वमबधित्वंवा द्वितीयार्थस्तेन तदन्वितस्य धात्वर्यविभागस्य धात्वर्था-न्तरे क्रियायामन्वयात्तरुवृत्तिस्तदवधिकोवा योविभाग-स्तद्विशिष्टक्रियावानित्याकारकोबोधः संयीगादिवैशिष्ट्यञ्चजनकत्वस्वाश्रयवृत्तित्वोभयसम्बन्धेनैव ब्रागिव ग्राह्यमतो-नातिप्रसङ्गः । सकर्मकत्वमपि धातोः स्वार्थफलावच्छिन्न-स्वार्थक्रियान्वयबोधकत्वं जानातीत्यादौ सकर्मकत्वव्यवहा-राभाक्त इत्याहिः । (फलव्यापारयोर्धातुरित्यनुसारिणः)तण्डुलं पचतीत्यत्र रूपादिपरावृत्तिफलकतेजः-संयोगावच्छिन्नक्रिया पचेरर्थः, तन्निविष्टे च निरुक्तेतेजःसंयोगे तण्डुलस्याधेयत्वेनान्वयः परमाणुं पचती-त्यपि प्रयुज्यतएव अतएव “स्वतन्त्राः परमाणवः पच्यन्ते”इति किरणाकल्यामाचार्य्याः । ओदनं पचतीत्यादौतु तण्डुलादावोदनादिपदस्य लक्षणा तत्र क्रियायामन्वि-तमनुकूलत्वं द्वितीयार्थ इत्यपि कश्चित् । तृणं छिनत्ती-त्यादावारम्भकसंयोगविरोधिविभागावच्छिन्नक्रिया छिदे-रर्थस्तन्निविष्टे च संयोगे विभागे वा स्वावयववृत्तित्व-सम्बन्धेन तृणादेरन्वयः । पुष्पेण विष्णुं यजतैत्यत्रप्रीत्यवच्छिन्नसमन्त्रकद्रव्यत्यांगोयजेरर्थः, प्रीतौ विष्णोराधे-यत्वेन द्रव्ये च पुष्पादेरभेदेनान्वयस्तेन विष्णुनिष्ठप्रीति-हेतुर्य्योमन्त्रकरणकः पुष्पाभिन्नद्रव्यत्यागस्तद्वान् इत्याकारस्तत्रबोधः, स्वत्वध्वंसजनकेच्छापर्य्यवसन्नस्य त्यागस्यैकदेशे स्व-त्वएव वा पुष्पादेराधेयत्वेन तत्रान्वयस्तेन द्रव्येण विष्णुंयजतैत्यादौ द्रव्यस्य द्रव्याभिन्नत्वेन शाब्दासत्त्वेऽपि नक्षतिः । पितरमाराधयति उपास्ते पूजयतीत्यादौ गौर-वप्रयुक्तप्रीत्यवच्छिन्नक्रिया धात्वर्थस्तन्निविष्टयोर्गौरव-प्रीत्योः क्रमेण विषयत्वाधेयत्वाभ्यां पित्रादेरन्वयस्तेनपितृगोचरगौवरप्रयुक्ता या पितृनिष्ठप्रीतिहेतुक्रिया तद्वा-नित्येवं तत्र बुद्धिः । गौरवं पुनराराध्यत्वावगाही ज्ञान-प्रभेदोयेयं भक्तिरित्युच्यते । पित्रादिसेवायाश्च मन्त्रक-रणकत्वाभावान्न तत्र पितरं यजतैत्यादिकः प्रयोगः ।परमात्मानमुपात्वे इत्यादौ तु गौरकप्रयुक्तक्रियामात्रेधातुलक्षणा नातः परमेशितुः प्रीतिविरहादयोग्यत्वा-पत्तिः । घृतं जुहोतीत्यादौ वह्न्यादिकरणकपतनाव-च्छिन्नमन्त्रकरणकक्रिया हुधातोरर्थः, प्रोक्ते च पतनेघृतस्याधेयत्वेनान्वयस्तेनाग्न्याधिकरणकस्य घृतवृत्तिपतन-स्यानुकूलमन्त्रकरणकक्रियावानित्येवं तत्र बोधस्तादृशीच क्रिया सघृतस्य करादेः प्रसारणन्युब्जीकरणादिरेव ।अतएव घृतादेः परित्यागित्वविरहादृत्विगादेर्न यष्टृत्वंकिन्तु होतृत्वमेव । वह्नौ जुहोतीत्यत्र सप्तम्यन्तस्यार्थोनधात्वर्थनिविष्टे पतनेऽन्वेति वह्निवृत्तित्वविशिष्टपतनेतद्वृत्तितिङर्थस्यान्वये निराकाङ्क्षतापत्तेः परन्तु तदवच्छिन्न-क्रियायामेव । प्रतिमादौ घृतादिस्नपनं मन्त्रकरणकमपिनाग्न्यधिकरणकं वह्नौ घृतस्य प्रक्षेपमात्रमम्न्यधिकरण-कतत्पतनानुकूलमपि न मन्त्रकरणकमतस्तदुभयं न होमः ।प्राजापत्येऽपि होमे मानसएव मन्त्रः करणम् । यद्वा वह्नि-संयोगावच्छिन्नपतनानुकूलमन्त्रकरणकक्रियैव जुहोत्यर्थ-स्तेन घृतं जुहोतीत्यत्र वह्निसंयोगजनकं यद् घृतस्य पतनंतदनुकूलमन्त्रकरणकक्रियाविशेषवानित्याकारकोबोधः ।न चैवं हुधात्वर्थतावच्छेदकीभूतसंयोगात्मकफलशालित्वेनवह्न्यादेस्तदर्थकर्म्मतया वह्निं जुहोतीत्यादिकप्रयोगा-पत्तिः साक्षाद्धात्वर्थतावच्छेदकीभूतस्यैव फलस्यान्वयिनःकर्मत्वादन्यथा गगने लोष्ट्रमुत्क्षिपतीत्यादौ गगना-देरुत्क्षेपणादिकर्मतायादुर्ध्वारतापत्तेः ऊर्द्ध्वसंयोगफलक-क्रियावच्छिन्नव्यापारस्यैवोत्क्षेपणत्वात् । नचोत्क्षेपणत्वा-दिकं जातिरेव तत्र धात्वर्थतावच्छेदकम्, प्रवेशनत्वा-दिना सङ्करेण तस्य जातित्वायोगात् लोष्ट्रादेस्तत्कर्मत्वा-प्रसङ्गाच्च । अतएव परम्परया दुहाद्यर्थतावच्छेदकीभूतबहिःक्षरणशालित्वेन पयःप्रभृतेस्तत्कर्मत्वसम्पत्त्यर्थम् “अकथि-तञ्च” इति सूत्रान्तरस्य प्रणयनमपि पाणिनेः सङ्गच्छते ।धनं प्रतिगृह्णातीत्यत्र पुण्यार्थकदानजन्यस्वत्वस्य जनकःस्वीकारः प्रतिग्रहैति फलीभूतस्वत्ववत्तया धनस्य कर्मत्वं, विक्रयादेर्दानविशेषत्वेऽपि न तस्य पुण्यजनकत्वमतस्तल्लब्धस्यस्वीकारोन प्रतिग्रहः । ग्रामं क्रीणातीत्यत्र मूल्यदान-जन्यस्वत्वस्य जनकः स्वीकारः, स्वत्वजनकं मूल्यदानमेववा क्रयस्तत्फले च स्वत्वे ग्रामस्याधेयत्वेनान्वयस्तेनग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलस्वीकारवान्, ग्राम-निष्ठं यत्स्वत्वं तदनुकूलमूल्यदाता वेति तत्र बोधः । ग्रामंविक्रीणातीत्यत्र मूल्यग्रहणजन्यस्य परस्वत्वस्य जनकमूल्य-ग्रहणमेव वा विक्रयस्तेन ग्रामनिष्ठस्य मूल्यग्रहणजन्यपर-स्वत्वस्यानुकूलोयोग्रामस्य त्यागस्तद्वान्, ग्रामनिष्ठं यत्परस्वत्वं तदनुकूलमूल्यग्रहणवानिति वा तत्र बोधः ।मूल्यञ्च पणपुराणादिकमेव राजनिर्दिष्टं नतु द्रव्यमात्रंतेन तिलादीन् दत्त्वा माषादीनां विनिमये विप्राणां तिल-विक्रयादिदोषस्यानवकाश इत्युक्तमेव । नरकं पततीत्यत्रभोगावच्छिन्नं पातित्यमेव पतेरर्थस्तेन नरकभोगानुकूलप्रा-तित्यवानित्याकारकस्तत्र बोधः । नरकपतित इति द्वितीया-तत्पुरुषोदाहरणमपि वृत्तिकारस्य, एतदभिप्रायकमेवपतनक्रियायास्तथात्वे तु नरके पततोत्यादिरेव युक्तःप्रयोगः । स्वर्गेगच्छतीत्यादौ स्वर्गादिपदस्येव प्रकृते नरकपद-स्यापि तद्देशपरत्वात् । धनं लभते प्राप्नोतीत्यादौ स्वत्वा-वच्छिन्नोव्यापारोधात्वर्थः, तन्निविष्टे च स्वत्वे धनादेराधेय-त्वेनान्वयः । ननु यगन्तधात्वर्थविशेष्यतापन्नस्तिङर्थोयटिकर्मत्वं तदा दुहादेर्मुख्यकर्मण्यव्याप्तिः । गोपेन गौः प-योदुह्यतैत्यादौ गोपकर्तृकव्यापारजन्यं यत् पयःकर्मक-मोचनं तद्वती गौरित्येवमन्वये मोचनयहिः क्षरणयोर्द्वयो-रेव दुहधात्वर्थतावच्छेदकफलत्वेऽपि गौणं यन्मोचनरूपंतस्यैव कर्मणस्तिङाद्यैर्बोधनात् “गौणं कर्म दुहादिभ्यस्ति-ङाद्यैरभिधीयते” इति व्युत्पत्तेरतः प्रकारान्तरेण कर्मत्वंनिर्व्वक्ति । यस्य धातोर्य्यदर्थेयः प्रकारीभूय भासते ।द्वितीयया स्मारितोऽर्थस्तद्वा तत्कर्मतोच्यते । यद्धातोर्या-दृशार्थेद्वितीयया यादृशः स्वार्थोऽनुभाव्यते तद्धात्वर्थक्रि-यायां तत्कर्मत्वम् । तच्च गां दोग्धि पयैत्यादिप्रयोगात्पयःप्रभृतेरप्यक्षतम् । पाकं कुरुते इत्यादौ यत्ने प्रकारी-भूतमपि विषयत्वं न यतेरर्थे । भवते ग्राममित्यादौ भूधा-त्वर्थेप्राप्तौ तथाभूतमपि संयोगत्वादिकं न तदर्थोत्पत्तौप्रकारः । चौरं रुजन् पयः परिष्कुर्व्वन्नित्यादावेवरुजादिधात्वर्थहिंसादेर्द्वितीयार्थकर्मतायां विशेष्यत्वंसुलभं शतृपानजादेर्निष्ठादिगणान्तर्गतत्वेन तदन्तधातोःकर्मणि षष्ठ्याः प्रतिषिद्धत्वात् । दिवः करणस्य कर्मत्वोप-देशात् अक्षान् दीव्यतीत्यत्र द्वितीयार्थः करणत्वमपिगौणकर्मत्वमेव, अतएवाक्षा दीव्यन्ते द्यूतकारैरित्यादौक्रीडाकरणतायामेव विहितास्तिङादिकर्मप्रत्ययाः । दुहा-दयस्तु फलावच्छिन्नक्रियाहेतुव्यापारवाचित्वादेव द्विकर्म-कास्तेन गां पयोदग्धि गोपैत्यत्र दुहेर्मोचनानुकूल-व्यापारोऽर्थैति तत्रत्यमोचने गोराधेयत्वेन पयसःकर्मत्वेनान्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं तद-नुकूलव्यापारवान् इत्याकारकबोधस्तत्र बहिःक्षरणा-वच्छिन्नव्यापारोमोचनं तदनुकूलव्यापारोदोहनमतोधात्व-र्थतावच्छेदकीभूतं बहिःक्षरणरूपं फलमादाय पय-सोमोचनात्मकञ्च तदादाय गोः कर्मत्वमवसेयम् । एवंशिष्यं धर्मं वदति, वक्ति, ब्रूते, उपदिशत्याचष्टे, इत्यादौप्रतिपत्त्यवच्छिन्नव्यापारोवदप्रभृतिधात्वर्थ इति तन्निविष्टायांप्रतिपत्तौ शिष्यस्याधेयत्वेन धर्मस्य च विषयत्वेनान्व-याद्धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूल-व्यापारवान् इत्याकारकोबोधस्तादृशव्यापारश्च धर्मःसेव्यतामित्यादिकोगुर्व्वाद्यभिलापः । शत्रुं शतानिजयतीत्यत्र ग्रहणावच्छिन्नपराभवोजयतेरथः तथाच शतस्य ग्रहणानुकूलोयः शत्रुकर्मकपराभवस्तत्क-र्त्तेत्येवं तत्र बोधः पराभवश्च तिरस्कारः । प्रजाःशतं दण्डयतीत्यत्र ग्रहणावच्छिन्नशासनं दण्ड्यर्थ स्तथाच शतग्रहणानुकूलं यत् प्रजानां शासनं तत् कत्त त्येवंतत्र बोधः । शासनं नियन्त्रणम् । सुधां समुद्रं मथ्ना-तीत्यत्र उत्थानावच्छिन्नोन्मन्थनं धात्वर्थस्तेन सुधोत्थाना-नुकूलं यत्समुद्रस्योन्मन्थनं तत्कर्त्तेत्यर्थः । उन्मन्थन-मालोडनम् । पान्थं पन्थानं पृच्छतीत्यत्र अभिधाना-वच्छिन्नव्यापारः पृच्छा, तथाच पान्थनिष्ठं यत्पथोऽभिधा-नं तदनुकूलव्यापारवानित्येवं तत्र बीधः । अभिधान-मभिलापस्तदनुकूलव्यापारश्चकेन पथा गन्तव्यमित्यादि-प्रश्नः । नृपमर्थं प्रार्थयते याचते भिक्षते इत्यादौदानाय प्रेरणं धात्वर्थस्तथा च नृपनिष्ठं यदर्थस्यदानं तत्प्रेरणावानित्यर्थः । प्रेरणा प्रवर्त्तना, साच दीयतामित्याद्यभिलापरूपा । ग्राममजां बहतिनयतीत्यादौ गत्यवच्छिन्नव्यापारोवहिप्रभृतेरर्थस्तेनग्रामकर्मकं यदजादिनिष्ठं गमनं तदनुकूलव्यापारवानित्येवं तत्र बोधस्तादृशव्यापारः प्रकृते गलरज्ज्वाकर्षणादिः ।पुत्रं धर्ममनुशास्तीत्यादावनुशासनं देशनया प्रवर्त्तना, तथाच षुत्रनिष्ठस्य देशनया प्रवर्त्तनस्यानुकूलव्यापारवानित्यर्थःतथाविधोव्यापारः सन्ध्यां विधेहि समिधमाधेहीत्याद्युपदे-शरूपः । शाखां ग्रामाकर्षतीत्यत्र गतिहेतुकर्षणं धात्व-र्थस्तेन ग्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवा-नित्यर्थः । विकर्षणं नम्रीकरणम् । गामवरुणद्धि व्रजमित्यत्र गतिप्रतिरोधहेत्वावरणमवरुधेरर्थस्तेन गोगति-प्रतिरोधस्यानुकूलं यद्व्रजस्यावरणं तत्कृतिमानित्यन्वयधीः ।वृक्षं फलान्यवविनोति इत्यत्र छिदाहेतुर्विघट्टनं चिनो-तेरर्थस्तथा च फलकर्मकच्छिदानुकूलं यद्वृक्षस्य विघट्टनंचालनं तद्वानित्येवं तत्र बोधः । उत्क्षिपत्यादिकस्तुधातुः सफलक्रियाहेतुव्यापारवाच्यपि न दुहादिः ।यदुक्तमभियुक्तैः “दुहिर्वदत्यर्थजिदण्डिमन्थिपृच्छार्थनार्थौनयनार्थशासू । कृषीरुधिश्चिञ् च तथार्थवृत्तौ द्विकर्म-कोऽयं कथितो दुहादिः” । तथार्थवृत्तौ निरुक्ततचदर्थवृत्तौ । “गतिभोजनधीप्राप्तिशब्दार्थध्रौव्यधातुषु ।कर्तृत्वं हेतुविहितण्यन्तेष्वेतेषु कर्मतेति” शाब्दिकस्मृतः, गोपान् गमयति, द्विजान् गमयति, द्विजान् भोजयति, गुरूननुज्ञापयति, शिष्यान् पाठयति, सुतान् स्नापयती-त्यादौ मूलघात्वर्थस्य कर्तृत्वलक्षणं गौणमेव कर्मत्वंद्वितीयार्थः । तथा च गोपकर्तृकगत्यनुकूलव्यापारवा-नित्याकारस्तत्र बोधः । पुत्रान् प्रीतिम् प्रापयतीत्यादौच प्राप्तिर्न गतिः चैत्रीग्रामं भावयते, ग्रामस्य भावकइत्यादौ प्राम्यर्यस्य भवतेः स्वार्थविहितण्यन्तस्य कर्त्तुःकर्मतानिरासायाणच हेनुनिहितत्वमनुसृतम् । “हिंसाया-मेव भुज्यर्थभक्षेरेवं वहेरपि । ण्यन्तस्य कर्त्तुः कर्मत्वंक्रियया वाहनंयदि” इति स्मरणाद्भक्षयति मूषिकान् मार्जा-रम्, भक्षयति लतां छागमित्यादेरेव भक्षेः कर्त्तरि कर्मतान तु भक्षयत्योदतं भृत्येनेत्यादौ, भक्षयति प्रजाः परि-जनैः कुनृप इत्यादौ तु न भोजनं भक्षेरर्थः । वाह-यति रथमश्वान् सारथिः वाहयति गोणीं वृषभान् वा-हिक इत्यादाविव वाहयति भारं भृत्येन धनिकैत्यादौस्वचेष्टया वाहकोन धनिकादिः । “हृक्रोस्तु कर्त्तुः क-र्मत्वं ण्यन्तत्वे स्याद्विभाषया । अभिवादिदृशोरेवमा-त्मनेपदैष्यते” इत्यनशिष्टेर्हारयति कारयति वा पटंकुविन्देनेत्यत्रेय कविन्दमित्यतोऽपि कुविन्दस्य गौणकर्मत्वावगमः । तथा अभ्यवहारयत्योदनं तनयं तनयेनवा जननी, विकारयति न्वित्तं चित्तेन वा वसन्तैत्यपिप्रमाणम् । परन्तु पूर्व्वयोरप्राप्तावेतयोस्तु प्राप्तायेवकर्मत्वस्य वैकल्पिकोविधिः । गुरुमभिवादयते सुतं सुतेनवा गृहस्थः, ध्रुवं दर्शयते भार्य्यां भार्य्यया वा पति-रित्यादौ तु दृशेः प्राप्तावभिवादयतेस्त्वप्राप्तौ सः ।अनात्मनेपदस्थले तु पन्थानं पथिकं दर्शयति, पुत्रेणमित्रमभिदादयतीत्यादौ यगाप्राप्तमेव कर्मत्वादिकम् ।छात्रेणार्प्यं निर्णाययति, चैत्रेणौदनं खादयति, आदयतिवा दारैः क्रन्दयति, पुत्रेण मित्रमाह्वाययतीत्यादौ तुनीप्रभृतेर्बुद्याद्यर्थकत्वेन तत्कर्त्तुः कर्मत्वं प्रसक्तमपि “ननीखाद्यादिशब्दायक्रन्दिह्वयतिषु क्वचित् । हेतुण्यन्तेषुकर्तृत्वं कर्मता स्यात्तिङादिष्विति” भर्त्तृहरिवचनान्नि-षिध्यते । अत्र च कचित्तिङादिष्वितिकथनाच्चैत्रेणार्थंनिर्णाय्यमानस्तिष्ठति, मैत्रेण पूपं खाद्यमानोब्रूते इ-त्यादौ कर्मविहितस्य शानजादेर्नानुपपत्तिरिति वदन्ति ।सुखं प्राप्नोतोत्यादौ प्राप्तिरुत्पत्तिः परम्परया तदा-श्रयत्वञ्च तिङर्थः । घटं जानातीत्यत्र विषयत्वं विष-यिता वा द्वितीयार्थः । दिवाकरस्तु संस्कारावच्छिन्नमेवज्ञानं जानात्यर्थैत्युक्तस्थले भुख्यमेव कर्मत्वं घटादे-रित्याह तन्मन्दं ज्ञानमित्यादितः संस्काराप्रतीते-र्लाघबेन ज्ञानत्वस्यैव जानात्यर्थतावच्छेदकत्वात् घटस्योपे-क्षात्मकज्ञाने निर्विकल्पके वा घटं जानातीतिप्रयोगस्या-प्रसङ्गाच्च । अतएव प्राकट्यावच्छिन्नज्ञानमेव तत्र धा-त्वर्थ इति तत्त्वावच्छेदकीभूतज्ञाततावत्त्वादेव घटादेर्ज्ञान-कर्मतेति भट्टमतमप्यनादेयं ज्ञानविषयतातिरिक्तायांज्ञाततायां मानाभावादन्यथा ज्ञाततायाइव कृततादे-रप्यतिरिक्तायाः कल्पनापत्तेः । वह्निमनुमिनोमि आपा-दयामीत्यादौ विधयतानामको विषयताप्रभेदएव द्विती-यार्थः पर्व्वतोवह्निमानित्याद्यनुमितावापत्तौ वा पर्व्वत-मनुमिनोमीत्याद्यप्रयोगात् विषयनावच्छेदकत्वभिन्नप्रका-रत्वमेव तत्र द्वितीयार्थैत्यपि वदन्ति । घटं पश्यतिशब्दं शृणोत्यनुभवतीत्यादौ दर्शनाद्यर्थकधातुयोगे साक्षात्कारत्वनिरूपितमेव विषयत्वं कर्मत्वं घटादेरुपनीतचाक्षुषादौ तादृशाप्रयोगात् । आकाशं न पश्यतीत्यादौ पुनरन्वयोवक्ष्यते । तण्डुलपाकं करोतीत्यत्रचिकीर्षाजन्यतावच्छेदकः क्रियायासद्देश्यताख्योविषयता-बिशेष एव द्वितीयार्थः कृतौ भासते, तेन तण्डुलपा-कत्वप्रकारककृतेस्तण्डुलविषयत्रेऽपि पाकदशायां त-ण्डुलं करोतीत्यादिकोन प्रयोगः पाकदशायामोदनंकरोतीत्यादौ च द्वितीयाया अनुकूलत्वे लक्षणा तण्डुला-दिक्रयणकृतिस्तु नौदनादिजनिका प्रमाणाभाघात् । बर्द्ध-मानस्तूक्तस्यले धातुना उत्पत्त्यनुकूला कृतिरुच्यते इतितत्रौदनस्य मुख्यमेव कर्म त्वमतएव यत्र कृतिमात्रं धात्व-र्थस्तत्र न द्विताया यथा घटाय यततैत्यादाविवेत्याहतन्न कृत्यादिपदाद्यत्नमात्रप्रतीत्या यत्नत्वावच्छिन्नस्यैवकरोत्यर्थत्वात् । मीमांसामहाणवे तु पाककृतौ तण्डु-लादेरुपादानविधयेव फलविधयोदनादेरपि विषयत्व-मुक्तं यदाह वत्सेश्वरः “सिंद्धं साध्यं फलञ्चेति प्रवृत्ते-र्विषयस्तिधा । तत्र सिद्धमुपादानं क्रिया साध्यं फलंसुखमिति” तथा च तन्मते तण्डुलपक्तृदशायामोदनंकरोतीत्यादिप्रयोगे फलत्वेन विषयतैव द्वितीयार्थः ।मासं जीवति, क्रोशं स्वपिति, गोदोहं तिष्ठति, कुरून्क्रीडतीत्यादावधिकरणत्वं गौणमेव कर्मत्वं सुपाऽनु-भाव्यते “कालानामध्वमानानां क्रियाणां नीवृतामपि ।आधारता ध्रौव्यधातोः कर्मता स्याद्विभाषयेति” स्मृतेः” ।“कर्मणि द्वितीया” “कर्मण्यण्” पा० । सकर्मकः अकर्मकइत्यादि । २ वैशेषिकमतसिद्धे मूर्त्तद्रव्याश्रिते क्रियारूपेपदार्थभेदे । तल्लक्षणादि कणादसूत्रवृत्त्योर्दर्शितं यथा-“एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मल-क्षणम्” सू० “गुणानन्तरमुद्दिष्टस्य कर्मंणोलक्षणमाहएकमेव द्रव्यम् आश्रयो यस्य तदेकद्रव्यं न विद्यते गुणो-ऽस्मिंन्नित्यगुणं, संयोगविभागेष्वनपेक्षकारणमिति स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षमित्यर्थः तेन समवायिका-रणापेक्षायां पूर्व्वसंयोगाभावापेक्षायाञ्च नासिद्धत्वम् खोत्पत्त्यनन्तरोत्पत्तिकानपेक्षत्वं वा विवक्षितं पूर्वसंयोग-ध्वंसस्य स्वोत्पत्त्यनन्तरानुत्पत्तिकत्वात् अभावत्वेन तस्याद्यक्षणसम्बन्धाभावात् । नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं कर्मत्वं, चलतीति प्रत्ययासाधाणकारणतावच्छे-दकजातिमत्त्वं वा, गुणान्यनिर्गुणमात्रदृत्तिजातिमत्त्वंस्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजा-तिमत्त्वं वा । स चायं चलतीति प्रत्ययसाक्षिकःपदार्थोनाविरलदेशोत्पादनादिनोपपाद्यः क्षणभङ्गस्याग्रेनिराकरिष्यमाणत्वात् । लक्षणस्य इतरभेदसाधकताप्रकारःपूर्व्वोक्त एव” उपस्क० “संयोगविभागवेगानां कर्म समा-नम्” सू० । “क्वचिदेकस्य कर्मणोऽनेककार्य्यकारित्वमाह का-रणमित्यनुषङ्गः यत्र द्रव्ये कर्मोत्पन्नं तेन समं यावद्द्रव्यंसंयुक्तमासीत् तावत्सङ्ख्यकान् विभागान् जनयित्वातावतः संयोगानपि पुनरन्यत्र जनयति वेगं पुनरेकमेवस्वाश्रये करोति वेगपदं स्थितिस्थापकसप्युपलक्षयति”उपस्क० “न द्रव्याणां कर्म” सू० । “ननु क्रियायता द्रव्येणारम्भकसंयोगे जनिते तेन च द्रव्यमारब्धयत्तदपि कर्मजन्यमेव कर्मणस्तत्पूर्व्ववर्त्तित्वादत आहकर्म द्रव्याणां न कारणमित्यर्थः । कुत एवमत आह”उपस्क० “व्यतिरेकात्” सू० । “व्यतिरेकादिति निवृ-त्तेरित्यर्थः उत्तरसंयोगेन कर्मणि विवृत्ते द्रव्यमुत्पद्यतेइति न कर्मणोद्रव्यकारणत्वं विनश्यदवस्थञ्च कर्मन द्रव्य-कारणम् । किञ्च कर्म द्रव्यस्यासमवायि कारणं वाभवेन्निमित्तकारणं वा, न तावदाद्यः, द्रव्यस्यासमवायि-कारणनाशनाश्यत्वेन अवयवकर्मनाशादेव द्रव्यनाशापत्तेः ।न द्वितीयः, महापटनाशेऽवस्थितसंयोगेभ्य एव खण्ड-प्रटोत्पत्तौ निष्कर्मणामेवावयवानां द्रव्यारम्भदर्शना-द्व्यभिचारात्” उपस्क० । “गुणवैधर्म्यान्न कर्मणांकर्म्म” सू० । “ननु यथा द्रव्याणां द्रव्यं कार्य्यं गुणा-नाञ्च गुणस्तथा किं कर्मणामपि कर्म कार्य्यम्?इत्यत आह कार्य्यमिति शेषः द्रव्यगुणयोः सजातीया-रम्भकत्वं साधर्म्यमुक्तं “तत्र कर्म कर्मसाध्यं न विद्यते”इति सूत्रेण कर्मणां कर्मजनकत्वं प्रतिषिद्धमेव तदि-हानूद्यते इति मावः” उपस्क० । “असमवायात् सामान्य-कार्य्यं कर्म न विद्यते” सू० “असमवायादित्यत्रद्रव्ययोर्द्रव्येष्विति योज्यं, तथा च न द्रव्ययोरेकं कर्म-समवैति न वा द्रव्येष्वेकं कर्म समवैति तेन सामान्यस्य ।दायस्य कार्य्यं कर्म न विद्यते । अत्रापि विदिर्ज्ञानाथो नसत्तावचनः यदि कर्मव्यासज्यवृत्ति स्यात्! एकस्मिन् चलति, द्वयोर्द्रव्ययोर्बहुषु च द्रव्येषु चलतीति प्रत्ययः स्यात्!नचैतत्, तस्मान्नकम व्यासज्यवृत्तीत्यर्थः । ननु शरीरतद-वयवानां कर्म शरीरतदवयवैर्बहुभिरारभ्यत एव कथम-न्यथा शरीरे चलति करचरणादावपि चलतीति प्रत्ययः, एवमन्यत्राप्यवयविनीति चेन्न अवयबिकर्मसामग्र्याअवयवकर्मसामग्रीव्याप्तत्वात् तथोपलब्धेः न तु वैप-रीत्यम्, नह्यवयवे चलति सर्वत्रावयविनि चलतीतिप्रत्ययः अन्यथा कारणाकारणसंयोगात् कार्य्याकार्य्य-संयोगोऽपि न स्यात्, कारणकर्मणैव कार्य्यस्यापि संयोगोप-पत्तेः” उपस्क० “ननु मूर्त्तगुणानां कार्य्याणां कारण-गुणपूर्वकत्वं स्वाश्रयगुणपूर्व्वकत्वञ्चोक्तं द्रव्यकर्मणोश्च नकर्म कारणमित्युक्तं, तथा च कर्मणः किमपि न कार्य्य-मित्यायातं, तथाचातीन्द्रियाणां सूर्य्यादिगतीनाम् अनु-मानमपि दुर्लभं, लिङ्गाभावात् अतः संयोगविभागवेगानांकर्मेति सूत्रोक्तमेव स्मारयन्नाह “संयोगविभागाश्च कर्म-णाम्” सू० “जन्याइति शेषः व्यक्त्यभिप्रायेण बहु-वचनं संस्कारोऽप्युषलक्षणीयः । ननु द्रव्यकर्मणी न कर्मकार्य्ये इति पूर्वमुक्तम्, संयोगविभागौ तु संयोमविभाग-कानांवेव, तथा चेदानीं कर्मणः कारणत्वाभिधानंविरुद्धामत्यत आह” उपस्क० । “कारणसामांन्येद्रव्यकर्मणां कर्माकारणमुक्तम्” सू० । “कारण सामा-न्यपदेन तत्प्रकरणमुपलक्ष्याते तेन कारणसामान्याभिधा-नप्रकरणे द्रव्यकर्मणी प्रति कर्मणोऽकारणत्वमुक्तं न तुसर्वथाप्यकारणमेव कर्मेति विवक्षित येन “संयोगविभागाश्चकर्मणामिति” सूत्रंव्याहन्येतेति भावः” उपस्क० ।तच्च कर्म पञ्चविधम् “उत्क्षेपणं तयावक्षेपणमा-कुञ्चनं तथा । प्रसारणञ्च गमनं कर्माण्येतानि पञ्च च”भाषा० अत्रेदं बोध्यम् । कृञोयत्रार्थकत्वबादिमतेऽस्य यत्नार्थककृधातुनिष्पन्नत्वेऽपि उक्तलक्षणक्रियामात्रेरूढत्वं न तु यौगिकत्वम् । तच्च कर्त्तृशब्देप्रदर्शिते कर्मा-दिशब्दवत् कर्त्तृपदस्य रूढत्वप्रतिपादनपरे शब्दचि० वाक्येउक्तम् । कृञ उत्पत्त्यनुकूलव्यापारमात्रार्थकत्ववादिमतेतु यौगिकत्वमिति भेदः । व्याकरस्णमते ३ व्यापारमात्ररूप-क्रियायाम् “व्यापारोभावना सैवोत्पादना सैव च क्रिया ।कृञोऽकर्मकत्तापत्तेर्नहि यत्रोऽर्थ इष्यते” इति हरिणाकृञोयत्नार्थकत्वनिरासेन कर्मपर्य्यायक्रियाशब्दस्य व्यापा-रार्थकत्वस्योक्तेः । क्रिया च धातृपात्तव्यापारभेदः अधिकंक्रियाशब्दे वक्ष्यते । ४ शास्त्रविहिते अग्निहोत्रादियागादौतच्च त्रिविधम् “नित्यं नैमित्तिकं काम्यं कर्म्म चैवं त्रिधामतम्” इति व्यासोक्तेः । तत्र नित्यमकरणेप्रत्यवायानुबन्धिसन्ध्यावन्दनादि । नैमित्तिकं निमित्तनिश्चयाधीनकर्त्तव्यताकंजातेष्ट्यादि । काम्यं कामनावत्कर्त्तव्यमश्वमेधादि ।पुनः प्रकारान्तरेण तत्त्रिविधं सात्विकराजसतामसभेदात् ।तल्लक्षणन्युक्तानि गीतायां यथा “नियतं सङ्गरहित-मरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म्म यत्तत् सा-त्विकमुच्यते १ । यत्तु कामेप्सुना कर्म्म साहङ्कारेण ।वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् २ ।अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । मोहादार-भ्यते कर्म्म तत्तामसमुदाहृतम्” ३ । “नियतं नित्यतयाविहितं, सङ्गरहितमभिनिवेशशून्यम् । अरागद्वेषतःपुत्रादिप्रीत्या वा शत्रुद्वेषेण वां यत् कृतं न भवति फलंप्राप्तुमिच्छतीति फलप्रप्सुस्तद्विलक्षणेन निष्कामेण कर्त्रायत् कृतं कर्म्म तत् सात्विकमुच्यते १ । यत्तु कर्म कामे-प्सुना फलं प्राप्तुमिच्छुना साहङ्कारेण वा मत्समः कोऽन्यःश्रोत्रियोऽस्तीत्येव निरूढाहङ्कारयुक्तेन च क्रियते तच्चपुनर्बहुलायासमतिक्लेशयुक्तम् तद्राजसमुदाहृतम् २ ।अनुबध्यत इव्यनुबन्धं पश्चाद्भावि शुभाशुभं क्षयं वित्तक्षयंहिंसां परपीडां पौरुषञ्च स्वसामर्थ्यमनपेक्ष्यापर्य्यालोच्यकेवलं मोहादेव यत् कर्म्मारभ्यते तत्तामसमुदाहृतम्” ३श्रीधरः । प्रकारान्तरेण तत्त्रिविधं शुक्लकृष्णकृष्णशुक्लभेदात्तत्र शुक्लं हिंसाद्यनपेक्षं पुण्यजनकं स्वाध्यायादि ।क्रष्णं शास्त्रनिषिद्धं पापजनकं ब्रह्महत्यादि । कृष्णशुक्लम्हिंसादिसहितं वेदविहितं पुण्यापुण्यजनकं पशु-यागादि । कर्मविपाकशब्दे उदा० । तच्च प्रकारान्तरेण द्विविधं प्रवृत्तं निवृत्तं च यथाह मनुः “इहचामुत्र वा काम्यं प्रवृज्ञं कर्म्म कीर्त्त्यते । निष्कामंज्ञानपूर्वन्तु निवृत्तमुपदिश्यते । प्रवृत्तं कर्म्म संसेव्य देवा-नामेति सार्ष्टिताम् । निवृत्तं सेव्यमानन्तु भूतान्यत्येतिपञ्च वै” । “कामनापूर्वकं कर्म्म शतीरप्रवृत्तिहेतुत्वात् प्रवृत्तं, तदेव कर्म कामनारहितं पुनर्ब्रह्मज्ञानाभ्यासपूर्बकं संसार, निवृत्तिहेतुत्वात् निवृत्तमुच्यते” मल० त० रघुन० विहितकर्माचरणप्रकारः कर्मयोगशब्दे दृश्यः । ५ कृषौच “तद्यथेह कर्मचितोलोकः क्षीयते” श्रुतिः “फलस्यकर्मनिष्पत्तेर्लोकवत्” जै० सू० । अत्र कर्मशब्दः कृषि-वैदिककर्मोभयपरः । “एष एव साधु कर्मकारयति तंयमेभ्य उन्निनीषते एषं उ एवासाधु कर्मकारयतीति”श्रुतिः । “फलं कर्मायत्तम्” मीमांसकाः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
