| YouTube Channel

कर्म्मक्षेत्र (karmmakSetra)

 
वाचस्पत्यम्
Sanskrit
कर्म्मक्षेत्र
न०
कर्म्मणां क्रियानुष्ठानानां क्षेत्रम् जम्बु-द्वीपान्तर्गते नवसु वर्षेषु अनुष्ठानदेशे भारते वर्षे नव-वर्षाण्युक्त्वा “अत्रापि भारतमेव वर्षं कर्मक्षेत्रम् अन्या-न्यष्टवर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौम-स्वर्गपदानि व्यपदिशन्ति” भाग० ५, १७, १२, १३, कर्मभूमि-रप्यत्र स्त्री “उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।वर्षं तद्भारतं नाम भारती यत्र सन्ततिः” इत्युपक्रम्य“कर्मभूमिरियं स्वर्गमपवर्गञ्च यच्छति” “अत्रसप्राप्यते स्वर्गोमुक्तिमस्मात् प्रयान्ति तिर्य्यक्त्वंनारकित्वञ्च मध्यं चातश्च गम्यते स्वल्वन्यत्र मर्त्यानांकर्मभूमौ विधीयते” विष्णु
पु०
पराशरवाक्यम्