| YouTube Channel

कर्म्मकारः (karmmakAraH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्म्मकारः,
पुं,
(कर्म्म वेतनं गृहीत्वा लोहादिभिःखड्गकर्त्तरिकादिकं करोति निर्म्मातीति कर्म्म +कृ + उपपदे “कर्म्मण्यण्” इतिअण् ।) वर्णसङ्करविशेषः लौहकारः कामार इतिभाषा तु शूद्रायां विश्वकर्म्मणो जातः इतिब्रह्मवैवर्त्तपुराणम्
वृषः इति शब्दचन्द्रिका
कर्म्मकारः, त्रि, (कर्म्म करोति मृतिमृते कर्म्म + कृ+ अण् ।) वेतनं विना भारवहनादिकर्म्मकारकः ।वेगार इति भाषा
तत्पर्य्यायः कर्म्मक्रियः ।इत्यमरः १९