| YouTube Channel

कर्म्मकाण्ड (karmmakANDa)

 
वाचस्पत्यम्
Sanskrit
कर्म्मकाण्ड
न०
कर्मणां कर्त्तव्यताप्रतिपादकं काण्डम् ।कर्मणां कर्त्तव्यताप्रतिपादके वेदभाग कर्मकाण्डस्यारम्भप्रयोजनञ्च वृह० उ० भाष्ये दर्शितंयथा “तत्रास्यकर्म्मकाण्डेन सम्बन्धोऽभिधीयते सर्व्वोऽप्ययं वेदःप्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रका-शनपरः सर्व्वपुरुषाणां निसर्गंत एव तत्प्राप्तिपरिहार-येरिष्टत्वात् दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञा-नस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वान्नागमान्वेषणा नचासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टा-निष्टप्राप्तिपरिहारेच्छा स्यात् स्वभाववादिदर्शनात् ।तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिप-रिहारोपायविशेषे शास्त्रं प्रवर्त्तते “येयं प्रेते वि-चिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके” इत्युपक्रम्य“अस्तीत्येवोपलब्धव्यः” इत्येवमादिनिर्णयदर्शनात् “यथा चमरणं प्राप्य” इत्युपक्रम्य “योनिमन्ये प्रपद्यन्ते शरीरत्वायदेहिनः स्थाणुमन्येऽनुसयन्ति यथाकर्म्म यथाश्रुतम्” इतिच, स्वयं ज्योतिरित्युपक्रम्य” तं विद्याकर्म्मणी समन्वारभेतेपुण्योवै पुण्येन कर्म्मणा भवति” ज्ञपयिष्यामीत्युपक्रम्य“विज्ञानमयः” इति व्यतिरिक्तात्मास्तित्वम् तत्प्रत्यक्ष-विषयमेवेति चेन्न वादिविप्रतिपत्तिदर्शनात् हि दे-हान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकाय-तिका बौद्धाश्च नः प्रतिकूलाः स्युः नास्त्यात्मेति वदन्तः ।न हि घटादो प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घटइति स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत् निरू-पितेऽभावात् हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्र-तिपत्तिर्भवति वैनाशिकस्त्वहमितिप्रत्यये जायमानेऽपिदेहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते तस्मात्प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः तथा-नुमानादपि श्रुत्यात्मास्तित्वे लिङ्गस्यादर्शितत्वात् लिङ्गस्यच प्रत्यक्षविषयत्वान्नेति चेत् जन्मान्तरसम्बन्धस्याग्रहणात् आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिक-लिङ्गविशेषैश्च तदनुसारिणो मीमांसकास्तार्किकाश्चाहम्प्र-त्ययलिङ्गानि वैदिकान्येव स्वमतिप्रभवानीति कल्पयन्तोवदान्ति प्रत्यक्षश्चानुमेयश्चात्मेति सर्व्वथाप्यस्त्यात्मा देहान्त-रसम्यन्धीत्येवम्प्रतिपत्तुर्देहान्तरगतेष्टा निष्टप्राप्तिपरिहारो-पायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्म्मकाण्डं समारब्धम्” ।अधिकारिभेदेनैव कर्मकाण्डे प्रवृत्तिः “लोकेऽस्मितु द्विविधानिष्ठा पुरा प्रोक्ता मयानघ! ज्ञानयोगेन सांख्यानांकर्मयोगेन योगिनाम्” इति गीतायामपि द्वैविध्योक्तेः अत-एव “तमेतं ब्राह्मणाविविदिषन्ति वेदानुवचनेन यज्ञेनतपसा नाशकेन” इति श्रुत्यैव कर्मणां विविदिषाहेतु-तोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मणा-मुपयोग इत्याकरे स्थितम्