| YouTube Channel

कर्म्मकर्त्तृ (karmmakarttR)

 
वाचस्पत्यम्
Sanskrit
कर्म्मकर्त्तृ
पु०
कर्नैव कर्त्ता व्याकरणोक्ते कर्मणः कर्तृत्व-विवक्षया प्राप्तकर्तृत्वभावे कर्मणि “क्रियमाणन्तु यत् कर्मस्वयमेव प्रसिध्यति सुकरैः स्वैर्गुणैः कर्त्तुः कर्मकर्त्तोततद्विदुः” व्या० का० कर्मकर्त्तरि कार्य्यभेदातिदे-शमाह “कर्मवत् कर्मणा तुल्यक्रियः” पा० सि० कौ०विवृतमेतत् यथा“कर्त्तरि तु कर्मस्थया क्रियया तुल्यक्रियः कर्त्ता कर्मव-त्स्यात् कार्य्यातिदेशोऽयम् तेन यगात्मनेपदचिण्चि-ण्वदिटः स्युः कर्त्तुरभिहितत्वात्प्रयमा पच्यते ओदनः ।भिद्यते काष्ठम् अपाचि अभेदि ननु भावेलकारे कर्त्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न लकार-वाच्य एव कर्त्ता कर्मवत् लिङ्याशिष्यङिति द्विलकारकाल्ल इत्यनुवृत्तेः भावे प्रत्यये कर्त्तुर्ल्लकारेणानुपस्थितेः ।अतएव कृत्यक्तखलर्थाः कर्मकर्त्तरि भवन्ति किन्तु भावेएव भेत्तव्य कुसूलेन ननु पचिभिद्योः कर्मस्थाक्रिया विक्लित्तिर्द्विधाभवनञ्च सैवेदानीङ्कर्त्तृस्था तुतत्तुल्या? सत्यम् कर्मत्वकर्त्तृत्वावस्थाभेदोषाधिकं तत्स-मानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः कर्मणेतिकिम्? करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्व-सिरित्यादौ मा भूत् किञ्च--कर्त्तृस्थक्रियेभ्यो माभूत्, गच्छति ग्रामः, आरोहति हस्ती, अधिगच्छतिशास्त्राथः, अरति श्रद्दधाति वा यत्र कर्मणिक्रियाकृतो विशेषो दृश्यते, यथा पक्वेषु तण्डुलेषु, यथावा च्छिन्नेष काष्ठेषु तत्र कर्मस्था क्रिया, नेतरत्र नहि पक्वापकतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपल-भ्यते करोतिरुत्पादनार्थः उत्पत्तिश्च कर्मस्था, तेनकारिष्यते घट इत्यादि यत्नार्थत्वे तु नैतत्सिद्ध्येत् ।ज्ञानेच्छादिवद्यत्नस्य कर्त्तृस्थत्वात् एतेन अनुव्यवस्यमानेऽथंइति व्याख्यातम् इदमस्माभिः सरलायां व्याख्यातम् यथा-“उत्प्रवृत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके व्यापार-भेदापेक्षायां करणत्वादिसम्भवः” इति वाक्यमनुरुन्धानःकर्त्तृत्वकर्मत्वादिकं व्यवस्थाप्य कार्य्यविशेषाय कर्मातिदेश-कसूत्रमवतारयति कर्त्तरि त्विति कर्मस्थया कर्ममात्र-स्थया क्रियया फलेन “फलव्यापारयोर्धातुः” इत्युक्तेः “धातो-रर्थः क्रियोच्यते” इत्युक्तेश्चेत्यर्थः तुल्यक्रियः समानाधि-करणक्रिय इत्यर्थः किञ्च कर्मस्थभावकएव कार्य्यातिदे-शार्थं कर्मणेति पदम् “कर्मस्थेऽपि धात्वर्थे कर्मकर्त्ता चकर्मवत् कर्त्तृस्थेऽपि धात्वर्थे कर्मकर्त्ता कर्त्तृवत्”इत्युक्तेः “कर्मस्यः पचतेर्भावः कर्मस्थाश्च भिदादयः” इत्युक्तेःभिदादयः कर्ममात्रस्थाः गमनादयस्तु कर्त्तृस्थाः “कर्त्तृ-स्थोबुध्यतेर्भावः कर्त्तृस्थाश्च गमादयः” इत्युक्तेः “व्यत्ययो-बहुलल्लिङ्याशिष्यङिति” सूत्रयोः सन्धिजातद्विलकारमध्येएकलकारस्यानुवृत्तेरित्यर्थः कृत्यक्तखलर्थाइत्यत्र क्तग्रहणंप्रायिकं सिनोग्रासैत्यादौ कर्मंकर्त्तंरि क्तस्य दर्शनादितिबोध्यम् वास्तविकभेदाभावेऽप्यौपाधिकभेदोऽस्तीत्याहकर्मंत्वकर्त्तृत्वावस्थेति तथा चावस्थाभेदेन क्रियाभेदात्कर्त्तुः कर्मंस्थक्रियया तुल्यक्रियत्वमिति भावः नेतरःत्रेति “निर्वर्त्त्ये विकार्य्ये कर्म्मंवद्भाव इष्यते ।न तु प्राप्ये कर्मंणीति सिद्धान्तोऽयं व्यास्थितः” इतिहर्य्युक्तेःक्रियाकृतविशेषवतोरेव निर्व्वर्त्त्यविकार्य्यंयोः कर्म्मवद्भावोन तु तद्रहिते प्राप्य इति सिद्धान्तो द्योतित इति भावः”अत्र यथा बोधाधिकं तथा शब्द० प्र० उक्तं यथा“अथ भिद्यते अभेदि कुशूलः स्वयमित्यादौ भि-दाद्यनुकूलव्यापारवत्त्वरूपस्य तत्कर्तृत्वस्य कथं कु-शूलादावन्वयः भिदादेः परस्मैपदित्वेन तदर्थध-र्म्मितया कर्तृत्वबोधने पदान्तरस्यासामर्थ्यात् यगिणो-र्विगुणत्वाच्चेत्यत आह एकक्रियाधर्म्मितया कर्तृता क-र्म्मतोभयोः बोधने कर्म्मताकाङ्क्षैवापेक्ष्योत्सर्गतोभ-वेत् कर्म्मंताकाङ्क्षा कर्म्मतान्वयस्यैवानुकूला आत्म-नेपदयगादिसममिव्याहाररूपाकाङ्क्षा व्युत्पत्तिवैचित्र्यादपे-क्षणीया तु कर्तृत्वान्वयस्य परस्मैपदविकरणादिसन्दं-शरूपा यद्येवं तण्डुलचैत्रौ पक्ष्येते इत्यपि प्रयोगःस्यात् सामग्य्रोर्मिथोविरोधेन विभिन्नकर्म्मावच्छिन्ने प्रत्य-यानां युगपत्कर्तृताकर्म्मत्वयोरनुभावकत्वस्याव्युत्पन्नत्वा-त् अतएव पचेलिमौ मैत्रतण्डुलावित्यादिकोन प्रयोगः“आत्मने ध्रौव्यधातूनां सनन्तण्यन्तयोः किरः ।श्रन्थिग्रन्थ्योस्तथा ब्रूञः कर्तृकर्मत्वबोधने यगिणौन दुहेर्नो यगजन्तस्य तस्य इण्वा स्यादुक्तधातूनांनित्यं तत्रात्मनेपद” मिति वृद्धस्मृतेः स्वयं विकुरुते युवे-त्यादौ, स्वयं चिकीर्षते कट इत्यादौ, स्वयं कटः कारयतेगौरुत्पुच्छयते चिरयते इत्यादौ, स्वयमेव किरते करी-त्यादौ, स्वयं श्रथ्नीते ग्रथ्नीते वा मालिकेत्यादौ, स्वयं ब्रूतेकथेत्यादौ, स्वयं दुग्धे गौरित्यादौ, धात्वर्थकर्तृकर्म्मत्व-योर्युगपदन्वये कर्म्मत्वान्वयानुकूलस्य यकोनापेक्षा, तथास्वयं व्यकृत युवा, स्वयमचिकीर्षत कट इत्यादौ, इणोऽपिएवं स्वयमलावि अलविष्ट वा केदारैत्यादौ, स्वरान्तस्यधातोः स्वयमदुग्ध अदोहि वा गौरित्यादौ, दुहेश्चार्थंस्यतदुभयभानार्थमिणोऽनावश्यकत्वमतौक्तमुत्सर्गतैति “विकारहेतौ सति विक्रियन्ते येषां चेतांसि एव धीराः”(कुमा०) इत्यादौ तु यकोगतिश्चिन्त्या ननु शाकः पचताभुज्यते इत्यादितः कुतः पाकादौ शाकादिकर्मत्वावगमःसुवर्थस्यैव कर्मत्वस्य धात्वर्थे धर्म्मिणि साकाङ्क्षत्वादत-आह स्वकर्मकैकधात्वर्थकर्तृकापरकर्मता यत्रान्वेत्यस्यकर्मत्वे प्रथमैवानुशिष्यते स्वकर्मताकत्वविशिष्टैकधात्व-र्थकर्तृकर्तृकस्यापरस्य धातुनिपातयोरन्यतरार्थस्य कर्मत्वंयत्र धर्म्मिण्यन्वेति तदीयत्वेनानुभाव्ये कर्म्मत्वे प्रथमैवानु-शिष्यते नतु द्वितीयादिरपेक्ष्यते तेन शाकः स्वकर्मताक-पाककर्तृकर्तृताकभोजनकर्मतावानित्याद्यन्वयधीस्तत्र स्या-त् अतएव “प्रधानशक्त्यभिधाने गुणशक्तिरनिहितवत्प्रकाशते” इति पठन्ति शक्तिः कारकमिति शाब्दिकाः ।कर्मतामात्रन्तु ज्यायः, तेन हस्तेन पचता भुज्यते शाक-इत्यादौ नाभिहिताधिकारीयप्रथमा शक्तिः” ।अत्राभिहिताधिकारीयप्रथमाशक्तिरिति तु अनभिहि-ताधिकारीया तृतीयाशक्तिरित्येतत् परम् अभिहितेप्रथमा इत्येवमधिकाराभावात् अनभिहिते इत्यस्यैवाधि-कारादिति चिन्त्यम् त० कर्मकारके
त्रि०
।स्त्रियां ङीप् कृ--क्विप् त० कर्मकृदप्यत्र कर्म-करशब्दे उदा०