| YouTube Channel

कर्म्मकरः (karmmakaraH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्म्मकरः, त्रि, (कर्म्म करोति मूल्येन डुकृञ् करणे + “कर्म्मणि भृतौ” ।२२ इति टः ।) मूल्यं गृहीत्वा कर्म्म-कारकः मजुर ठिकाचाकर इत्यादि भाषा ।तत्पर्य्यायः भृतकः भृतिभुक् वैतनिकः
वेतनोपजीवी तत्पर्य्यायः
भरण्यभुक् इत्य-मरः १९
कर्म्मण्यभुक् इति तट्टीका
कर्म्मकर्त्तृमात्रञ्च
(यथा, मिताक्षरायां नारदः ।“शिष्यान्तेवासिभृतकाश्चतुर्थस्त्वधिकर्म्मकृत् एतेकर्म्मकरा ज्ञेयाः”
)
कर्म्मकरः,
पुं,
(कृञ् हिंसायां + मन् कर्म्म हिंसांकरोतीति कृ + हेत्वादौ टः यद्वा, जीवकृत-कर्म्माधिकृत्य करोति सुखदुःखयोर्व्यवस्थां निष्पादयति नरकस्वर्गादिव्यवस्थां करोति वा धर्म्मा-धर्म्मात्मकं कर्म्म समीक्ष्य सर्व्वान् शास्तीत्यर्थः ।कर्म्मफलानुसारेण पापात्मनां दण्डप्रदानरूपहिं-सायामधिकारित्वात् अस्य तथात्वम् ।) यमः इतिमेदिनी