| YouTube Channel

कर्मेन्द्रिय (karmendriya)

 
शब्दसागरः
English
कर्म्मेन्द्रिय
n.
(-यं) An organ of action
five are reckoned, the hand, the
foot, the larynx or organ of the voice, the organ of generation,
and that of fœculent excretion.
E.
कर्म्म, and इन्द्रिय an organ of
sense.
Capeller Eng
English
कर्मेन्द्रिय
n.
organ of action (opp. बुद्धीन्द्रिय).
Yates
English
कर्म्मे_न्द्रिय (यं) 1.
n.
Organ or mem-
ber of action, as the hand, &c.
Wilson
English
कर्म्मेन्द्रिय
n.
(-यं) An organ of action
five are reckoned, the
hand, the foot, the larynx or organ of the voice, the organ of generation, and
that of fœculent excretion.
E.
कर्म्म, and इन्द्रिय an organ of sense.
Monier Williams Cologne
English
कर्मेन्द्रिय
n.
an organ of action (five in number like the five organs of sense, viz. hand, foot, larynx, organ of generation, and excretion),
MBh.
Mn.
ii, 91
Vedāntas.
91,
&c.
Macdonell
English
कर्मेन्द्रिय karma‿indriya,
n.
organ of action 🞄(ph.).
Hindi
Hindi
एक कार्रवाई के अंग, जैसे हाथ या पैर
Apte Hindi
Hindi
कर्मेन्द्रियम्
नपुं*
कर्मन् - इन्द्रियम् -
काम करने वाली इन्द्रियाँ जो ज्ञानेन्द्रियों से भिन्न हैं
Shabdartha Kaustubha
Kannada
कर्मेन्द्रिय
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ವಾಕ್ಕು, ಪಾಣಿ, ಪಾದ, ಪಾಯು, ಉಪಸ್ಥಗಳೆಂಬ ೫ಇಂದ್ರಿಯಗಳು
व्युत्पत्तिः - > कर्मणां वचनादीनां निमित्तमिन्द्रियम्
L R Vaidya
English
karman-iMdriya {% n. %} an organ of action
(they are- वाक्पाणिपादपायूपस्थानि, M.ii.91. See इंद्रिय).
शब्दकल्पद्रुमः
Sanskrit
कर्म्मेन्द्रियं,
क्ली,
(कर्म्मणां गमनादिपञ्चविधक्रियाणांसम्पादनाय इन्द्रियं कर्म्मनिमित्तं इन्द्रियं वा ।)कर्म्मनिष्पादकविषयिपञ्चकम् यथा वाक् १पाणिः पादः पायुः उपस्थः इतिवेदान्तः
(यथा च, मनुः ९१ ।“बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्व्वकाः ।कर्म्मेन्द्रियाणि पञ्चैषां पाष्वादीनि प्रचक्षते”
)
वाचस्पत्यम्
Sanskrit
कर्म्मेन्द्रिय
न०
कर्मणां वचनादीनां निमित्तमिन्द्रियम् अश्व-घासादिवत् निमित्तार्थे त० वचनादिकर्मकरेषु वागा-दिषु इन्द्रिवेषु “पञ्चोक्त्यादानगमनविसर्गानन्दकाःक्रियाः कृषिवाणिज्यसेवाद्यास्तेष्वेवान्तर्भवन्ति हि” ।“वाक्पाणिपादपायूपस्थैरक्षेस्तत्क्रियाजनिः मुखादिगोलकेष्वास्ते तत्कर्म्मोन्द्रयपञ्चकम्” पञ्चदश्यां तेषां नामकार्य्याण्युक्तानि “वाक्पाणिपादपायूपस्थानि कर्मेन्द्रिया-ण्याहुः वचनादानविहरणोत्सर्गानन्दाश्च पञ्चनाम्”सां० का० “इन्द्रस्यात्मनश्चिह्नत्वादिन्द्रियमुच्यते” सां० कौ०व्याकृतञ्चैतदस्माभिः तद्विवृतौ ।“तेषामिन्द्रियशब्दार्थत्वे कारणमाह इन्द्रस्यात्मनैति ।“इन्द्रोमायाभिः पुरुरूवईयते इत्यादि” श्रुतौ इन्द्रश-ब्दस्यात्मार्थकत्वदर्शनात्, पाणिनिना “इन्द्रियमिन्द्रलिङ्गम्”इत्यादिना इन्द्रशब्दात् तल्लिङ्गाद्यर्थे घप्रत्ययेन निपा-तितत्वात्तस्य तथात्वम करणव्यापारः कर्त्तृव्यापाराधीनःकरणव्यापारत्वात् कुठारादिव्यापारवदिति करणव्यापारेणकर्त्तुरनुमानात् इन्द्रियादीनां पुरुषलिङ्गत्वम्” ।अत्र विहरणशब्दस्य गतिपरत्वम् स्पष्टमुक्तं शा० ति० ।“ज्ञानेन्द्रियार्थाः शब्दाद्याः स्मृताः कर्मेन्द्रियाण्यपि ।वाक्पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिणः वचनादा-नगतयोविसर्गानन्दसंयुताः कर्मेन्द्रियार्थाःसंप्रोक्ताः”“अन्धुर्लिङ्गम्” राघवभट्टः ।तेषां लक्षणनिर्णयार्थं द्वितीया कारिका या दर्शितासा कौ० व्याख्याता “पञ्चानां कर्मेन्द्रियाणाम्, कण्ठ-ताल्वादिस्थानमिन्द्रियं वाक्, तस्या वृत्तिर्वचनम्” व्याकृतञ्चै-तदस्माभिः “एवं वागिन्द्रियस्य स्थानमुक्त्वा लक्षणकथनायतद्वृत्तिमाहतस्यावृत्तिर्वचनमिति तथा वचनसाधन-मिन्द्रियं वाक् एवम् आदानसाधनमिन्द्रियं पाणिरित्यादिलक्षणम् कारिकायां विहरणपदं चलनपरं तच्च गति-भेदः उत्सर्गः उदराद् मलस्यापसारणेन त्यागः आनन्दःआनन्दविशेषजनको रमणीसंभोगात्मको व्यापारभेदः” ।अत्रताल्वादिस्थानमित्युक्त्या आदिपदात् “अष्टौ स्थानानिवर्ण्णानामुरःकण्ठः शिरस्तथा जिह्वामूलञ्च दन्तौष्ठंनासिका चैव तालु च” इत्युक्तानामुर आदीनां ग्रहणम् ।अतएव शङ्खेन “हस्तौ पादावुपस्थञ्च जिह्वा पायुस्तथैवच कर्मेन्द्रियाणि पञ्चैव” इति जिह्वायाः कर्मोन्द्रिय-त्वस्योक्तिः सङ्गच्छते इन्द्रियाणि आहङ्कारिका-णीति सांख्या मन्यन्ते “प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्ग-णश्च षोडशकः सात्विक एकादशकः प्रवर्त्तते वैकृ-तादहङ्कारात्” इति सां० का० “प्रकाशलाघवाभ्या-मेकादशक इन्द्रियगणः मात्विकः वैकृतादहङ्कारात् प्रव-र्त्तते” इति कौ० व्याख्यातञ्चैतदस्माभिः ।एकादशकगणस्य सात्विकत्वमुपपादयितुमाह प्रकाशलाघ-वाभ्यामिति “सत्वं लघु प्रकाशकम्” इति कारिकया लाघ-वस्य प्रकाशस्य सत्वधर्म्मत्वस्योक्तेः इन्द्रियाणाञ्च प्रका-शकत्वात् लाघवाच्च सत्वकार्य्यत्वं निश्चितं, तथा सात्वि-कादेवाहङ्कारात् तस्योत्पत्तिर्युक्ता वैकृतात् विकृतमेववैकृतन्तस्मादित्यर्थः” इन्द्रियाणाञ्च यथा आहङ्कारि-कत्वं तथा सां० सू० भाष्ययोः समर्थितम् ।“अभिमानोऽहङ्कारः” “एकादश पञ्चतन्मात्रं तत्-कार्य्यम्” सू० ।“अहङ्करोतीत्यहङ्कारः कुम्भकारवत् अन्तःकरणद्रव्यं, सच धर्मधर्म्यभेदादभिमान इत्युक्तोऽसाधारणवृत्तिता-सूचनाय, बुद्ध्या निश्चित एवार्थेऽहङ्कारममकारौ जायेते ।अतो वृत्त्योः कार्यकारणभावानुसारेण वृत्तिमतोरपिकार्यकारणभाव उन्नीयत इति एकादशेन्द्रिंयाणि शब्दा-दिपञ्चतन्मात्रं चाहङ्कारस्य कार्यमित्यर्थः मयानेनेन्द्रियेणेदंरूपादिकं भोक्तव्यमिदं मे सुखसाधनमित्याद्यभिमानादेवा-दिसर्गेष्विन्द्रियतद्विषयोत्पत्त्याहङ्कार इन्द्रियादिहेतुः लोकेभोगाभिकामेनैव रागद्वारा भोगोपकरणसर्जनदर्शनात्“रूपरागादभूच्चक्षुरित्यादिना मोक्षधर्मे हिरण्यगर्भस्यरागादेव समष्टिचक्षुरादेरुत्पत्तिस्मरणाच्चेति भावः ।अतश्च भूतेन्द्रिययोर्मध्ये रागधर्मकं मन एवादावह-ङ्कारादुत्पद्यत इति विशेष, स्तन्मात्रादीनां रागकार्य्य-त्वादिति तत्रापि विशेषमाह सा० का० “सात्विकमेकादशकंप्रवर्तते वै कृतादहङ्कारात्” “एकादशानां पूरणमेका-दशकं मनः षोडशात्मगणमध्ये सात्विकम् अतस्त-द्वैकृतात् सात्विकाहङ्काराज्जायत इत्यर्थः अतश्चराजसाहङ्काराद्दशेन्द्रियाणि तामसाहङ्काराच्च तन्मात्राणी-त्यपि मन्तव्यम् “वैकारिकस्तैजसश्च तामसश्चेत्यहंत्रिधा अहन्तत्त्वाद्विकुर्वाणान्मनो वैकारिकादभूत् ।बैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः तैजसादि-न्द्रियाण्येव ज्ञानकर्ममयानि तामसो भूतसूक्ष्मा-दिर्यतः स्वं लिङ्गमात्मनः” इत्यादिस्मृतिभ्य एव निर्ण-यात् अतएव पुराणाद्यनुसारेण कारिकायामप्ये-तदुक्तम् “सात्विक एकादशकः प्रवर्तते वैकृतादह-ङ्कारात् भूतादेस्तन्मात्रं तामसस्तैजसादुभयम्”इति तैजसो राजसः उभयं ज्ञानकर्म्मेन्द्रिये ।ननु देवतालयश्रुतिरित्यागामिसूत्रे करणानां देवतालयंवक्ष्यति तत्कथं कारिकयापि देवानां सात्विकाहङ्कार-कार्यत्वं नोक्तमिति उच्यते समष्टिचक्षुरादिश-रीरिणः सूर्यादिदेवता एव चक्षुरादिदेवताः श्रूयन्ते ।अतश्च व्यष्टिकरणानां समष्टिकरणानि देवतेत्येव पर्यव-स्यति तथा व्यष्टिसमष्ट्योरेकताशयेनात्र शास्त्रेदेवाः करणेभ्यो पृथङ्गिर्दिश्यन्ते अतः समष्टी-न्द्रियाणि मनोऽपेक्षयाल्पसत्वत्वेन राजसाहङ्कार-कार्यत्वेनैव निर्दिष्टानि स्मृतिषु व्यष्टीन्द्रियापेक्षयाऽ-धिकसत्वत्वेन सात्विकाहङ्कारकार्यतयोक्तानीत्यविरोध-इति मन्तव्यम् तदेवमहङ्कारस्य त्रैविध्यान्महतोऽपितत्कारणस्य त्रैविध्यं मन्तव्यम् “सात्विको राजसश्चैवतामसश्च त्रिधा महान्” इति स्मरणात् त्रैविध्यंचानयोर्व्यक्तिभेदादंशभेदाद्वेत्यन्यदेतत् एकादशेन्द्रियाणिदर्शयति” भा० “कर्मेन्द्रियबुद्धीन्द्रियैरान्तरमेकादशकम्” सू०“कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च, ज्ञानेन्द्रि-याणि चक्षुःश्रोत्रत्वग्रसनघ्राणाख्यानि पञ्च एतै-र्दशभिः सहान्तरं मन एकादशकमेकादशेन्दियमित्यर्थः ।इन्द्रस्य सङ्घातेश्वरस्य करणमिन्द्रियम् तथा चाहङ्कार-कार्यत्वे सति करणत्वमिन्द्रियत्वमिति” “इन्द्रियाणांभौतिकत्वमतं निराकरोति” भा० “आहङ्कारिकत्वश्रुतेर्नभौतिकानि” सू० इन्द्रियाणीति शेषः आह-ङ्कारिकत्वे प्रमाणभूता श्रुतिः काललुप्ताप्याचार्य-वाक्यान्मन्वाद्यखिलस्मृतिभ्यश्चानुमीयते प्रत्यक्षा श्रुतिस्तु“अहं बहु स्याम्” इत्यादि ननु--“अन्नमयं हि सौम्यमनः” इत्यादिर्भौतिकत्वेऽपि श्रुतिरस्तीति चेन्न प्रकाशक-त्वसाम्येनान्तःकरणोपादानत्वस्यैवोचिततयाहङ्कारिकत्वश्रुते-रेव मुख्यत्वात् भूतानामपि हिरण्यगर्भसङ्कल्प-जन्यतयान्नस्य मनोजन्यत्वाच्च व्यष्टिमनआदीनांभूतसंसृष्टतयैव तिष्ठतां भूतेभ्योऽभिव्यक्तिमात्रेण तुभौतिकत्वश्रुतिर्गौणीति ननु तथाप्याहङ्कारिकत्वनिर्णयोन घटते? “अस्य पुरुषस्याग्निं वागप्येति वातं प्राणश्च-क्षुरादित्यम्” इत्यादिश्रुतौ देवतास्विन्द्रियाणां लयकथनेनदेवतोपादानकत्वस्याप्यवगमात् कारण एव हि कार्यस्यलय इत्याशङ्क्याह भा० “देवतालयश्रुतिर्नारम्भकस्य” सू०“देवतासु या लयश्रुतिः सा नारम्भकविषयि-णीत्यर्थः, अनारम्भकेऽपि भूतले जलविन्दोर्लयदर्शनात् ।अनारम्भकेष्वपि भूतेष्वात्मनो लयश्रवणाच्च “स एषविज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विन-श्यति” इत्यादिश्रुताविति भावः” भा० ।एतन्मूलतयैव शां० ति० “वैकारिकादहङ्काराद्दे वा वैका-रिका दश दिग्वातार्कप्रचेतोऽश्वि + वह्नीन्द्रोपेन्द्रमि-त्रकाः तैजसादिन्द्रियाण्यासंस्तन्मात्रक्रमयोगतः” इन्द्रि-याणामधिष्ठातृदेवानाञ्च आहङ्कारिकत्वमुक्तम् ।कर्मेन्द्रियाणामधिष्ठातृदेवाश्च वाचः वह्निः, पाणेरिन्द्रः, पादस्य उपेन्द्रः, पायोः मित्रः, उपस्थस्य कः ब्रह्मा ।वेदान्तिमते आकाशादीनां रजोंशैः वागादीनांक्रमेणोत्पत्तिः “रजोऽशैः पञ्चभिस्तेषां क्रमात् कर्मेन्द्रि-याणि तु वाकपाणिपादपायूपस्थाभिधानानि जज्ञिरे”पञ्चदश्युक्तेः तेषाञ्चाहङ्कारित्वं प्रमेयविवरणोपन्यासेनिराकृतं, तच्च आत्मशब्दे ६६६ पृ० दर्शितम्, तेषामनु-मानेन भौतिकत्वसिद्धिरिति शुष्कतार्किकमतमपि तत्रनिरासितं तत्रैव पृ० दृश्यम् “तेषां रजोऽंशैर्जातानिक्रमात् कर्मेन्द्रियाणि च” शब्दचि० भागवतवाक्यम्
Capeller
German
कर्मेन्द्रिय
n.
Organ für (sinnliche) Handlungen
(ph.).
Burnouf
French
कर्मेन्द्रिय कर्मेन्द्रिय
n.
(इन्द्रिय) organe de l'action
tout organe corporel externe accomplissant une fonction qconque, main,
pied, anus, larynx, etc.