कर्मविपाक (karmavipAka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English कर्मविपाक karmavipAka ripening of actions i.e. the good or evil consequences in this life of human acts performed in previous births
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiकर्मविपाकः
कर्मन् - विपाकः -
कर्मपाक
Shabdartha Kaustubha
Kannadaकर्मविपाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪುಣ್ಯಪಾಪಕಾರ್ಯಗಳ ಪರಿಣಾಮ /ಜನ್ಮಾಂತರದ ಪುಣ್ಯಪಾಪಕಾರ್ಯಗಳ ಶುಭಾಶುಭಫಲ
व्युत्पत्तिः - > कर्मणो विपर्ययः
कर्मविपाक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅನುಭವಿಸುತ್ತಿರುವ ನಾನಾವಿಧ ದುಃಖಗಳಿಗೆ ಕಾರಣ ಮತ್ತು ಅದರ ನಿವೃತ್ತ್ಯುಪಾಯಗಳನ್ನು ತಿಳಿಸುವ ಒಂದು ಗ್ರಂಥ
व्युत्पत्तिः - > कर्मणः पुण्यापुण्यरूपस्य विपाकः फलविशेषः
Aufrecht Catalogus Catalogorum
Englishकर्मविपाक dh. Kh. 64. Haug 46. Burnell 202^b. Poona
436. 627. Bhr. 89. Oppert II, 5484. Laghukarma-
vipāka. Pheh 4. See Bṛhaddharmapurāṇa.
--by Brahmadeva. B. 3, 74.
--by Bharata. B. 3, 74.
--by Bhṛgu. K. 168.
--by Mādhavācārya. Oppert 5921.
--by Māndhātṛ. K. 168. B. 3, 76. NP. VII, 20.
Oppert II, 7275. See Mahārṇavakarmavipāka.
--by Maulugi. Gu. 5.
--by Rāmakṛṣṇācārya. B. 3, 74.
--by Viśveśvara Bhaṭṭa. K. 168. Oppert 34. 1785.
2784. 4520. 4617. 6503. 7090. 7278. 7881. II,
2812. 4508. 7515. 8133. 8828. 9141. See Mahārṇa-
vakarmavipāka.
--by Śaṅkara Bhaṭṭa. IO. 84. Oxf. 281^a. Hall p. 177.
Ben. 133. Burnell 136^a.
--from Śātātapasmṛti. Oxf. 271^a. Bik. 403.
Karmavipāke Apāmārjanastotram. H. 27.
कर्मविपाक dh. Oudh XX, 172.
--by Māndhātṛ i. e. Viśveśvara Bhaṭṭa. Peters. 4, 9.
--from the Śātātapasmṛti. Stein 84.
--from the Sūryārṇava. Fl. 128.
कर्मविपाक dh. Ulwar 1278. Extr. 293.
--from the Jñānabhāskara. Ulwar 1278. Extr. 293.
--from the Bṛhaddharmapurāṇa. Cs. 2, 33. 34 (inc.).
--from the Śātātapasmṛti. Cs. 2, 32. 36 (inc.).
--from the Sūryārṇava, in 12 adhyāyāḥ. Ulwar 1278.
Extr. 293.
--by Kāṃhaḍasūnu, a grandson of Padmanābha. Bhr. 124.
Cs. 2, 37.
--by Sāyaṇa. Hz. 146.
अभिधानरत्नमाला
Sanskritदशा
दशा, गति, कर्मविपाक
कर्मविपाकेऽपि दशागती स्मृते काननेऽपि दवदावौ ।
verse 5.1.1.799
page 0092
शब्दकल्पद्रुमः
Sanskritकर्म्मविपाकः, (कर्म्मणः अधर्म्ममूलकस्य अशुभ-फलजनकस्येति यावत् विपाकः परिणामः । इहरोगादिभोगजनकदुःखमयपरिणामः । अमुत्र नर-कभोगादिजनकदुःखमयपरिणामश्च ।) अशुभकर्म्मजन्यफलस्य विपाकः । रोगादिरूपजन्मान्तरीया-शुभकर्म्मफलभोग इति यावत् । तद्विवरणं यथा, --“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते ।पतितात् प्रतिगृह्याथावरयोनिं व्रजेद्बुधः ॥
नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकः ।उपाध्यायव्यलीकन्तु कृत्वा श्वा मवति द्विजः ॥
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।गर्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत् ॥
मात्रादीतरमाक्रम्य शारिका संप्रजायते ।पितरौ पीडयित्वा तु कच्छपत्वञ्च गच्छति ॥
भर्त्तुः पिण्डमुपाश्वस्तो हित्वान्यानि निषेवयेत् ।सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥
विश्वासहर्त्ता च नरो मीनयोनौ प्रजायते ।यवधान्यानि हृत्वा तु जायते मूशिको मृतः ॥
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ।भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः ॥
गुर्व्वादिभार्य्यागमनात् शूकरो जायते नरः ।यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः ॥
देवतापितृविप्राणामदत्त्वा योऽन्नमश्नुते ।प्रमुक्तो नरकाद्वापि वायसः स प्रजायते ॥
ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौ प्रजायते ।शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ॥
तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः ॥
घृतं हृत्वा च नकुलः काको मद्गुरमामिषम् ।मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः ॥
अपो हृत्वा तु पापात्मा वायसः सम्प्रजायते ।हृते कांस्ये च हारीतः कपोतो वा प्रजायते ॥
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा ॥
मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते ।जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ॥
छुछुन्दरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत् ।षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः ॥
पुष्पापहृद्दरिद्रस्तु पङ्गुर्यावापहृन्नरः ।शाकहर्त्ता च हारीतस्तोयहर्त्ता च चातकः ॥
गृहहृन्नरकान् गत्वा रौरवादीन् सुदारुणान् ।तृणगुल्मलतावल्लीत्वक्सारतरुतां व्रजेत् ॥
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणां ।विद्यापहारी मूकश्च गत्वा च नरकान् बहून् ॥
असमिद्धेऽग्नौ हुते च मन्दाग्निः सम्प्रजायते ।परनिन्दा कृतघ्नत्वं परमर्म्मावघातनम् ॥
नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् ।परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥
निकृत्य वञ्चणं नॄणां कार्पण्यञ्च नृणां बुधः ।उपलक्षणादि जानीयात् मुक्तानां नरकादनु ॥
दयाभूतेषु सम्वादः परलोकं प्रतिक्रिया ।सत्यं हितार्थता चोक्तिर्वेदप्रामाण्यदर्शनम् ॥
गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः ।सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ।अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं फलम्” ॥
इति गारुडे कर्म्मविपाकः २२९ अध्यायः ॥
शातातपभृगुभरतोक्तः पापरोगप्रायश्चित्तानांविवरणग्रन्थः । प्रायश्चित्तविहीनपापिनां नरकान्तेप्रतिजन्म तत्पापसूचितरोगयुक्तं शरीरं भवति ।नृणां दुष्कर्म्मजा रोगा जपदेवार्च्चनहोमदाना-दिभिः शमं यान्ति ॥
* ॥
महापातकजा रोगाः सप्त-जन्मसु जायन्ते । तद्यथा--कुष्ठम् । राजयक्ष्मा ।प्रमेहः । ग्रहणी । मूत्रकृच्छ्रम् । अस्मरी । कासः ।अतीसारः । भगन्दरः । दुष्टव्रणः । गण्डमाला ।पक्षाघातः । अक्षिनाशनम् । इत्यादयः । अत्रसम्पूर्णं प्रायश्चित्तम् ॥
* ॥
उपपापोद्भवा रोगाःपञ्चजन्मसु जायन्ते । तद्यथाः--जोलदरम् ।यकृत् । प्लीहा । शूलम् । व्रणः । श्वासः । जीर्णज्वरः ।छर्द्दिः । भ्रमः । मोहः । गलग्रहः । रक्तार्व्वुदम् ।विसर्पः । इत्यादयः । अत्र अर्द्धं प्रायश्चित्तम् ॥
* ॥
पापसमुद्भवा रोगाः त्रिषु जन्मसु जायन्ते ।तद्यथाः--दण्डापतानकः । चित्रवपुः । कम्पः ।विचर्च्चिका । वल्मीकः । पुण्डरीकम् । इत्यादयः ।अत्र षष्ठांशं प्रायश्चित्तम् ॥
* ॥
अतिपापात्अर्श आद्याः रोगा भवन्ति अन्ये बहुधा रोग-सङ्कराश्च ॥
* ॥
अथ दानादिषु साधारणविधिः ।गोदाने सुशीला सवत्सा पयस्विनी गौः । वृषदानेशुक्लवस्त्रकाञ्चनसहितः शुभोऽनड्वान् । भूदानेदशनिवर्त्तनपरिमिता भूः । सुवणदाने शतनिष्कंखर्णं तदर्द्धार्द्धं वा । अश्वदाने उपस्करसहित-सुशीलाश्वः । महिषदाने स्वर्णायुधयुक्तमहिषी ।गजमहादाने सुवर्णफलसहितगजः । देवार्च्चनेलक्षोच्चावचपुष्पदानम् । ब्राह्मणभोजने सहस्र-द्विजेभ्यो मिष्टान्नदानम् । रुद्रजपे लक्षसङ्ख्यक-पुष्पकरणकत्र्यम्बकपूजनानन्तरं एकादशरुद्रजपःतद्दशांशसघृतगुग्गुलहोमःवरुणमन्त्रैरभिषेचनञ्च ।धान्यदाने षष्ठिसङ्ण्यकखारी परिमितधान्यम् ।वस्त्रदाने कर्पूरमिश्रितपट्टवस्त्रद्वयम् ॥
* ॥
अथ प्रायश्चित्तग्रहणानुष्ठानादि । दश पञ्चाष्ट-चतुरो वा ब्राह्मणानुपवेश्य तेषामनुज्ञया प्राय-श्चित्तमुपक्रम्य विष्णुं सम्पूज्य निजकाम्यया सङ्कल्प्यद्विजेभ्यो धेनुंशक्तितोदक्षिणाञ्च दत्त्वा तान् वस्त्रा-लङ्ककणैरलङ्कृत्य दण्डप्रमाणेन प्रायश्चित्तं याचेत ।तेषामनुज्ञया प्रायश्चित्तंयथाविधि कृत्वा परिपूर्णा-र्थान् तान् यथाविधि अर्च्चयित्वा तेभ्योऽनुज्ञामा-शिषश्च प्रतिगृह्य ब्राह्मणान् भोजयित्वा वन्धुभिःसह भोक्तव्यम् । इति शातातपीयकर्म्मविपाक-प्रथमाध्यायविवरणम् ॥
* ॥
जन्मान्तरीयमहापातक-शेषचिह्नकुनखादिरोगाणां प्रायश्चित्तं पराकव्रतंमहापातकादतिपातकस्य गुरुत्वात्तच्छेषजन्यगलत्कुष्टरोगस्य प्रायश्चित्तं द्विगुणम् । इति स्मार्त्ताः ॥
* ॥
अथ शातातपोक्तहिंसास्तेयाऽगम्यागमनाऽगतिप्रायश्चित्तानि क्रमेण लिख्यन्ते ॥
पापी१ अजाघाती … … …२ अश्वहन्ता … … …३ उरभ्रघाती … … …४ उष्ट्रहन्ता … … …५ काकघाती … … …६ कारुहन्ता … … …७ खरहन्ता … … …८ गजघाती … … …९ गोत्रहा … … …१० गोवधी … … …११ तरक्षुहन्ता … … …रोगी१ अधिकाङ्गः … … …२ वक्रतुण्डः … … …३ पाण्डुरोगी … … …४ विकृतस्वरः … …५ कर्णहीनः … … …६ रूक्षः … … … …७ खररोमा … … …८ सर्व्वकार्य्येष्वसिद्धार्थः …९ कुष्ठी निर्व्वंशश्च … …१० कुष्ठी … … …११ केकरेक्षणः … … …प्रायश्चित्तम्१ विचित्रवस्त्रयुक्तां अजां दद्यात् ॥
२ शतपलानि चन्दनानि दद्यात् ॥
३ व्राह्मणाय पलपरिमितकस्तूरिकां दद्यात् ॥
४ कर्पूरकं फलं दद्यात् ॥
५ कृष्णां गां दद्यात् ॥
६ शुक्लवर्णवृषभं दद्यात् ॥
७ कृष्णगुल्मिवत् प्रायश्चित्तं कुर्य्यात् ॥
८ प्रासादं कारयित्वा गणेशप्रतिमां स्थापयेत् अथवा कुलत्थशाकैः पूपैश्च गण-शान्तिपूर्व्वकं लक्षसंख्यकगणेशमन्त्रं जपेत् ॥
९ शतप्राजापत्यव्रतञ्चरित्वा ब्राह्मणाय भूमिं दक्षिणां दत्त्वा भारतं शृणुयात् ॥
१० पञ्चपल्लवसंयुक्तपञ्चवर्णसमन्वितरक्तचन्दनलिप्ताङ्गरक्तपुष्पाम्बरान्वितैकरक्तकुम्भं द-क्षिणस्यां दिशि संस्थाप्य तत्र तिलचूर्णपूरितताम्रपात्रं विन्यस्य तदुपरि निष्कमितसुवर्ण-निर्म्मितयमदेवं पुरुषसूक्तमन्त्रेण संपूज्य पापं मे शाम्यतामिति प्रार्थयेत् । ततः सामविद्ब्राह्मणस्तत्र कलसे सामपारायणं कुर्य्यात् । ततो दशांशं सर्षपं दत्त्वा पात्रमाल्यामि-षेचनं कुर्य्यात् । ततो “यमोऽपि महिषारूढो दण्डपाणिर्भयानकः । दक्षिणाशापतिर्देवोमम पापं व्यपोहतु” ॥
इति मन्त्रेण यजमानो यमं विसृज्य तं आचार्य्याय निवेद्य सद्भक्ति-माचरेत् ॥
११ गुल्ममयीं धेनुं दद्यात् ॥
पापी१२ पितृहा … … …१३ बालघाती … … …१४ ब्रह्महा … … …१५ भ्रातृहा … … …१६ महिषीघाती … …१७ मातृहा … … …१८ मार्जारहा … … …१९ राजहा … … …२० वकघाती … … …२१ वैश्यहन्ता … … …२२ शुकशारिकाघाती … …२३ शूकरहन्ता … … …२४ शूद्रहन्ता … … …२५ शृगालहा … … …२६ स्त्रीहन्ता … … …२७ हरिणघाती … … …रोगी१२ चेतनाहीनः … …१३ मृतवत्सः … … …१४ पाण्डुकुष्ठी … … …१५ मूकः … … …१६ कृष्णगुल्मी … … …१७ अन्धः … … …१८ पीतपाणिः … … …१९ क्षयरोगी … … …२० दीर्घनसः … … …२१ रक्तार्ब्बुदी … … …२२ स्खलितवाक् … …२३ दन्तुरः … … …२४ दण्डापतानकः … …२५ विपादकः … … …२६ अतिसारी … … …२७ खञ्जः … … …प्रायश्चित्तम्१२ त्रिंशत् प्राजापत्यानि कृत्वा पलपरिमितां सुवर्णनावं कारयित्वा ताम्रपात्रे रूप्यमयंउम्भं स्थापयित्वा निष्कपरिमितस्वर्णनिर्म्मितं विष्णुं पट्टवस्त्रेण सबेष्ठ्य विधानतः पूजयेत् ।तत् सर्व्वं ब्राह्मणाय दत्त्वा ब्राह्मणं विसर्जयेत् । अन्येभ्योऽपि विप्रेभ्यो भूयसीं दक्षिणांदद्यात् ॥
१३ ब्राह्मणोद्वाहनं यधाविधि हरिवंशश्रवणञ्च कुर्य्यात् । महारुद्रजपान् कारयेत् ।तद्दशांशेन अयुतसंख्यकदूर्व्वया च हुत्वा दक्षिणासहितनिष्कपरिमितैकादशस्वर्णानिद्विजानुसारतः एकादशपलानि च दद्यात् । अन्यब्राह्मणेभ्यो यथाशक्ति दक्षिणां दद्यात् ।तत आचार्य्यो वरुणदैवतमन्त्रैर्दम्पतीः स्नापयेत् । यजमान आचार्य्याय वस्त्रालङ्करणानिदद्यात् ॥
१४ यजमानश्चतुर्दिक्षु पञ्चपल्लवपञ्चवर्णसंयुक्तचतुरः कलसान् संस्थाप्य तन्मध्ये कुम्भोपरिरौप्यमष्टदलपद्मं विन्यस्य तदुपरि पलार्द्धार्द्धपरिमितसुवर्णनिर्म्मितदशहस्तं चतुर्म्मुखदेवंसंन्यस्य प्रत्यहं त्रिकालं पुरुषसूक्तेन पूजयेत् । ततः पूर्व्वादिकुम्भेषु ब्रह्मचारिणो ब्राह्मणाःऋग्वेदप्रभृतीन् स्वस्ववेदान् शनैः पठेयुः । ततो मध्यकुम्भे तिलाक्तघृतहेमभिर्ग्रहशान्ति-पुरःसरं दशांशेन होमं कुर्य्यात् । ततो ब्राह्मणो द्वादशाहेनेदं कर्म्म समाप्य तत्र पीठेयथाविधि यजमानमभिषिञ्चेत् । ततो यजमानो ब्राह्मणेभ्यो यथाशक्ति गोभूहेमतिलोद-कानि दत्त्वा कुम्भादीन् आचार्य्याय निवेदयेत् ॥
१५ चान्द्रायणव्रतं चरित्वा “सरस्वति जगन्मातः शब्दब्रह्मादिदेवते । दुष्कर्म्मकरणात्पापात् पाहि मां परमेश्वरि” ॥
इमं मन्त्रमुच्चार्य्य पलपरिमितसुवर्णसहितपुस्तकं ब्राह्म-णाय दत्त्वा तं ब्राह्मणं विसर्ज्जयेत् ॥
१६ निष्कत्रयपरिमितस्वर्णमयीं प्रकृतिं दद्यात् ॥
१७ पितृहवत् प्रायश्चित्तं कुर्य्यात् ॥
१८ निष्कमितस्वर्णनिर्म्मितं पारावतं दद्यात् ॥
१९ गोभूहिरण्यमिष्टान्नजलवस्त्राणि घृतधेनुं तिलधेनुञ्च दद्यात् ॥
२० शुक्लां गां दद्यात् ॥
२१ चत्वारि प्राजापत्यव्रतानि चरित्वा सप्तधान्यानि उत्सृजेत् ॥
२२ ब्राह्मणाय सदक्षिणं सच्छास्त्रपुस्तकं दद्यात् ॥
२३ सदक्षिणं घृतकुम्भं दद्यात् ॥
२४ एकं प्राजापत्यव्रतञ्चरित्वा सदक्षिणैकधेनुं दद्यात् ॥
२५ खञ्जवत् प्रायश्चित्तं कुर्य्यात् ॥
२६ दशाश्वत्थवृक्षान् रोपयेत् शर्कराधेनुं दद्यात् शतं व्राह्मणांश्च भोजयेत् ॥
२७ पलपरिमितसुवर्णाश्वं दद्यात् ॥
* ॥
“हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता ।तदर्द्धार्द्धप्रमाणेन क्षत्रियादिष्वनुक्रमात्” ॥
इति शातातपोक्तकर्म्मविपाकद्वितीयाध्याय-हिंसाप्रायश्चित्तविवरणम् ॥
* ॥
१ अभक्ष्यभोक्ता … …२ अस्पृश्यस्पृष्टान्नभोक्ता …३ गर्भपातकर्त्ता … …४ दावाग्निदः … … …५ दुष्टवाग्मी … … …६ द्रव्ये सति कदन्नदः … …७ धूर्त्तः … … … …८ परनिन्दावान् … …९ परान्नविघ्नकर्त्ता … …१० परोपतापी … … …११ परोपहासकृत् … …१२ पिशुनः … … …१ कृमिकोदरः … …२ कृमिलोदरः … …३ यकृत्प्लीहजलोदररोगी …४ रक्तातिसारी … …५ खण्डितः … … …६ मन्दोदराग्निः … …७ अपस्मारी … … …८ खल्लीटः … … …९ अजीर्णी … … …१० शूली … … …११ काणः … … …१२ श्वासकासी … …१ भीमपञ्चकोपवासं कुर्य्यात् ॥
२ त्रिरात्रमुपवसेत् ॥
३ पलत्रयपरिमितसुवर्णरूप्यताम्रान्दितजलधेनुदानं कुर्य्यात् ॥
४ उदपानं वटवृक्षरोपणञ्च कुर्य्यात् ॥
५ दुग्धसमन्वितघटद्वयं पलद्वयपरिमितरूप्यञ्च द्विजातये दद्यात् ॥
६ प्राजापत्यत्रयं कृत्वा शतं द्विजान् भोजयेत् ॥
७ ब्रह्मकूर्च्चमयींधेनुं दत्त्वा सदक्षिणां गां दद्यात् ॥
८ काञ्चनसहित धेनुं दद्यात् ॥
९ यथाविधि लक्षहोमं कुर्य्यात् ॥
१० अन्नदानं रुद्रजपञ्च प्रकुर्व्वीत ॥
११ सकाञ्चनां गां दद्यात् ॥
१२ सहस्रपलसम्मितं घृतं दद्यात् ॥
पापी१३ प्रतिमाभङ्गकारी … …१४ मद्यपः … … …१५ मार्गहा … … …१६ रजस्वलादृष्टान्नभोक्ता …१७ विषदः … … …१८ सभायां प्रक्षपाती … …१९ सुरापः … … …२० सुरालये जले वा …शकृन्मूत्रकारी …रोगी१३ अप्रतिष्ठः … … …१४ रक्तपित्ती … … …१५ पादरोगी … … …१६ कृमिलोदरः … …१७ छर्द्दिरोगी … … …१८ पक्षघातवान् … …१९ श्यावदन्तः … … …२० गुदरोगी … … …प्रायश्चित्तम्१३ वत्सरत्रयपर्य्यन्तं प्रतिदिनं अश्वत्थसेचनानन्तरं गृह्योक्तविधिना समां गम्यामुद्वाह-येत् सुपूजितं विघ्नराजञ्च संस्थापयेत् ॥
१४ सर्पिषो घटं सहिरण्यं मधुनोऽर्द्धघटञ्च दद्यात् ॥
१५ अश्वं दद्यात् ॥
१६ त्रिरात्रं गोमूत्रयावकं भुञ्जीत ॥
१७ दश पयस्विनीर्गा दद्यात् ॥
१८ सत्यवर्त्तिने निष्कत्रयपरिमितं हेम दद्यात् ॥
१९ प्राजापत्यव्रतञ्चरित्वा सप्ततुलापरिमितशर्करां दत्त्वा महारुद्रं जप्त्वा तद्दशांशं तिलै-र्हुत्वा वरुणदैवतमन्त्रैरभिषेकं कुर्य्यात् ॥
२० मासं व्याप्य सुरार्च्चनं गोद्वयदानं प्राजापत्यमेकञ्च कुर्य्यात् ॥
* ॥
इति शातातपोक्तकर्म्मविपाकतृतीयाध्यायप्रकीर्णप्रायश्चित्तविवरणम् ॥
* ॥
१ अगम्याभिगामी … …२ अश्वयोनिगामी … …३ आमान्नहारी … …४ इक्षोर्विकारहारी … …५ ऊर्णाहारी … … …६ औषधापहर्त्ता … …७ कन्दमूलहारी … …८ कांस्यहारी … … …९ गुरुजायाभिगामी … …१० चाण्डालीगामी … …११ तपस्विनीप्रसङ्गी … …१२ तपस्विनीसङ्गमी … …१३ ताम्बूलहारी … … …१४ ताम्रचौरः … … …१५ तेलचौरः … … …१६ त्रपुहारी … … …१७ दधिचौरः … … …१८ दारुहारी … … …१९ दीक्षितस्त्रीप्रसङ्गी … …२० दुग्धहारी … … …२१ देवहारी … … …२२ नानाविधद्रव्यचौरः …२३ पक्वान्नहारी … … …२४ पट्टमूत्रहर्त्ता … …२५ पशुयोनिगामी … …२६ पितृष्वसृगन्ता … …२७ पुत्त्रजायाभिगामी … …१ ध्रुवमण्डली … …२ गुदस्तम्भी … … …३ हीनदीप्तिः … … …४ उदरगुल्मवान् … …५ लोमशः … … …६ सूर्य्यावर्त्तरोगी … …७ ह्रस्वपाणिः … … …८ पुण्डरीकसमन्वितः …९ मूत्रकृच्छ्री … … …१० हीनमुष्कः … … …११ प्रमेहगदी … … …१२ अश्मरीगदी … …१३ श्वेतौष्ठः … … …१४ औडुम्बरी … … …१५ कण्ड्वादिपीडितः … …१६ नेत्ररोगवान् … …१७ मदवान् … … …१८ स्विन्नपाणिः … …१९ दुष्टरक्तदृक्रोगी … …२० बहुमूत्रकः … … …२१ विविधज्वरी … …२२ ग्रहणीयुक्तः … …२३ जिह्वारोगी … …२४ विलोमा … … …२५ मूत्राघाती … … …२६ दक्षिणांशव्रणी … …२७ कृष्णकुष्ठी … … …१ कार्पासभारकांस्यदोहसंयुक्तसवत्सकतिलषष्टिमितहेमधेनुं “सुरभी वैष्णवी माता ममपापं व्यपोहतु” इमं मन्त्रमुच्चार्य्य दद्यात् ॥
२ मासं व्याप्य प्रतिदिनं सहस्रसङ्ख्यकमलकरणकशिरःस्नानं कुर्य्यात् । स्त्रीणामपितत्तत्पुरुषसंसर्गात्तत्तत्प्रायश्चित्तम् ॥
३ निष्कद्वयस्वर्णनिर्म्मिताश्विनीकुमारौ दद्यात् ॥
४ गुडधेनुं प्रदद्यात् ॥
५ कम्बलान्वितनिष्कमितस्वर्णनिर्म्मितवह्निमूर्त्तिं अर्च्चयित्वा ब्राह्मणाय दद्यात् ॥
६ मासं व्याप्य सूर्य्यार्ध्यं काञ्चनञ्च दद्यात् ॥
७ यथाशक्ति देवगृहं उद्यानञ्च कुर्य्यात् ॥
८ ब्राह्मणमलङ्कृत्य तस्मै शतपलं कांस्यं दद्यात् ॥
९ नीलमाल्यादिभूषितनीलवस्त्राच्छन्नघटं पश्चिमस्यां दिशि संस्थाप्य तदुपरि ताम्रपात्रेषड्णिष्कस्वर्णनिर्म्मितवरुणं पुरुषसूक्तेन यजेत । सामवेदी ब्राह्मणस्तत्र सामवेदमाचरेत्विंशतिनिष्कमितसुवर्णपुत्तलिकां निष्पापोऽहमित्युच्चार्य्य ब्राह्मणाय दद्यात् । “यादसा-मधिपो देवो विश्वेषामधिपो वरः । संसारनौकर्णधारो वरुणः पावनोऽस्तु मे” ॥
इतिमन्त्रेण आचार्य्याय स्वर्णवरुणं दद्यात् ॥
१० मातृगामिवत प्रायश्चित्तं कुर्य्यात् ॥
११ मासं व्याप्य रुद्रं जपेत् यथाशक्ति काञ्चनञ्च दद्यात् ॥
१२ मधुधेणुं हिरण्यसहितशतद्रोणपरिमिततिलञ्च दद्यात्१३ सदक्षिणोत्तमविद्रुमद्वयं दद्यात् ॥
१४ प्राजापत्यव्रतं शतपलपरिमितताम्रदानञ्च कुर्य्यात् ॥
१५ उपोष्य विप्राय तैलघटद्वयं दद्यात् ॥
१६ उपोष्य विधिवद्घृतधेनुं दद्यात् ॥
१७ विप्राय दधिधेनुं दद्यात् ॥
१८ विदुषे पलद्वयपरिमितकुङ्कुमं दद्यात् ॥
१९ प्राजापत्यद्वयं कुर्य्यात् ॥
२० ब्राह्मणाय यथाविधि दुग्धधेनुं दद्यान् ॥
२१ तत्र ज्वरे कर्णे रुद्रं जपेत् महाज्वरे महारुद्रं रोद्रज्वरे अतिरौद्रं वैष्णवज्वरे महा-रुद्रातिरौद्रौ च जपेत् ॥
२२ शक्त्यनुसारेणान्नोदकवस्त्राणि हेम च दद्यात् ॥
२३ लक्षसंख्यकगायत्रीं जपेत् तिलकरणकं तद्दशांशहोमञ्च कुर्य्यात् ॥
२४ धेनुं दद्यात् ॥
२५ तिलपात्रद्वयं दद्यात् ॥
२६ शक्तितः अजां दद्यात् ॥
२७ स्वमुतागमनप्रायश्चित्तस्यार्द्धं घृताक्ततिलकरणकदशांशहोमञ्च कुर्य्यात् ॥
पापी२८ फलहारी … … …२९ भ्रातृजायामिगामी …३० मधुचौरः … … …३१ मातुलानीगन्ता … …३२ मातृगामी … … …३३ मातृष्वसृगन्ता … …३४ मृतभार्य्याभिगामी … …३५ रक्तवस्त्रप्रबालहारी …३६ लौहहारी … … …३७ वस्त्रहारी … … …३८ विद्यापुस्तकहारी … …३९ विप्ररत्नापहारी … …४० विप्रहेमहृत् … …४१ शाकहारी … … …४२ शुक्तिहारी … … …४३ सौगन्धिकहारी … …४४ स्वगोत्रस्त्रीप्रसङ्गी … …४५ स्वजातिस्त्रीगामी … …४६ स्वसुतागामी … …रोगी२८ व्रणिताङ्गुलिः … …२९ गुल्मकुष्ठी … … …३० नेत्ररोगवान् … …३१ पृष्ठकुब्जः … … …३२ लिङ्गहीनः … … …३३ नानाङ्गे व्रणवान् … …३४ मृतभार्य्यः … … …३५ रक्तवातवान् … …३६ कर्व्वूराङ्गः … … …३७ कुष्ठी … … … …३८ मूकः … … …३९ अनपत्यः … … …४० कुलघ्नः … … …४१ नीललोचनः … …४२ पाण्डुमूर्द्धजः … …४३ दुर्गन्धाङ्गः … … …४४ भगन्दररोगी … …४५ हृदयव्रणी … … …४६ रक्तकुष्ठी … … …प्रायश्चित्तम्२८ द्विजातये अयुतसंख्यकनानाफलं दद्यात् ॥
२९ स्वसुतागमनप्रायश्चित्तस्यार्द्धं घृताक्ततिलकरणकदशांशहोमञ्च कुर्य्यात् ॥
३० उपवासं कृत्वा मधुधेनुं दद्यात् ॥
३१ कृष्णाजिनं प्रदद्यात् ॥
३२ उत्तरतः कृष्णमाल्यादिभूषितकृष्णवस्त्रसमाच्छन्नकुम्भं विन्यस्य तदुपरि कांस्यपात्रेनिष्कषट्कमितसुवर्णनिर्म्मितनरवाहनकुवेरं पुरुषसूक्तेन यजेत् । अथर्व्ववेदविद्ब्राह्मण-स्तत्र अथर्व्वोक्तकर्म्म कुर्य्यात् । व्राह्मणाय विंशतिनिष्कपरिमितसुवर्णनिर्म्मितपुत्रिकांनिष्पापोऽहमिति ब्रुवन् दद्यात् । “निधीनामधिपो देवः शङ्करस्य प्रियः सखा । सौम्या-शाधिपतिः श्रीमान् मम पापं व्यपोहतु” ॥
इति मन्त्रेण तं कुवेरं आचार्य्याय दद्यात् ॥
३३ दासदानं अगम्यागमनप्रायश्चित्तञ्च कुर्य्यात् ॥
३४ एकब्राह्मणं विवाहयेत् ॥
३५ मणिरागसमन्वितां सवस्त्रां महिषीं दद्यात् ॥
३६ एकदिनमुपोष्य शतपललौहं दद्यात् ॥
३७ निष्कमितहेमनिर्म्मितप्रजापतिं वस्त्रयुग्मञ्च दद्यात् ॥
३८ ब्राह्मणाय सदक्षिणं न्यायेतिहासं दद्यात् ॥
३९ महारुद्रजपादिकं कुर्य्यात् तद्दशांशपलाशसमिद्भिर्यधाविधि जुहुयात् मृतवत्सोक्त-सर्व्वकर्म्म च कुर्य्यात् ॥
४० चान्द्रायणत्रयानन्तरं सुवर्णशतं दद्यात् ॥
४१ ब्राह्मणाय महानीलमणिद्वयं दद्यात् ॥
४२ उपवासानन्तरं पलशतशुक्तिं दद्यात् ॥
४३ अग्नौ लक्षसंख्यकपद्मैर्होमं कुर्य्यात् ॥
४४ महिषीं दद्यात् ॥
४५ प्राजापत्यद्वयं कुर्य्यात् ॥
४६ पूर्व्वतः पीतमाल्यादिभूषितपीतवस्त्रसमाच्छन्नकलसं संस्थाप्य तस्योपरि स्वर्णपात्रंनिष्कषट्कमितसुवर्णनिर्म्मितवासवं पुरुषसूक्तेन यजेत् । तत्र ऋग्यजुःसामानि समा-चरेत् ब्राह्मणं सम्पूज्य निष्पापोऽहमिति ब्रुवन् तस्मै शतसुवर्णनिर्म्मितपुत्त्रिकां दद्यात् ।“देवानामधिपो देवो वज्री विष्णुनिकेतनः । शतयज्ञः सहस्राक्षः पापं मम निकृन्ततु” ॥
इति मन्त्रं पठेत् ॥
* ॥
इति शातातपीयकर्म्मविपाके चतुर्थाध्यायोक्तस्तेयप्रायश्चित्तस्य तथा पञ्चमाध्या-योक्तागम्यागमनप्रायश्चित्तस्य च विवरणम् ॥
* ॥
पापयुक्तः--१ अनध्यायेऽध्ययनकर्त्ता …२ अस्पृशी … … …३ करवृत्तिः … … …४ कुमतिप्रदः … … …५ कुमारीगन्ता … …६ कृत्तवासाः निकृन्तनश्च …७ क्रतुनिन्दकः श्रुति-निन्दकोऽपि पाठः …८ गुरुघाती … … …९ दक्षिणाचौरः … …१० द्रोही … … …११ द्विजनिन्दाकर्त्ता … …१२ द्विजवस्त्रहृत् … …मरणविशेषविशिष्टः--१ विद्युदाहतः … …२ अस्पर्शसङ्गी मृतः … …३ वृकहतः वृषहतः …४ विषहतः … … …५ व्याघ्रादिहतः … …६ कृमिहतः … … …७ शस्त्रहतः … … …८ शय्यामृतः … … …९ दवहतः दारुहतः …१० संस्कारहीनमृतः … …११ प्रस्तरहतः … … …१२ अनपत्यमृतः … …और्द्ध्वदेहिकपूर्व्वकालीनतत्पुत्त्रादिकर्त्तव्यप्रायश्चित्तम् ।१ विद्यादानं कुर्य्यात् ॥
२ वेदपारायणं कुर्य्यात् ॥
३ यथाशक्ति काञ्चणं दद्यात् ॥
४ क्षेत्रसंयुतां मेदिनीं दद्यात् ॥
५ परकन्यां विवाहयेत् ॥
६ द्विजाय गोधूमान्नं दद्यात् ॥
७ सदक्षिणां महिषीं दद्यात् ॥
८ निष्कमितसुवर्णनिर्म्मितपात्रस्थितविष्ण्वधिष्ठिततूलीसमन्वितशय्य दद्यात् ॥
९ सदने सभां कुर्य्यात् ॥
१० कुमारं विवाहयेत् ॥
११ सवत्सां पयस्विनीं गां दद्यात् ॥
१२ नवतिं कृच्छ्राणि चरेत् ॥
पापयुक्तः--१३ निक्षेपहारकः … …१४ नृपनाशकः … … …१५ पशुहिंसकः … …१६ पाशिकः … … …१७ मत्सरी … … …१८ मद्यविक्रेता … … …१९ मित्रभेदी … … …२० मेदिनीचौरः … …२१ यज्ञहानिकर्त्ता … …२२ राजकुमारघ्नः … …२३ राजदन्तिहृत् … …२४ लौहहृत् … … …२५ विषदः … … …२६ शङ्करद्रोही … … …२७ शास्त्रहृत् … … …२८ सूचकः … … …२९ सेतुभेदी … … …३० स्वदर्पकार्य्यकारकः … …३१ हिंस्रः … … …मरणविशेषविशिष्टः--१३ कुक्कुरहतः … … …१४ गजहतः … … …१५ चौरहतः … … …१६ अरण्ये शूकरहतः …१७ शौचहीनमृतः … …१८ पतितमृतः … … …१९ वैरिहतः … … …२० भृगुपातहतः … …२१ वह्निहतः … … …२२ राजहतः … … …२३ वृक्षहतः … … …२४ अतीसारमृतः … …२५ सर्पदष्टः … … …२६ शृङ्गिहतः … … …२७ वान्तमाश्रित्य मृतः-अस्पश्यस्पर्शनमृतश्च …२८ शकटहतः … … …२९ जलहतः … … …३० साकिन्यादिहतः … …३१ उद्बन्धनमृतः … …३२ हयाहतः … … …३३ कपिहतः … … …३४ विसूचिकामृतः … …३५ कण्ठकबलमृतः … …३६ केशरोगमृतः … …और्द्ध्वदेहिकपूर्व्वकालीनपुत्त्रादिकर्त्तव्यप्रायश्चित्तम् ।१३ अत्र प्रायश्चित्तस्यानुक्तत्वात् व्याघ्रादिहत इत्यत्रादिपददर्शनाच्च तत्रोक्तप्रायश्चित्तंयुक्तम् ॥
१४ चतुर्निष्कमितहेमगजं दद्यात् ॥
१५ धेनुं दद्यात् ॥
१६ कुक्कुरहतवत् ॥
१७ द्विनिष्कस्वर्णजहरिं दद्यात् ॥
१८ षोडशप्राजापत्यानि कुर्य्यात् ॥
१९ वृषं दद्यात् ॥
२० धान्यपर्व्वतं दद्यात् ॥
२१ स्वशक्तित उपानहं दद्यात् ॥
२२ हिरण्मयपुरुषं दद्यात् ॥
२३ स्वर्णसंयुतं सौवर्णवृक्षं दद्यात् ॥
२४ संयतो लक्षसङ्ख्यकगायत्रीं जपेत् ॥
२५ नागबलिदानं काञ्चनदानञ्च कुर्य्यात् ॥
२६ वस्त्रसंयुक्तवृषभं दद्यात् ॥
२७ सच्छास्त्रपुस्तकं दद्यात् ॥
२८ उपस्करान्वितं अश्वं दद्यात् ॥
२९ निष्कत्रयमितस्वर्णवरुणं दद्यात् ॥
३० यथोचितं रुद्रं जपेत् ॥
३१ पयस्विनीं गां दद्यात् ॥
३२ निष्कत्रयमितं स्वर्णं दद्यात् ॥
३३ कनकनिर्म्मितकपिं दद्यात् ॥
३४ शतं द्विजान् भोजयेत् ॥
३५ तिलधेनुं दद्यात् ॥
३६ अष्टौ कृच्छ्रान् समाचरेत् ॥
* ॥
इति शातातपीयकर्म्मविपाके अगतीनां विशेषप्रायश्चित्तम् ॥
* ॥
अगतीनां साधारणप्रायश्चित्तम् ।सफलसप्तधान्योपरि पञ्चपल्लवसर्व्वौषधिसंयुक्तंकृष्णवस्त्रसमाच्छन्नमकालमूलं कलसं संस्थाप्य तत्रमहिषासनसंस्थितं चतुर्भुजं दण्डहस्तं स्वर्णकुण्डल-संयुतं निष्कपरिमितं प्रेतरूपिणं पुरुषं संस्थाप्यपूजयेत् । प्रत्यहं पुरुषसूक्तेन दुग्धेन तर्पयेत् तत्रकलसे षडङ्गरुद्रं जपेत् । यमसूक्तेन यमपूजादिकंआत्मविशुद्ध्यर्थं गायत्रीजपं ग्रहशान्तिपूर्व्वकदशां-शतिलहोमञ्च कुर्य्यात् । अज्ञातगोत्रविप्राय सति-लमुदकं दद्यात् ।“इमं तिलमयं पिण्डं मधुसर्पिःसमन्वितम् ।ददामि तस्मै प्रेताय यः पीडां कुरुते मम” ॥
इति मन्त्रेण मधुशर्करायुक्तप्रस्थमितकृष्णतिल-पिष्टपिण्डं प्रेतरूपाय दद्यात् । यजमानः प्रेत-मुद्दिश्य तिलपात्रसंयुतान् द्वादशकृष्णकलसान्विष्णुमुद्दिश्यैकं कलमञ्च दद्यात् । वरायुधधरःशुचिराधार्य्यः वरुणदैवतमन्त्रैः कलसोदकैर्दम्पतीअमिषिञ्चेत् । ततो यजमान आचार्य्याय दक्षिणांदद्यात नारायणबलिञ्च कुर्य्यात् ॥
* ॥
“एवं कृते विधानेन प्रकुर्य्यादौर्द्ध्वदेहिकम् ।ततः प्रेतत्वनिर्म्मुक्ताः पावितास्तर्पितास्तथा ॥
दद्युः पुत्त्रांश्च पौत्त्रांश्च आयुरारोग्यसम्पदः” ॥
इति शातातपीयकर्म्मविपाकषष्ठाध्यायोक्ता-गतिप्रायश्चित्तविवरणम् ॥
* ॥
(मार्कण्डेयोक्ताः कर्मविपाकाश्च । यथा, तत्रैव१५ अध्याये उक्ताः ।“पतितात् प्रतिगृह्यार्थं खरयोनिं व्रजेद्द्विजः ।नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः ।तज्जायां मनसा वाञ्छन् तद्द्रव्य चाप्यसंशयम् ॥
गर्द्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥
भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते ।तामेव पीडयित्वा तु कञ्छपत्वं प्रपद्यते ॥
भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते ।सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।असूयकश्च नरकात् मुक्तो भवति राक्षसः ॥
विश्वासहन्ता च नरो मीनयोनौ प्रजायते ।धान्यं यवांस्तिलान्माषान् कुलत्थान् सर्षपांश्चणान् ॥
कलायान् कलमान् मुद्गान् गोधूमानतसीस्तथा ।शस्यान्यन्यानि वा हृत्वा मोउहाज्जन्तु रचेतनः ॥
सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ।परदाराभिमर्षात्तु वृको घोरोऽभिजायते ॥
श्वा शृगालो वको गृध्रो त्याडः कङ्कस्तथा क्रमात् ।भ्रातृभार्य्याञ्च दुर्ब्बुद्धिर्योधर्षयति पापकृत् ॥
पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः ॥
सखिभार्य्यां गुरोर्भार्य्यां राजभार्य्याञ्च पापकृत् ।प्रधर्षैव हि कामात्मा शूकरो जायते नरः ॥
यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः ॥
पुनर्द्दाता च कन्याया कृमिरेवोपजायते ॥
देवता पितृविप्राणामदत्त्वा योऽन्नमश्नुते ।प्रमुक्तो नरकात् सोऽपि वायसः सम्प्रजायते ॥
ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ।नरकात् सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते ॥
शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते ॥
अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः ।कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ।मत्स्यस्तु वायसः कूर्म्मः पुक्कशो जायते ततः ॥
अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः ॥
कृमिः स्त्रीवधकर्त्ता च बालहन्ता च जायते ॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः ॥
तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् ।हृत्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः ॥
तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः ॥
घृतं हृत्वा तु नकुलः काको मद्गुरजामिषम् ॥
मत्स्यमांसापहृत् काकः श्येनो मार्गामिषापहृत् ।वीचीकाकस्त्वपहृते लवणे दधनि कृमिः ॥
चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥
यस्तु चोरयते तैलं तैलपायी स जायते ॥
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ।चोरयित्वा तु निष्पावान् जायते गृहगोलदः ॥
आसवञ्चोरयित्वा तु तित्तिरित्वमवाप्नुयात् ॥
अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ।हृते कांस्ये च हारीतः कपोतो रूप्यभाजने ।हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥
पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति ।कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते ॥
दुकूले शार्ङ्गिके पापो हृते चैवांशुके शुकः ।तथैवाजाविकं हृत्वा वस्त्रं क्षौमञ्च जायते ॥
कार्पासिके हृते क्रौञ्चो वाल्कहर्त्ता वकस्तथा ।मयूरो वर्णकान् हृत्वा शाकपत्रञ्च जायते ॥
जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ।छुछुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत् ॥
शण्डः फलापहरणात् काष्ठस्य घुणकीटकः ।पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥
शाकहर्त्ता च हारीतस्तोयहर्त्ता च चातकः ।भूहर्त्ता नरकान् गत्वा रौरवादीन् सुदारुणान्तृणगुल्मलताबल्लित्वक्सारतरुतां क्रमात् ।प्राप्य क्षीणाल्पपाप्रस्तु नरो भवति वै ततः ॥
कृमिः कीटः पतङ्गोऽथ पक्षी तोयचरो मृगः ।गोत्वं प्राप्य च चण्डालपुक्कशादि जूगुप्सितम् ।पङ्ग्वन्धो बधिरः कुष्ठी यक्ष्मणा च प्रपीडितःमुखरोगाक्षिरोगैश्च गुदरोगैश्च च बाध्यते ॥
अपस्मारी च भवति शूद्रत्वं च स गच्छति ॥
एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ।विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः ॥
जायामन्यस्य पुरुषः पारक्यां प्रतिपादयन् ।प्राप्नोति शण्डतां मूढो यातनाभ्यः परिच्युतः ॥
यः करोति नरो हीममसमिद्धे विभावसौ ।सोऽजीर्णव्याधिदुःखार्त्तो मन्दाग्निः संप्रजायते” ॥
* ॥
नानापुराणोक्तकर्म्मविपाकसंक्षेपमाह ।१ । अकिञ्चनता । यः किल प्रभूतधनवानपिधर्म्मनिन्दको देवाग्निब्राह्मणदरिद्रेभ्यः किञ्चिदपिधनं न दत्तवान् । स तु आयुषोऽवसाने मृतो यम-दूतैः प्रपीडितो लोलाख्यनरके, सर्व्ववस्तूनि पश्य-न्नपि निराशः परमं दुःखमाप्नोति । ततो जन्मा-न्तरं परिगृह्याकिञ्चनत्वमासाद्य जीर्णवस्त्रधरःबहुना क्लेशेनापि स्वजीविकां निष्पादयेत् ॥
२ । अपुत्त्रता बहुपुत्त्रता च । यस्तु गवीमुखात्भोजनीयद्रव्यं आहृत्य दूरतो विसर्जयेत् । समन्वन्तरत्रयं निर्जने घोरे मरुप्रभृतिस्थले उषित्वापुनर्जन्मान्तरं प्राप्य पुत्त्रविहीनो बहुपुत्त्रो वाभवेदिति ॥
३ । अर्शोरोगः । यः खलु पतिव्रतां धर्म्मनियतांऋतुस्नातां पत्नीं नोपगच्छेत् । यश्च आत्महाभ्रूणहा गोहन्ता च स्यात् । स मृतः गाढान्ध-तमसावृतं तामिस्राख्यं नरकं गत्वा कर्म्मक्षयम्प्राप्य जन्मान्तरेण पुनर्मानुषयोनिमभिगम्य अर्शो-रोगेणाक्रान्तो भवेदिति ॥
४ । अल्पायुःसन्तानता । यो हि तृषार्त्तांवारिपानरतां गां निवारयति । अनेनैव पापेनतस्य अल्पायुषः सन्ताना भवेयुः ॥
५ । अस्मरीरोगः । यस्तु ऋतुस्नातां स्त्रियंक्रोधादप्रीत्या वा नोपगच्छति । स मृतः पूय-शोणितसंमिश्रे नरके प्रपीडितः पुनर्मानुषत्वंप्राप्य अस्मरीरोगाक्रान्तो जायते इति ॥
६ । उन्मादरोगः । यस्तु ब्राह्मणं वैष्णवं पितरौद्विजादिकं मानार्हं नार्चयेत् परं निन्देत् समृतः पुरीषाख्ये नरके अधःशिरा नाना दुःखभाक्भवेत् । ततः कर्म्मक्षये मानुषीं तनुमुपलभ्यउन्मादरोगवान् जायते । तथा येन च ब्राह्मणेषुगुरौ च दम्भाचारः कृतः तेभ्यः स्मृतिभ्रम-कराणि द्रव्याणि च दत्तानि सोऽपि जन्मान्तरेउन्मादरोगवान् भवेदिति ॥
७ । कासः । कासस्तु पञ्चविधः । येन कर्म्मणायद्रूपो भवेत्तदुच्यते । अतिकठोरैर्मिथ्यावाक्यैर्यस्तुलोकं पीडयेत् स पित्तप्रबलकेन कासेन पीडितो भवेत् । यो हि ब्राह्मणस्थानविनष्टकारीस वातकासेन पीडितो भवेत् । यस्तु जलाशय-ध्वंसकारी स श्लेष्मकासेन पीडितः स्यात् । यो हिब्रह्म विष्णुं शिवञ्च भेदबुद्ध्या पश्यति स सन्नि-पातोत्थकासपीडितः स्यात् । यज्ञं विना पशुं हत्वातन्मांसभक्षणकारी सर्ब्बदोषोत्थकासेन गृह्यते ।यदुक्तं तन्त्रे पुराणे च, --“अयज्ञेन पशुं हत्वा भुङ्क्ते मांसन्तु यो नरः ।सर्व्वदोषोत्थकासेन गृह्यते शृणु भूपते !” ॥
८ । कुव्जत्वम् । यदुक्तं पुराणेषु ।“देवताप्रतिमां दृष्ट्वा यस्तां नैवाभिवादयेत् ।ब्राह्मणञ्च गुरुं श्रेष्ठं ब्रह्मचारितपस्विनम् ॥
श्मशाने जायते वृक्षः काकगृध्रोपसेवितः ॥
भुक्त्वा कालमशेषञ्च मानुषत्वमवाप्य सः ।कुब्जत्वमश्नुते तस्मात् कर्म्मणो मानुषं ध्रुवम्” ॥
९ । गर्भस्रावः । या काचित् नारी हिंसापर-तन्त्रा सतो सपत्न्यादीनामन्यासां स्त्रीणां दुष्टौ-षधादिभिर्दुर्म्मन्त्रैर्वा गर्भं अपत्यानि च नाशयतिसा नरकान्निर्मुक्ता पुनर्मानुषीं योनिमासाद्यपुण्यान्तरेण ऐश्वर्य्यवत्यपि गर्भस्रावदुखैः प्रपीडिताभवेत् ।१० । गलगण्डः । यः खलु मोहाद् गुरुस्त्री-कण्ठदर्शनं कृतवान् । स मृतो यमकिङ्करैः नि-र्जले प्रान्तरे देशे दिव्यवर्षायुतत्रयं पात्यते ।पुनर्जन्म समासाद्य च गलगण्डरोगाक्रान्तःसीदेत् ॥
११ । ग्रहणी । ये च धनलुब्धकाः प्रभूत-धनसंग्रहं कृत्वा न यच्छन्ति न चाश्नन्ति नकिमपि धर्म्मकार्य्यं कुर्व्वन्ति । तथा ये च परस्या-पहारिणः तथा अदुष्टामपतितां भार्य्यां ये चयौवने परित्यजन्ति ते मृताः पूरीषाख्ये नरकेकल्पकोटिशतं दग्द्धाः कर्म्मान्ते मानुषीं योनिमा-साद्य ग्रहणीरोगाक्रान्ता अवसीदेयुः ॥
१२ । छिन्ननासिकता । श्रुतिस्मृतिकथाविघ्न-कारी देवनिन्दको हि मृत्युं प्राप्य नैरृतेपश्चिमे भागे स्थितायां पिङ्गलेति नगर्य्यां पिशाचैःसह बहुकालमुषित्वा महाघोरं दुःस्वञ्च भुक्त्वाकर्म्मान्ते मानुषयोनिमासाद्य छिन्ननासिको जा-यते ॥
१३ । छिन्नहस्तता, छिन्नपादता च । यस्तुपितरौ गुरुं विनापराधतो वृद्धं वा ताडयेत् समृतो यमलोके बहूनि कष्टान्यनुभूय छिन्नहस्त-श्छिन्नपादो वा इह जायते ॥
१४ । जलोदरः । यदुक्तं पुराणेषु ।“ब्रह्मविष्णुमहेशेषु भिन्नभावं करोति यः ।गृह्यते स तु दुष्टात्मा जलोदररुजा ततः” ॥
१५ । दौर्भाग्यम् । येन च सर्व्वासु तृतीयासुवेलासु तैलस्पर्शः क्रियते स दुर्भगत्वमाप्नोतीति ॥
१६ । नेत्ररोगः । दीपहरणकर्त्ता परस्त्री-प्रेक्षकः कामतः पररतिदर्शनकारी च नेत्ररोगे-नाक्रान्तो भवेत् ॥
१७ । पक्षरोगः । यो हि सशस्त्रः सन् शस्त्र-रहितं पुरुषं हन्ति । स मूढः आयुःशेषे कृक-राख्ये निरये उषित्वा महादुःखेन पच्यते । ततोरासभयोनौ ततः क्रमशो मृगव्याघ्रयोनौ सम्भूयशस्त्रेण हन्यते । ततः सारमेयो भूत्वा मत्स्य-योनौ जायते । ततो मानुषीं योनिमासाद्यअनेनैवरोगेण पीड्यते ॥
१८ । पाण्डुरोगः । यः खलु परभार्य्यारतःपरस्त्रीरमणप्रियः स मृतो यमकिङ्करै र्बहुधा-दुःखं प्रापितः पुनः कर्म्मपाकेन मानुषीं योनि-मासाद्य पाण्डुरोगेण लिप्यते ॥
१९ । प्रदरम् । या योषित् बुभुक्षितं पतिंत्यक्त्वा पत्यनुमतिं विना पूर्व्वं भुङ्क्ते सा मृता नरकंभुक्त्वा दशवर्षाणि वायसी ततः शुकी ततोमानुषी भूत्वा श्वेतप्रदरयुक्ता भवेत् ॥
२० । नन्ध्यता । येन जलपिपासुर्वत्सः प्रति-निषिद्धः । यस्तु अदक्षिणं वतं करोति यो हिमिष्टफलादिकं प्राप्य देवायानिवेद्य भुङ्क्ते यःखलु मैथुनीभावमवलोक्य विघ्नं कुरुते ते सर्व्वेबन्ध्यत्वमाप्नुवन्तीति ॥
२१ । भगन्दररोगः । आचार्य्यभार्य्यागन्तारो-नराधमाः स्त्रीबालवृद्धधनापहारिणश्च मृत्युमधिगम्य विण्मलाख्ये नरके बहुदुःखं प्राप्प जन्मान्तरेभगन्दररोगेणाक्रान्ता भवन्ति ॥
२२ । मूत्रकृच्छ्रम् । येन मूढेन विधवागमनंमद्यपानं वा कृतम् । स मृतो नरकं प्राप्य कर्म्मान्तेशरीरनाशकारिणा अनेन रोगेणाक्रान्तो भवेत् ।२३ । मृतभार्यता । यस्तु ज्येष्ठं भ्रातरमति-क्रम्य उद्वहेत् स मृतभार्य्यो जायेत । यस्तु सप्तम्यांतैलं स्पृशति तस्य ज्येष्ठा भार्य्या विनश्यति ॥
२४ । मेहः । यदुक्तं पुराणेषु“मेहाश्च विंशतिः ख्याताः पृथक्कर्म्मप्रभावजाः ।तेषां नामान्यहं वक्ष्ये क्रमादुत्पद्यते यतः ॥
मधुमेहः सान्द्रमेहः सुराशुक्रोदकस्तथा ।इक्षुः सिकतसीधुश्च सितमेहस्तथैव च ॥
फेनः क्षीरश्च नीलश्च हारिद्रः कालसंज्ञकः ।वशारक्तश्च माञ्जिष्ठो मज्जाक्षारस्तथा गजः ॥
सद्वैद्यस्योपदेशेन ज्ञात्वा मेहान् पृथक् पृथक् ।नामानुसारतः पूर्व्वं कर्म्म ज्ञात्वा विधिञ्चरन् ।पूर्व्वं मैथुनकृद्यस्तु शौकरीयोनिमाव्रजेत् ॥
तस्यान्ते मानुषीं प्राप्प जलभेहार्द्दितो भवेत् ॥
मातृगामी बलान्मोहात् मधुमेही भवेन्नरः ।रजकीगमनाच्चैव क्षारमेही प्रजायते ॥
सतीविपर्य्ययं कृत्वा सान्द्रमेहान्वितो भवेत् ।रोगिणीगमनान्मर्त्त्यो भवेन्माञ्जिष्ठमेहवान् ॥
मित्रस्त्री धर्षिता येन स भवेच्छुक्रमेहवान् ॥
चतुष्पदाभिगमने भवेत् सिकतमेहवान् ॥
स्वर्णहर्त्ता क्षीरमेही सितमेही सुरारतः ।कालमेही भवेत्सोऽपि पुष्पवत्याश्च धर्षणात् ॥
रजस्वलायां रतिकृद्रक्तमेहार्द्दितो भवेत् ।मज्जमेहयुतः सोऽपि योऽन्त्यजागमनञ्चरन् ॥
इक्षुमेह्यतिदुर्वृत्तो विधवागतिदोषतः ।व्राह्मणीगमनाद्देही हस्तिमेहेन मेहति ॥
अक्षतागमनासक्तो हरिद्राभञ्च मेहति ॥
मातरं येऽभिगच्छन्ति भगिनीञ्चात्मनः मुताम् ॥
श्वश्रूञ्चैवाक्षतारक्तां भ्रातृभार्य्याञ्च मातुलीम् ।गुरुस्त्रीं राजपत्नीञ्च मित्रस्त्रीं वा कुटुम्बिनीम् ।मृता वैवस्वतपुरीं यान्ति भूतैः प्रपीडिताः ॥
ताड्यन्ते तत्र दुर्वृत्ता मत्तः शृणु वदामि ते ॥
अङ्गारराशौ प्रक्षिप्य तान् दहन्ति यमाज्ञया ।दूतास्तु महतीं घोरां ज्वलन्तीमायसीं शिलाम् ।खादयन्ति च तान् पश्चात् नरके च क्षिपन्ति वै ॥
नरकान्ते पुनस्तेऽपि मृताः स्युः शूकरा भृशम् ॥
शूकराः पञ्चवर्षाणि दशवर्षाणि कुक्कुराः ।पिपीलिकास्त्रयो मासा वृश्चिकाश्चाब्दमात्रकम् ।भूत्वा प्रयान्ति गोयोनौ सरुजा विफलेन्द्रियाः ॥
तत्राधर्म्मक्षयं कृत्वा ततो मानुषयोनिषु ।प्रमेहगदवन्तः स्युः प्राप्नुवन्ति मनोव्यथाम्” ॥
२५ । यक्ष्मरोगः । विप्रहन्ता न्यासापहर्त्तावृत्तिच्छेदकारी प्रजापीडको गुरुविद्रोही मूढोयक्ष्मकासाक्रान्तो भवेत् ॥
२६ । रक्तपित्तम् । अतिदुराचारी परद्रव्या-भिलाषी पितृव्यबधूगन्ता अनेनैव रोगेण पीडितोमवेत् ॥
२७ । व्येश्यात्वम् । या नारी मृते भर्त्तरिपरपत्यभिलाषिणी सा मृता यमलोके तप्तं आय-सं पुरुषमालिङ्गन्ती अतिघोरं नरकदुःखमनुभूयजन्मान्तरे वेश्या भूत्वा अशेषपुरुषैः रममाणाअशेषक्लेशमधिगच्छेत् ॥
२८ । वैधव्यम् । या खलु यौवनेनातिगर्व्वितारमणी विरूपन्त्वात्मवशगं पतिं दिवा निन्दतिरात्रौ शय्यां न भजते आज्ञप्ता च रुष्टा भवतिसा जन्मान्तरं प्राप्य वैधव्ययन्त्रणया पीडिताभवेत् ॥
२९ । श्वासकासः । श्वासकासस्तु महोर्द्ध्वच्छिन्न-तमकक्षुद्रभेदात् पञ्चधा । १ । यस्तु यज्ञमनासाद्यश्वासं निरुध्य पशुं हन्ति मोहात् तन्मांसादिकंभक्षयति स महाश्वासेन पीड्यते । २ । पुराण-कथासमये यस्तु अन्यवाक्यं वदेत् स ऊर्द्ध्वश्वासेननिगृह्यते । ३ । निषिद्धदानग्रहणात् छिन्नश्वास-युतो भवेत् । ४ । यो हि शास्त्रार्थं मृषा दूषयतिस तमकश्वासैः पीड्यते । ५ । पाकविघ्नतो हिजीवः क्षुद्रश्वासैर्गृह्यते ॥
३० । हृद्रोगः । यस्तु लोभात् द्वेषाद्वा परपीडा-प्रदायको भवेत् यस्तु प्रजानां मर्म्मव्यथां जनयेत्स मृतो दुर्वहं नरकमधिगम्य कर्म्मान्ते अति-दारुणैर्हृद्रोगैः पीडितो भवेदिति ॥
* ॥
)
वाचस्पत्यम्
Sanskritकर्म्मविपाक कर्मणोः पुण्यापुण्यकारणयोर्विपाकः विशे-षेण पच्यमानः फलविशेषः । पात० सू० भाष्याद्युक्तेजात्यायुर्भोगरूपे १ कर्मफले यथा च कर्मणां जात्यायु-र्भोगात्मकोविपाकः तथा पात० सू० भा० विवरणेषु प्रपञ्चितंयथा । “क्लेशमूलः कर्माशयोदृष्टादृष्टजन्मवेदनीयः” सू० ।“तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधप्रसवः सदृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च तत्र तीव्रसंवेगेनमन्त्रतपःसमाधिभिर्निर्वर्त्तित ईश्वरदेवतामहर्षिमहानुभावा-नामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यतेपुण्यकर्माशय इति । तथा तीव्रक्लेशेन भीतव्याधितकृप-णेषु विश्वासोपगतेषु वा महानुभावेषु कृतः पुनः पुनर-पकारः, सचापि पापकर्माशयः सद्यएव परिपच्यते ।यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेनपरिणतः तथा नाहुषोऽपि देवानामिन्द्रः सन् खकं परिणामंहित्वा तिर्य्यक्त्वेन परिणत इति । तत्र नारकाणां नास्तिदृष्टजन्मवेदनीयः कर्माशयः क्षीणक्लेशानामपि नास्त्य-दृष्टजन्मवेदनीयः कर्माशयः इति” भा० ।“स्यादेतज्जात्यायुर्भोगहेतवः पुरुषं क्लिश्नन्तः क्लेशाः कर्मा-शयश्च तथा, न त्वविद्यादयस्तत्कथमविद्यादयः क्लेशाः?इत्यत आह । क्लेशमूलः कर्म्माशय इत्यादि । क्लेशोमूलंयस्योत्पादे च कार्य्यकरणे च स तथोक्तः । एतदुक्तंभवति--अविद्यादिमूलः कर्म्माशयी जात्यायुर्भोगहेतु-रिति अविद्यादयोऽपि तद्धेतवोऽतः क्लेशा इति । व्याचष्टेतत्रेति । आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयःकर्मणामाशयः धर्माधर्मौ, कामात्काम्यकर्मप्रवृत्तौ स्वर्गादि-हेतुर्धर्मो भवति एवं लोभात् परद्रव्यापहारप्रवृत्तौनरकहेतुरधर्मः मोहादधर्मे हिंसादौ धर्मबुद्धेःप्रवर्त्तमानस्याधर्म एव नत्वस्ति मोहजीधर्स्मो, ऽस्ति तुक्रोधजोधर्मः तद्यथा ध्रुवस्य जनकापमानजन्मनःक्रोधात्तज्जिगीषयाहितेन कर्माशयेन पुण्येनान्तरीक्ष-लोकवासिनामुपरिस्थानम्, अधर्मस्तु क्रोधजो ब्रह्मब-धादिजन्मा प्रसिद्धएव भूतानाम् । तस्य द्वैविध्यमाह ।स दृष्टजन्मेति तत्र दृष्टजन्मवेदनीयमाह । तीव्रसंवेगेनेति ।यथासङ्ख्येन दृष्टान्तावाह । यथा नन्दीश्वर इति । तत्रनारकाणामिति । येन कर्माशयेन कुम्भीपाकादयोनरकभेदाः प्राप्यन्ते तत्कारिणो नारकास्तेषां नास्तिदृष्टजन्मवेदनीयः कर्माशयो नहि मनुष्यशरीरेण तत्ष-रिणामभेदेन वा सा तादृशी वत्सरसहस्रादिभिरुपभोग्यावेदना सम्भवतीति शेषं सुगमम्” वि० ।“सति मूले तद्विपाकोजात्यायुर्भोगाः” सू० ।“सत्सुक्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्ले-शमूलः । यथा तुषावनद्धाः शालितण्डुलाः अदग्ध-बीजभावाः प्ररोहणसमर्था भवन्ति नापनीततुषा दग्धवीजभावा वा तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवतिनापनीतक्लेशो न प्रसंख्यानदग्धक्लेशवीजभावोवेति । सच विपाकस्त्रिविधो जातिरायुर्भोग इति तत्रेदं विचार्य्यतेकिमेकं कर्म एकस्य जन्मनः कारणम् १ । अथैकं कर्मा-नेकं जन्माक्षिपतीति २ । द्वितीया विचारणा--किमनेकंकर्मानेकं जन्म निर्वर्त्तयति ३ । अथानेकं कर्मैकं जन्म निर्वर्त्तयतीति ४ । न तावदेकं कर्मैकस्य जन्मनः कारणम् १ कस्मात्?अनादिकालप्रचितस्यासङ्ख्येयस्यावशिष्टकर्मणः सांप्रतिकस्यच फलक्रमानियमात् अनाश्वासो लोकस्य प्रसक्तः सचानिष्टइति । नचैकं कर्मानेकस्य जन्मनः कारणम् २ । कस्मात्?अनेकेषु जन्मसु एकैकमेव कर्मानेकस्य जन्मनः कारणमित्य-वशिष्टस्य विपाककालाभावः प्रसक्तः सचाप्यनिष्ट इति ।नचानेकं कर्मानेकस्य जन्मनः कारणम् ३ । कस्मात्? अनेकंजन्म युगपन्न सम्भवतीति क्रमेण वाच्यं तथाच पूर्व्वदोषा-नुषङ्गः । तस्माज्जन्मप्रायणान्तरे कृतः पुण्यापुण्यकर्माश-यप्रचयो विचित्रःप्रधानोपसर्ज्जनभावेनावस्थितः प्रायणा-भिव्यक्तः एकप्रघट्टके मिलित्वा मरणं प्रसाध्य संमूर्च्छितएकमेव जन्म करोति ४ । तच्च जन्म तेनैव कर्मणा लब्ध-युष्कं भवति तस्मिन्नायुषि तेनैव कर्मणा भोगः संपद्यते इतिअसौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रिविपाकोऽभिधीयतइति । अतएकभविकः कर्माशयौक्तैति । दृष्टजन्मवेदनीय-स्त्वेकविपाकारम्भी भोगहेतुत्वात्, द्विविपाकारम्भी वायुर्भोग-हेतुत्वात्--नन्दीश्वरवत् नहुषवद्वेति, क्लेशकर्मविपाकानुभव-निर्मिताभिस्तु वासनाभिरनादिकालसंमूर्च्छितमिदं चित्तंचित्रीकृतमिव सर्वतोमत्स्यजालग्रान्थाभरिवाततम् इत्येताअनेकभवपूर्व्विका वासनाः । यस्त्वयं कर्माशय एष एवै-कभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनाःताश्चानादिकालीना इति यस्त्वसावेकभविकः कर्म्माशयः सनियतविपाकश्चानियतविपाकश्च तत्र दृष्टजन्मवेदनीयस्यनियतविपाकस्यैवायं नियमो नत्वदृष्टजन्मबेदनीयस्यानि-यतविपाकस्य, कस्मात्? योह्यदृष्टजन्मवेदनोयोऽनियतविपा-कस्तस्य त्रयी गतिः--कृतस्याविपक्वस्य नाशः १ प्रधानकर्म-ण्यावापगमनं २ वा नियतविपाकप्रधानकर्मणास्याभिभूतस्यवा चिरमवस्थानमिति ३ । तत्र कृतस्याविपक्वस्य नाशो १ यथाशुक्लकर्मोदयादिहैव नाशः कृष्णस्य, यत्रेदमुक्तम् “द्वेद्वेहवै कर्मणी वेदितव्ये पापकस्यैकोराशिः पुण्यकृतोऽपहन्तितदिच्छस्व कर्माणि सुकृतानि कर्त्तुमिहैव कर्म कवयोवेदयन्ते” प्रधानकर्मण्यावापगमनं २ यत्रेदमुक्तम् “स्यात्स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्शः कुशलस्य नाप-कर्षायालम्” कस्मात्? कुशलं हि मे बह्वन्यदस्ति यत्राय-मावापङ्गतः स्वर्गेष्वपकर्षमल्पं करिष्यतीति । नियतविपाक-प्रधानकर्मणाभिभूतस्य वा चिरमवस्थानम् ३ कथमिति?दृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानंमरणमभिव्यक्तिकारणमुक्तं न त्वदृष्टजन्मवेदनीयस्यानियत-विपाकस्य, यत्त्वदृष्टजन्मवेदनीयं कर्म्मानियतविप्राकं तन्नश्येत्आवापं वा गच्छेत् अभिभूतं वा चिरमप्युपासीत यावत्समानं कर्म्माभिव्यञ्जकं निमित्तमस्य विपाकाभिमुखं करो-तीति तद्बिपाकस्यैव देशकालनिमित्तानवधारणादियं कर्म्म-गतिश्चित्रा दुर्विज्ञाना चेति, नचोत्सर्गस्यापवादात् निवृत्तिरित्येकभविकः कर्म्माशयोऽनुज्ञायतैति” भा० ।“स्यादेतदविद्यासूलत्वे कर्माशयो विद्योत्पादे सत्य-विद्याविनाशात् मा नाम तस्य कर्माशयान्तरं चैषोत्, प्राक्तनकर्माशयानामनादिभवपरम्परासञ्चितानामसंख्यातानाम-नियतविपाककालानां भोगेन क्षपयितुमशक्यत्वाद-शक्योच्छेदः संसारः स्यादित्यत आह सतीति ।एतदुक्तं भवति सुखदुःखफलो हि कर्माशयस्तादर्थ्येनतन्नान्तरीयकतया जन्मायुषी अपि प्रसूते सुखदुःखेच रागद्वेषानुषक्ते तदविनिर्भागवत्तिनी तदभावे नभवतः, न चास्ति सम्भवी, न च तत्र यस्तुष्यतिवोद्विजते वा, न च तस्य सुखं दुःखं वेति । तदिय-मात्मभूमिः क्लेशसलिलावसिक्ता कर्मफलप्रसवक्षत्र-मित्यस्ति क्लेशाना फलोपजननेऽपि कर्माशयसहकारि-तेति क्लेशसमुच्छेदे सहकारिवैकल्यात् सन्नप्यनन्तोऽ-प्यनियतविपाककालोऽपि प्रसङ्ख्यानदग्धवीजभावो नफलाय कल्पत इति । उक्तमर्थं भाष्यमेव द्योतयति स-त्खिति । अत्रैव दृष्टान्तमाह--यथा तुषेति । सतुषाअपि दग्धवीजभावाः स्वेदादिभिः । दार्ष्टान्तिके योज-यति तथेति । ननु न क्लेशाः शक्या अपनेतुं, न हि सता-मपनय इत्यत आह न प्रसङ्ख्यानदग्धक्लेशवीजभावइति । विपाकस्य त्रैविध्यमाह स चेति । विपच्यते साध्यतेकर्मभिरिति विपाकः । कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वा-नेकत्वगोचरा प्रथमा विचारणा, द्वितीया तु कर्माने-कत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा । तदेवंचत्वारो विकल्पाः--तत्र प्रथमं विकल्पमपाकरोति--नतावदेकं कर्मैकस्य जन्मनः कारणम् १ । पृच्छति कस्मा-दिति । उत्तरम् अनादिकाले ऐकैकजन्मप्रचितस्य अत-एव असङ्ख्येयस्य एकैकजन्मक्षयितादेकैकस्मात् कर्मणोऽव-विष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानियमादना-श्वासो तोकस्य प्रसक्तः सचानिष्ट इति । एतदुक्तंभवति कर्मक्षयस्य विरलत्वात् तदुत्पत्तिवाहुल्याच्चान्योन्य-संपीडिताश्च कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासाःस्वविपाकं प्रतीति न फलक्रमः शक्योऽवधारयितुंप्रेक्षावतेत्यनाश्वासो पुण्यानुष्ठानं प्रति प्रसक्त इति ।द्वितीयं विकल्पं निराकरोति न च एकं कर्मानेकस्यजन्मनः कारणम् २ । पृच्छति कस्मादिति । उत्तरम् अने-कस्मिन् जन्मन्याहितमेकमेव कर्मानेकस्य जन्मलक्षणस्यविपाकस्य निमित्तमित्यवशिष्टस्य विपाककालाभावःप्रसक्तः स चाप्यनिष्ट इति कर्मवैफल्येन तदनुष्ठाना-प्रसङ्गात् । यदैकजन्मसमुच्छेद्ये कर्मण्येकम्मिन् फलक्र-मानियमादनाश्वासस्तदा कैव कथा बहुजन्मसमुच्छेद्येकर्मण्येकस्मिन्? तत्र ह्यवसराभावात् विपाककाला-भावएव साम्प्रतिकस्येति भावः । तृतीयं विकल्पंनिराकरोति--नचानेकं कर्मानेकस्य जन्मनः कारणम् ३ ।अत्र हेतुमाह तदनेकं जन्म युगपन्न सम्भवत्ययो-गिन इति क्रंमेण वाच्यं यदि हि कर्मसहस्रंयुगपज्जन्मसहस्रं प्रसुवीत तत एव कर्मसहस्रपृक्षयाद-वशिष्टस्य विपाककालः फलक्रमे नियमश्च न स्यातांनत्वस्ति जन्मनां यौगपद्यम्, एवमेव प्रथमपक्ष एवोक्तंदूषणमित्यर्थः । तदेवं पक्षत्रये निराकृते पारिशेष्यादनेकंकर्मैकस्य जन्मनः कारणमिति ४ पक्षोऽवशिष्यते तस्माज्ज-न्मेति जन्म च प्रायणञ्च जन्मप्रायणे तयोरन्तरं मध्यंतस्मिन् विचित्रः सुखदुखफलोपहारेण विचित्रः यद-त्यन्तसुद्भूतमनन्तरमेव फलं दास्यति तत् प्रधानं यत्तुकिञ्चिद्विलम्बेन, तदुपसर्ज्जनं, प्रायणं मरणं, तेनाभिव्यक्तः स्वकार्य्यारम्भणाभिमुख्यमुपनीतः एकप्रघट्टकेयुगपत्, संमूर्च्छितः जन्मादिलक्षणे कार्य्ये कर्त्तव्येएकलोलीभावमापन्नः एकमेव जन्म करोति नानेकंतच्च जन्म मनुष्यादिभावः । तेनैव कर्मणा लब्धायुष्कंकालभेद त्रियतजीवनञ्च भवति तस्मिन्नायुषि तेनैव कर्म-णा मोगः सुखदुःखसाक्षात्कारः स्वसन्धन्धितया सम्पा-द्यत इति । तस्मादमौ कर्माशयो जात्यायुर्भीगहेतुत्वात्त्रिविपाकोऽभिधाथते । औत्सर्गिकमुपसहरति--अतएकभविकः कर्माशय उक्त इति । एकोभवः एकभवःपूर्वकालेत्यादिना समासः, एकभवोऽस्यास्तीति मर्त्वथीयष्ठन् । क्वचित्पाठः ऐकभविक इति तत्रैकभवशब्दात्भवार्थे ठक्प्रत्ययः एकजन्मावच्छिन्नमस्य भवनमित्यर्थः, तदेवमौत्सर्गिकैकभविकस्य त्रिविपाकत्वमुक्त्वा दृष्टजन्म-वेदनीयस्यैहिकस्य कर्मणस्त्रिविपाकत्वं व्यवच्छिनत्ति-दृष्टेति । नन्दीश्वरस्य खल्वष्टवर्षावच्छिन्नायुषो मनुष्य-जन्मनस्तीव्रसंवेगेनाधिमात्रोपायजन्मा पुण्यभेद आयुर्भो-गहेतुत्वात् द्विविपाकः, नहुषस्य तु पार्ष्णिप्रहारविरोधिनागसा स्वेन्द्रपदप्राप्तिहेतुनैव कर्मणा आयुषोविहितत्वादपुण्यभेदोभोगमात्रहेतुः । ननु यथैकभविकःकर्माशयस्तथा किं क्लेशवासना भोगानुकूलाश्च कर्म-विपाकानुभववासनाः? तथा च मनुष्यस्तिर्य्यग्योनिमापन्नोन तत्तज्जातीयोचितं भुञ्जीतेत्यत आह--क्लेशेति ।संमूर्च्छितमेकलोलीभावगापन्नम् । धर्माधर्माभ्यां व्यवच्छेत्तुंबासनायाः स्वरूपमाह ये संस्कारा इति । औत्स-र्गिकमेकभविकत्वम्, क्वचिदपवदितुं भूमिकामारचयति-यस्त्वसाविति । तुशब्देन वासनातो व्यवच्छिनत्ति । दृष्ट-जन्मवेदनीयस्य, नियतविपाकस्यैवायमेकभविकत्वनि-यमः न त्वदृष्टजन्मवेदनीयस्य, किंभूतस्यानियतविपा-कस्येति । हेतुं पृच्छति कस्मादिति । हेतुमाह यो-हीति । एकान्तावद्गतिमाह कृतस्येति । द्वितीयामाहप्रधानेति । तृतीयामाह नियतेति । तत्र प्रथमांविभजते तत्र कृतस्येति । संन्यासिकर्मभ्योऽशुक्लाकृष्णोभ्यो-ऽन्यानि त्रीण्येव कर्माणि कृष्ण १ । शुक्ल २ । कृष्णशुक्लानि ३ ।तदिह तपःस्वाध्यायादिसाध्यः शुक्लकर्माशय उदितएवादत्तफलस्य कृष्णस्य नाशकः, अविशघाच्च शवलस्यापि कृष्णभागयोगादिति मन्तव्यं, तत्रैव भगवान् आ-म्नायसुदाहरति यत्रेदमिति--द्वेद्े ह वै कर्मणीकृष्णकृष्णशुक्ले अपहन्तीति सम्बन्धः वीप्सया भूयिष्ठतासूचिता । कस्येत्यतआह पापकस्य पुंसः कोऽसावपह-न्तीत्यतआह एकोराशिः पुण्यकृतः समूहस्य समूहिसाध्य-त्वात्, तदनेन शुक्लकर्म्माशयस्तृतीय उक्तः । एतदुक्तं भवतिईदृशो नाभायं परपीडादिरहितसाधनसाध्यः शुक्लकर्मा-शयः यदेकोऽपि सन् कृष्णान् कृष्णशुक्लांश्चात्यन्तविरोधिनःकर्म्माशयान् भूयसोऽप्यपहन्ति । तत् तस्मादिच्छस्वेति छान्द-सत्वादात्मनेपदम् । शेषं सुगमम् । अत्र च शुक्लकर्म्मोदयस्यैवस कोऽपि महिमा यत इतरेषामभावः, न तु स्वाध्यायादि-जन्मनो दुःखात्मनो विरोध्यधर्म्मः अपि तु स्वकार्यदुःख-विरोधी, न च स्वध्यायादिजन्म दुःखं तस्य कार्य्यं, तत्-कार्य्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्बलादेव तदुत्पत्तेःअनुत्पत्तौ वा कुम्भीपाकाद्यपि विधीयेत अविधाने तद-नुत्पत्तेरिति सर्व्वं चतुरस्रम् । द्वितीयां गतिं विभजतेप्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेरा-वापगमनं द्वे खलु हिंसादेः कार्य्येप्रधानाङ्गत्वेन विधाना-त्तदुपकारः, “माहिंस्यात् सर्व्वाभूतानीति” हिंसाया निषि-द्धत्वादनथश्च, तत्र प्रधानाङ्गत्वेनानुष्ठानादप्रधानतवेत्यतोन द्रागित्येव प्रधानमिरप्रेक्षा सती स्वफलमनर्थं प्रसोतुम-र्हति किन्त्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यव-तिष्ठते प्रधानसाहायकमाचरन्त्याश्च स्वकार्य्ये वीजमात्रत-यावस्थानं प्रधाने कर्म्मण्यावापगमनं, यत्रेदमुक्तम् पञ्च-शिखेन स्वल्पः सङ्करोज्योतिष्टोमादिजन्मनः प्रधानापूर्व्वस्यपशुहिंसादिजन्मनानर्थहेतुनाऽपूर्वेण, सपरिहारः शक्योहिप्रायश्चित्तेन परिहर्त्तुम्, अथ प्रमादतः प्रायश्चित्तमपिनाचरितं प्रधानकर्मविपाकसमये च विपच्येत तथापियावन्तमसाबनर्थं प्रसूते तावत् सप्रत्यवमर्षः--मृष्यन्ते हिपुण्यसम्भारोपनोतसुखसुधामहाह्रदावगाहिनः कुशलाःपापमात्रोपपादितां दुःखवह्निकणिकाम्, अतः कुशलस्यमहतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्य्याप्तः । पृच्छतिकस्मात्? उत्तरं कुशलं हि मे बह्वन्यदस्ति प्रधानकर्म-तया व्यवस्थितं दीक्षणीयादिदक्षिणान्तं यत्रायं सङ्करःस्वल्पः स्वर्गेऽप्यस्य फले सङ्कीर्णपुण्यलब्धजन्मनः स्वर्गात्सर्व्वथा दुःखेनापरामृष्टादपकर्षमल्पमल्पदुःखसम्भेदंकरिष्यतीति । तृतीयां गतिं विभजते नियतेति । बली-यस्त्व नेह प्राधान्यमभिमत नत्वङ्गितया बलीयस्त्वञ्च नियतविपाकत्वेनान्यदानवकाशत्वात्, अनियतविपाकस्य तु दुर्ब-लत्वमन्यदा सावकाशत्वात्, चिरमवस्थानं वीजभावमात्रेण, न पुनः प्रधानोपकारितया, तस्य स्वतन्त्रत्वात् । ननु प्राय-णेनैकदैव कर्माशयोऽभिव्यज्यत इत्युक्तमिदानीञ्च चिराव-स्थानमुच्यते, तत् कथं? वरं पूर्व्वेण न विरुध्यत इत्याश-यवान् पृच्छति कथमिति । उत्तरम् अदृष्टेति । जात्य-भिप्रायमेकवचनम् । तदितरस्य गातमुकामवधारयतियत्त्वदृष्टेति । शेषं सुगमम्” विवे० ।“ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्” सू० ।“ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफलाः, अपुण्यहेतुकाःदुःखफला इति यथाचेदं दु खं प्रतिकूलात्मकम् एवं विषय-सुखकालेऽपि दुःखमस्त्येव प्रतिकूलात्मकं योगिनः” भा० ।“उक्तम् क्लेशमूलत्वं कर्मणः, कर्ममूलत्वञ्च विपाकानाम् ।अथ विपाकाः कस्य मूलम्? येनामी त्यक्तव्या इत्याह तेइत्यादि । व्याचष्टे--ते जन्मायुर्भोगा इति । यद्यपिजन्मायुषोरेव ह्लादपरितापपूर्व्वभावितया तत्फलत्वंन तु भोगस्य ह्लादपरितापोदयानन्तरभाविनस्तदनुभवा-त्मनः, तथाप्यनुभाव्यतया भोग्यतया भोगफलत्वमिति मन्त-व्यम् । नन्वपुण्यहेतुका जात्यायुर्भोगाः परितापफला भवन्तुहेयाः प्रतिकूलवेदनीयत्वात्, कस्मात् पुनः पुण्यहेतुकास्त्य-ज्यन्ते सुखफला? अनुकूलबेदनीयत्वात् । नचैषां प्रत्या-त्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागमेरपा-कर्त्तुम्, न च ह्लादपरितापौ परस्पराविनाभूतो यतोह्लादेउपादीयमाने परितापोऽप्यवर्जनीयतयाऽऽपतेत् तयोर्भिन्न-हेतुकत्वात् रूपत्वात् इत्यत आह--यथा चेदमिति” विवरणम्मरणस्य यथा सर्व्वकर्म्मानभिव्यञ्जकत्व तथा शा० भा०“अपि च प्रायणमनारब्धफलस्य कर्म्मणोऽभिव्यञ्जकंप्राक् प्रायणादारब्धफलेन कर्म्मणा प्रतिबद्धस्य अभि-व्यक्त्यनुपपत्तेः । तच्चाविशेषाद्यावत् किञ्चिदनारब्धफलंतस्य सर्व्वस्याभिव्यञ्जकम्, न हि साधारणे निमित्तेनैमित्तिकमसाधारण भवितुमर्हति, नह्यविशिष्टे प्रदीप-सन्निधौ घटोऽभिव्यज्यते न पट इत्युपपद्यत इत्याशङ्क्य निराकृतं यथा-“अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽ-भिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् । आरब्धफलेनकर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेतदुपशमात्प्रायणकाले वृत्त्युद्भवो भवतीति यदुच्यत ततो वक्तव्यंयथैव हि प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्ये-तरस्य वृत्त्युद्भवानुपपत्तिरेवं प्रायणकालेऽपि विरुद्धफलस्या-नेकस्य कर्मणोयुगपत्फलारम्भासम्भवाद्बलवता प्रतिबद्धस्यदुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति । नह्यनारब्धफलत्व-सामान्ये जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन् प्रायणेयुगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुम्, प्रतिनियतफलत्वविरोधात् । नापि कस्यचित् कर्मणःप्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इति शक्यं वक्तुम्, ऐका-न्तिकफलत्वविरोधात् । न हि प्रायश्चित्तादिभिर्द्देतुभि-र्विना कर्मणामुच्छेदः सम्भाव्यते । स्मृतिरपि विरुद्ध-फलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमप्यवस्थानंदर्शयति । “कदाचित् सुकृतं कर्म कूटस्थमिह तिष्ठति ।पच्यमानस्य संसारे यावद्दुःखाद्विमुच्यते” इत्येवंजाती-यका । यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन् प्रायणे-ऽभिव्यक्तं सदेकां जातिमारभेत, ततः स्वर्गनरकतिर्य्यग्-योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ता-भावान्नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां चैकैकस्यकर्मणोऽनेकजन्मनिमित्तत्वं स्मर्य्यमाणमुपरुध्येत । न चधर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादति-रिक्तं कारणं शक्यं सम्भावयितुम् । न च दृष्टफलस्यकर्मणः कारीर्य्यादेः प्रायणमभिव्यञ्जकं सम्भवतीत्य-व्यापिकापोयं प्रायणस्याभिव्यञ्जकत्वकल्पना । प्रदीपोप-न्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः । स्थूल-सूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यम् । यथा हि--प्रदीपसमानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति न सूक्ष्मम् एवंप्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्येबलवतः कर्मणोवृत्तिमुद्भावयति न दुर्बलस्योतः । तस्मात्श्रुतिस्मृतिन्यायविरोधाढश्लिष्टोयमशेषकर्माभिव्यक्तेरभ्युप-गमः । शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्यानेसंभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः” ।एवं शुभाशुभकर्भविपाक सामान्यतो निरूपितः ।इदानीमशुभकर्मविपाकोविशेषतो निरूप्यते स चाधर्म-शब्दे १२२० पृ० उक्तोऽपि प्रपञ्चार्थमिहोच्यते-पुराणसर्वस्वे विष्णु २ अ ६ अ० पराशरमैत्रेयसंवादे ।“पराशर उवाच । ततश्च नरकान् विप्र! भुवोऽधःसलि-लस्य च । पापिनी येषु पात्यन्ते तान् शृणुष्व समाहितः ।रौरवश्चैव वेधश्च शूकरोविशसस्तथा । सहाज्वाल-स्तप्तकुम्भः शवलोऽथ विमोहनः । रुधिरान्धो वैतरणीकृमिशः कृमिभोजनः । असिपत्रवनं कृष्णोलाला-भक्ष्यश्च दारुणः । तथा पूयवहः पापोवह्निज्वालोह्यधः-शिराः । सन्दंशः कालसूत्रञ्च तमश्चावीचिरेव च ।श्वभोजनोऽथाप्रतिष्ठो ह्यवीचिश्च तथापरः । इत्याद्यायातना विप्र! घातका भृशदारुणाः । यमस्य विषयेघोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्म-रताश्च ये । कूटसाक्ष्यं तथा सम्यक्पक्षपातेन योवदेत् ।यश्चान्यदनृतं वक्ति स नरोयाति रौरवम् । भ्रूणहा गुरु-हन्ता च मित्रहा मुनिसत्तम! । यान्ति ते रौरवं वेधंयश्चोच्छ्वासनिरोधकः । सुरापोभ्रूणहा हर्त्ता सुवर्णानाञ्चशूकरे । प्रयान्ति नरके यश्चतैः संसर्गमुपैति वै । राजन्यवैश्यहा ज्व ले तथैव गुरुतल्पगः । तप्तकुम्भे स्वसृगामीहन्ति राजभटांश्चयः । माध्वीविक्रयकृद्बध्य(हत्वा)प्राणिनंकेशविक्रयी । तप्तलोहे पत्यन्त्येते यश्च भक्तं परित्यजेत् ।स्नुषां सुताञ्चाभिगामी महाज्वाले निपात्यते । अवमन्तागुरूणां योयश्चाक्रोष्टा नराधमः । वेददूषयिता यश्च वेदविक्रयिकश्चयः । अगम्यागामी यश्च स्यात्तेयान्ति शवल द्विज ।चौरोविमोहे पतति मर्य्यादादूषकस्तथा । देवद्विजपितृ-द्वेष्टा रत्नदूषयिता च यः । स याति कृमिभक्ष्येवै कृमिशेच त्वरिष्टकृत् । पितृदेवान् सुरान् यस्तु पर्य्यश्नाति नरा-धमः । लालाभक्ष्ये पतत्युग्रे शरकर्त्ता च वेधके ।करोति कर्णिनोयश्च यश्च खड्गादिकृन्नरः । प्रयान्त्येतेविशसने नरके भृशदारुणे । असत्प्रतिग्रहीता तुनरकं यात्यधोमुखम् । अयाज्ययाजकस्तद्वत्तथा नक्षत्रसूचकः । क्रूरः पूयवहञ्चैको याति मिष्टान्नभुङ्नरः ।लाक्षामांसरसानाञ्च तिलानां लवणस्य च । विक्रेताब्राह्मणो याति तमेव नरकं द्विज! । मार्जारकुक्कुटच्छाग-श्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विज-सत्तम! । रङ्गोपजीवी कैवर्त्तकुण्डाशी गरदस्तथा ।मूचीमारीषकश्चैव पर्व्वगामी च योद्विज! । अगारद हीमित्रघ्नः शाकुनिर्ग्रामयाजकः । रुधिरान्धे पतन्त्येते सोमंविक्रीणते च ये । मधुहारी ग्रामहन्ता याति वैतरणींनरः । रेतःपानादिकर्त्तारोमर्य्यादाभेदिनोहिये । तेकृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये । असिपत्रवनंयाति वनच्छेदी वृथैव यः । औरष्ट्रिको मृगव्याधोतह्निज्वाले पतन्ति वे । पात्यते द्विज! तत्रैव यश्चागारेषुबह्निदः । व्रतेषु लोपकीयश्च स्वाश्रमाद्विच्युतश्च यः ।सन्दंशयातानासध्ये पततस्तावुभावपि । दिवास्वप्ने रेतःस्कन्दा ये नरा ब्रह्मवादिनः । पुत्रैरध्यापिता ये च ते पतन्तिश्वभे जने । एते चान्ये च नरकाः शतशोऽथ सहस्रशः ।ये च दुषकृतकर्माणः पच्यन्ते यातनागताः । यथैव पापा-न्येतानि तथान्यानि सहस्रशः । भुज्यन्ते यानि पुरुषै-र्नरकान्तरगोचरैः । वर्ण्णाश्रमविरुद्धञ्च कर्म कुर्व्वन्ति येनराः । कर्मणा मनसा वाचा, निरयेषु पतन्ति ते । अधः-शिरोभिर्दृश्यन्ते नारकैर्दिवि देवताः । देवाश्चाधीमुखान्सर्व्वानधः पश्यन्ति नारकान् । स्थावराः कृमयोऽब्जाश्चपक्षिणः पशवोनराः । धार्मिकास्त्रिदशास्तद्वन्मोक्षिणश्चयथाक्रमम् । सहस्रभागः प्रथमो द्वितीयोऽनुक्रमात्ततः ।सर्व्वेष्वेते महाभागा यावन्मुक्तिसमाश्रयाः । यावन्तोजन्तवः सर्वेतावन्तो नरकौकसः । पापकृद् याति नरकंप्रायश्चित्तपराङ्मुखः” । विशेषशुभाशुभकर्मविपाकाःतत्रैव शिवधर्मोत्तरे स्कन्दोक्ताः “अथ पापैरिमे यान्तियमलोकं चतुर्विधैः । सन्त्रासजननं घारं विविधाः सर्व्वदेहिनः । गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः ।पुंस्त्रीनपुंसकैर्वृद्धैर्यातव्यं सर्व्वदेहिभिः । शुभाशुभ-फलं तत्र देहिनां प्रविचार्य्यते । चित्रगुप्तादिभिः स-भ्यैर्मध्यस्थैः समदर्शिभिः । न तेऽत्र प्राणिनः सन्तिये न यान्ति यमक्षयम् । अवश्यं हि कृतं कर्म भोक्तव्ययद् विचारितम् । तत्र ये शुभकर्माणः सौम्यचित्ता दया-न्विताः । ते नरा यान्ति सौम्येन पथा यान्ति यमाल-यम् । यः प्रदद्याद्द्विजेन्द्राणामुपानत्काष्ठपादुके । सवराश्वेन महता सुखं याति यमालयम् । छत्रदानेनगच्छन्ति पथा शुभ्रेण देहिनः । दिव्यवस्त्रपरीधाना यान्तिवस्त्रप्रदायिनः । शिविकायाः प्रदानेन सद्रथेन सुखं व्रजेत् ।शय्यासनप्रदानेन स्वपन् याति यमाश्रयम् । आरामकर्त्ताछायासु शीतलासु सुखं व्रजेत् । यान्ति पुष्कर-यानेन पुष्करारामदायिनः । देवायतनकर्त्ता च यती-नामाश्रमस्य च । अनाथपान्थकानाञ्च क्रीडन् यात्रिरथोत्तमैः । देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः ।पूज्यमाना नरा यान्ति कामिकेन यथासुखम् । द्योत-यन्तो दिशः सर्वा यान्ति दीपपदायकाः । प्रतिश्रयप्रदा-नेन सुखं याति गृहे स्वपन् । सर्वंकामसमृद्धेन पथा-गच्छन्ति गोप्रदाः । येऽन्नदानानि कुर्व्वन्ति ते तृप्तायान्ति सत्पथा । आर्त्तौषधप्रदातारः सुखं यान्तिनिरामयाः । विश्राम्यमाणा गच्छन्ति गुरुशुश्रू-षणेरताः । पादशौचप्रदानेन शीतलेन पथा व्रजेत् ।पादाभ्यङ्गञ्च यः कुर्य्यादश्वपृष्ठेन स व्रजेत् । हेमरत्न-प्रदानेन याति दुर्गादि निस्तरन् । वरानडुत्प्रदानेनवरयानेन गच्छति । अन्नपानप्रदानेन पिबन् खादंश्चगच्छति । इत्येवमादिभिर्दानैः सुखं यान्ति यमालयम् ।स्वर्गेऽपि विपुलान् भोगान् प्राप्नोति विविधान्नरः ।सर्वेषामेव दानानामन्नदानं परं स्मृतम् । सद्यः प्रीति-करं दिव्यं बलबुद्धिविवर्द्धनम् । नान्नदानसमं दानंत्रिषु लोकेषु विद्यते । अन्नाद्भवन्ति भूतानि तदभावेम्रियन्तिच । रक्तं मांसं वसा शुक्रं क्रमादन्नात् प्रवर्त्तते ।शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् । हेमरत्नाश्व-नागेन्द्रनारीस्रक्चन्दनादिभिः । समस्तैरपि संप्राप्तैर्न रमन्तेबुभुक्षिताः । गर्भस्था जायमानाश्च बालावृद्धाश्च मध्यमाः ।आहारमभिकाङ्क्षन्ति देवदानवतापसाः । क्षुधा हिसर्व्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः । तस्मादोषधिलेपेन(आहारेण) प्रतीकारः प्रकीर्त्तितः । नास्ति क्षुधासमं दुखं नास्ति रोगः क्षुधा समः । नास्त्याहारसमंसौख्यं नास्ति क्रोधसमो रिपुः । अतएव महापुण्य-मन्नदानं प्रधानतः । यतः क्षुधाग्निसन्तप्ता म्रियन्तेसर्वदेहिनः । अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः ।तस्मादन्नप्रदानेन सर्वदानफलं लभेत् । त्रैलोक्येयानि रत्नानि भोगस्त्रीवाहनानि च । अन्नपानप्रदःसर्वमिहामूत्र च तल्लभेत् । यस्यान्नपानपुष्टाङ्गः कुरुतेपुण्यसञ्चयम् । अन्नप्रदातुस्तत्रार्द्ध्वं कर्त्तुश्चार्द्धं नसंशयः । धर्मार्थकाममोक्षाणां देहः परमसाधनम् ।स्थितिस्तस्यान्नपानाभ्यामतस्तत् सर्वसाधनम् । अन्नं प्रजापतिः साक्षादन्नं विष्णुः शिवः स्वयम् । तस्मादन्नसमं दानंन भूतं न भविष्यति । त्रयाणामपि लोकानामुदकं जीवनंस्मृतम् । पवित्रममृतं दिव्य शुद्धं सर्वरसाश्रयम् । अन्न-पानाश्वगोवस्त्रभूशय्याच्छत्रमासनम् । प्रेतलोके प्रश-स्तानि दानान्यष्टौ विशेषतः । एवं दानविशेषेण धर्मरा-जपुरं नराः । यस्माद्यान्ति सुखेनैव तस्माद्दानं समाचरेत् ।ये पुनः क्रूरकर्माणः पापा दानविवर्जिताः । ते घोरेणपथा यान्ति दक्षिणेन यमालयम् । षडशीतिसहस्राणियोजनानामतीत्य वै । वैवस्वतपुरं ज्ञेयं नानारूपव्यव-स्थितम् । समीपस्थमिवाभाति नराणां शुभकर्मणाम् ।पापानामतिदूरस्थं पथा रौद्रेण गच्छताम् । तीव्रक-ण्टकयुक्तेन शर्करालिचितेन च । क्षुरधारानिभैस्ती-व्रैः पाषाणैर्निचितैस्तथा । क्वचित् पङ्केन महता सुदु-स्तारैश्च खातकैः । क्वचित् सूचीनिभैर्दन्तैः संछन्नेन पथाक्वचित् । तटप्रपातविषमैः पर्वतैर्वृक्षसङ्कुलैः । प्रत-प्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः । क्वचिद्विषमगर्त्तैश्चक्वचिल्लोष्ट्रैः सुपिच्छलैः । प्रतप्तबालुकाभिश्च तथातीक्ष्णैश्च शङ्कुभिः । अनेकशाखाविततैर्व्याप्तं वंशवनैक्वचित् । कष्टेन तमसा मार्गमनालम्बन कुत्रचित् । अ-यःशृङ्गाटकैस्तप्तैः क्वचिद्दावाग्निन पुनः । क्वचित्तप्तशि-लाभिश्च क्वचिद्व्याप्तं हिमेन च । क्वचिद्बालुकया व्याप्तमाकण्ठान्तप्रबेशया । क्वचिदुष्णाम्बुना व्याप्तं क्वचिच्च क-रीषाग्निना । क्वचित् सिंहैर्वृकैर्व्याप्तं दंशैः कीटैश्चदारुणैः । क्वचिन्महाजलौकाभिः क्वचिच्चाजगरैः पुनः ।मक्षिकाभिश्च रौद्राभिः क्वचित् सर्पविषोल्वणैः । मत्तमा-तङ्गयूथैश्च बलोन्मत्तैः प्रमाथिभिः । पन्थानमुल्लिख-द्भिश्च तीक्ष्णशृङ्गैर्महावृषैः । महाविषाणैर्महिषैरु-ष्ट्रैर्मत्तैश्च रोहकैः । डाकिनीभिश्च रौद्राभिर्विकरालैश्चराक्षसैः । व्याधिभिश्च महाघोरैः पीड्यमाना व्रजन्ति ते ।महाधूलिविमिश्रेण महाचण्डेन वायुना । महापाषाण-वर्षेण हन्यमाना निराश्रयाः । क्वचिद्विद्युत्प्रपातेनदार्य्यमाणा व्रजन्ति च । महाटङ्कौघवर्षेण भिद्यमानाश्चसर्वतः । पतद्भिर्वज्रसंघातैरुल्कापातैश्च दारुणैः । प्रतप्ता-ङ्गारवर्षेण दह्यमानारुदन्ति च । महता पांशुवर्षेण पूर्य्य-माणा रुदन्ति हि । बहुमेघरवैर्घोरैर्वित्रास्यन्ते सुहु-र्मुहुः । निशितायुधवर्षेण चूर्ण्यमानाश्च सर्वतः । महा-क्षाराम्बुधाराभिः सिच्यमाना द्रवन्ति च । महाशीतेनमरुता रूक्षेण परुषेण च । समन्ताद्धूयमानास्ते शुष्यन्तेसङ्कुचन्ति च । इत्थं रौद्रेण मार्गेण पाथेयरहितेनच । निरालम्बेन दुर्गेण निर्जनेन समन्ततः । अविश्रामेणमहता निर्गतापाश्रयेण च । तमोरूपेण कष्टेन सर्वदुः-खाश्रयेण च । नीयन्ते देहिनः सर्वे ये मूढाः पापका-रिणः । यमदूतैर्महाघोरैस्तदङ्गोत्कारिभिर्बलात् । एका-किनः पराधीना मित्रबन्धु विवर्जिताः । शोचन्तः स्वानिकर्माणि रुदन्तस्ते मुहुर्मुहुः । प्रेतीभूता विवस्त्राश्चशुष्ककण्ठौष्ठतालुकाः । कृशाङ्गाभीतभीताश्च दह्यमानाक्षुधाग्निना । बद्धाः शृङ्खलया केचिदुत्तानाः पादयो-र्नराः । आकृष्यन्ते घृष्यमाणा यमदूतैर्बलोत्कटैः । उरमा-ऽधोमुस्वाश्चान्ये कृष्यमाणाः सुदुःखिताः । केशपाशनिब-द्धाश्च समाकृष्यन्ति रज्जुना । ललाटे चासिना चान्येभिन्नाः कृष्यन्ति देहिनः । उत्तानाः कण्टकपथा क्वचिद-ङ्गारवर्त्मना । पश्चाद्बाहूरुबद्धाश्च जठरे च प्रपोडिताः ।पूरिताः शृङ्खलाभिश्च हस्तयोश्चापि कीलिताः । ग्रीवापा-शेन कृष्यन्तः प्रयान्त्यन्ये सुदुःखिताः । जिह्वाशङ्कुप्रबद्धेनाकृष्य नीयन्ति रज्जुना । कृकाट्यामर्द्धचन्द्रेणक्षिप्यमाणा यतस्ततः । शिश्ने सवृषणे बद्ध्वा नीयन्ते-ऽन्ये च रज्जुना । नासापबद्धरज्वा च समाकृष्यन्तिचापरे । भिन्नाः कपोलयोरज्वाकृष्यन्ते ते तथौष्ठ-योः । विभिन्नाश्चोदरे चान्ये तप्तशृङ्खलया नराः ।क्लिश्यन्ते कर्ण्णयोश्चान्ये भिन्नाश्च चिकुरे परे । छिन्नाग्र-पादहस्ताश्च छिन्नकर्ण्णौष्ठनासिका । संछिन्नशिश्नवृषणाश्छि-न्नभिन्नाङ्गसन्धयः । प्रतुद्यमानाः कुन्तैश्च भिद्यमानाश्चसायकैः । इतस्ततः प्रधावन्ति क्रन्दमाना निराश्रयाः ।मुद्गरैलौहदण्डैश्च हन्यमाना मुहुर्मुहुः । कर्षैश्च विविधै-र्घोरै र्ज्वलिताग्निसमप्रभैः । भिन्दीप्रालैर्विभिद्यन्ते स्रवन्तःपूयशोणितम् । कृमिजग्धाश्च नीयन्ते सक्षता विवशानराः । याचमानाश्च सलिलमन्नञ्चापि बुभुक्षिताः ।छायां प्रार्थयमानाश्च शीतार्त्ता अनलं पुनः । दान-हीना प्रयान्त्येवं याचलो विसुखा नराः । गृहीतदा-नपाथेयाः सुखं यान्ति यमालयम् । एवं प्रयान्तिकष्टेन प्राप्ताः प्रेतपुरं तदा । प्रज्ञापितास्तदा दूतैर्निवेश्यन्तेयमाग्रतः । तत्र ये शुभकर्षाणस्तांस्तु सम्मानयेद्यमः ।स्वागतासनदानेन प्राद्यार्घ्येण प्रियेण च । धन्या यूयंमहात्मानः स्वात्मनोहितकारिणः । येन दिव्यसुखार्थायभवद्भिः सुकृतं कृतम् । इदं विमानमारुह्य दिव्यस्त्री-भोगभूषितम् । स्वर्गं गच्छध्वमतुलं सर्वकामसमन्विताः ।तत्र भुक्त्वा महाभोगांस्तदन्ते पुण्यसंक्षयात् । यत्कि-ञ्चिदल्पमशुभं पुनस्तदिह भोक्ष्यथ । ते चापि धर्मराजानंनराः पुण्यानुभावतः । पश्यन्ति सौम्यवदनं पितृभूतमि-वात्मनः । ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम् ।पापाबष्टब्धनयना विपरीतात्मवुद्धयः । दंष्ट्राकरालवदनंभृकुटीकुटिलेक्षणम् । ऊर्द्ध्वकेशं महाश्मश्रुं प्रस्फुर-दधरोत्तरम् । अष्टादशभुजं क्रुद्धं नीलाञ्जनचयप्रभम् । सर्वायुधोद्यतकरं यमदण्डेन तर्जिनम् । महा-महिषमारूढं दीप्ताग्निसमलोचनम् । रक्तमाल्याम्बर-धरं महामेरुमिवोच्छ्रितम् । प्रलयाम्बुदनिर्घोषं पिबन्तमिव सागरम् । ग्रसन्तमिव त्रैलोक्यमुद्गिरन्तमिवानलम् ।मृत्युश्च तत्समीपस्थः कालानलसमप्रभः । कालश्चा-ञ्जनसङ्काशः कृतान्तश्च भयानकः । मारी चोग्रा महामारीकालरात्री च दारुणा । विविधाः व्याधयः कष्टा नानारूपा भयावहाः । शक्तिशूलाङ्कुशकराः पाशचक्रासिधा-रिणः । चक्रदण्डधरा रौद्राः क्षुरतूणधनुर्द्धराः । असं-ख्याता महावोर्य्याः क्रूराञ्जनसमप्रभाः । सर्वायुधोद्यत-करा यमदूता भयानकाः । अनेन परिवारेण महाघोरेणसंवृतम् । यमं पश्यन्ति पापिष्ठाश्चित्ततप्तञ्च भीषणम् ।निर्भत्सयति चार्यर्थं यमस्तान् पापकर्मिणः । चित्रगुप्तश्चभगवान् धर्मवाक्यैः प्रबोधयेत् । भो भो दुष्कृत-कर्माणः! परद्रव्यापहारिणः । गर्विता रूपवीर्येणपरदारविमर्द्दकाः! । यत् स्वय क्रियते कर्म तत्स्वयंभुञ्जते जनाः । तत् किमात्मापघातार्थं भवद्भिर्दुष्कृतंकृतम्? । इदानीं किं प्रतप्यध्वं? पीड्यमानाः स्वकर्मभिः ।भुञ्जध्वं स्वानिकर्माणि नात्र दोषोऽस्ति कस्यचित् । एते तेपृथिवीपालाः संप्राप्तामत्समोपतः । स्वकीयैः कर्मभिर्घोरैःर्दुष्प्रज्ञाबलदर्पिताः । भोभोनृपा! दुराचाराः! प्रजा-विध्वंसकारिणः! । अल्पकालस्य राज्यस्य कृते किंदुष्कृतं कृतम्? । राज्यलोभेन मोहेन बलादन्यायतःप्रजाः । विध्वंसिताः फलं तस्य भुञ्जध्वमधुना नृपाः ।क्व तद्राज्यं कलत्रञ्च यदर्थमशुभं कृतम् । तत् सर्व्वंसंपरित्यज्य यूयमेकाकिनः स्थिताः । पश्यामस्तद्बलंवोनो येन तद्दण्डिताः प्रजाः । यमदूतैस्ताड्यमानाअधुना कीदृशं भवेत् । एवं बहुविधैर्वाक्यैरुपालब्धाय-मेन ते । शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्तिपार्थिंवाः । इति धर्मं समादिश्य नृपाणां धर्मराट्पुनः । तत्पापपङ्कशुद्ध्यर्थमिदं वचनमब्रवीत् । भोभो-श्चण्डा महाचण्डा गृहीत्वा नृपतीनिमान् । विशो-धयध्वं पापेभ्यः क्रमेण नरकाग्निना । ततः शीघ्रंसमुत्थाय नृपान् संगृह्य पादयोः । भ्रामयित्वातिवे-गेन निक्षिप्योर्द्ध्वं प्रगृह्य च । सर्व्वप्राणेन महता प्रत-प्तेऽथ शिलातले । आस्फालयन्ति तरसा वज्रेणेव महा-द्रुमम् । ततः स राजदेहान्तःप्रविष्टो जर्ज्जरीकृतः ।निःसंङ्गः स तदा देही निश्चेष्टश्च प्रजायते । ततः स वायु-ना स्पृष्टः शनैरुज्जीवते पुनः । ततः पापविशुद्ध्यर्थंक्षिप्यते नरकार्णवे । अष्टाविंशतिरेवाधः क्षितेर्नरककोटयःसप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः । घोराऽथप्रथमा कोटिः सुघोरा तदधःस्थिता । अतिघोरातृतोया च घोरघोरा चतुर्थिका । पञ्चमी घोररूपाच कोटिरेका प्रकीर्त्तिताः । षष्टी तरलभावाख्या सप्तमीच भयानका” इत्युपक्रम्य “कराला विकराला चवज्रविंशतिमा स्मृता । त्रिकीणा पञ्चकोणा च सुदीर्घाप्रतिवर्त्तुला । सप्तभौमाष्टभौमा च दीप्तमायेतिचाष्टमी । एता नाम्ना समुद्दिष्टा घोरा नरककोटयः ।अष्टाविंशतिरेवैताः पापानां यातनात्मकाः । आसां-क्रमेण विज्ञेयाः पञ्चपञ्चैव नायकाः । प्रत्येकं सर्व-कोटीनां नामतस्तन्निबोधत । रौरवः प्रथमस्तेषांरुदन्ति यत्र देहिनः । महारौरवपीडाभिर्महान्तोऽपिरुदन्ति हि । तमः शीतं तथाचोष्णं पञ्चान्ये ना-यकाः स्मृताः । सुघोषः सुतलस्तीक्ष्णः पद्मः सञ्जीवनःशठः । महामायी विलोमश्च सुलोमश्च कटङ्कटः । ती-व्रवेगः करालश्च विकरालः सुकम्पनः । महापद्मःसुवक्रश्च कालसूत्रः प्रगर्जनः । सूचीमुखः सुनेमिश्चखादकः सुप्रपीडितः । कुम्भीपाकः सुपाकश्च क्रकचश्चातिदारुणः । अङ्गारराशिभवनमसृक्पूयह्रदन्तथा । तीक्ष्णा-यसन्तु शकुनिर्महासंवर्त्तकः क्रतुः । तप्तजन्तुः पङ्क-लेपः पूतिमांसोद्रवद्वपुः । उच्छ्वासश्च निरुच्छ्वासः सु-दीर्घः कूटशाल्मलिः । अरिष्टः सुमहानादः प्रवहोऽ-सृक्प्रवाहणः । झषमेषवृकशल्यसिंहव्याघ्रगजाननाः ।श्वशूकराश्वमहिषवृषखडिगखराननाः । ग्राहकुम्भीर-नक्रास्याः सर्पकूर्माश्च वायसाः । गृध्रोलूकजलौकाश्चशार्दूलकपिकर्कटाः । गण्डकः पूतिवक्त्रश्च रक्ताक्षःपूतिमूर्त्तिकः । कणधूमस्तथाग्निश्च कृमीणां निचयस्तथा ।अभेद्यश्चाप्रतिष्ठश्च रुधिरान्धः श्वभोजनः । लाला-भक्ष्यश्चात्मभक्ष्यः सर्व्वभक्ष्यः सुदारुणः । सङ्कटः सुबि-लश्चैव विषमः कटपूत्रनः । अम्बरीषः कटाहश्च कष्टावैतरणी नदी । सुतप्तलोहशयनमेकपादप्रपूरणः ।असितालवनं घोरमस्थिभङ्गः प्रपोडनः । तिलातमीसमुद्गौ च कूटपापः प्रमर्द्दनः । महाचूर्णं सुचूर्णञ्चतप्तलोहमयी शिला । पर्व्वतः क्षुरधाराख्यस्तथा यमलपर्व्वतौ । मूत्रविष्ठान्धकूपश्च क्षारकूपश्च शोषणः । मुस-लोदूखलं यन्त्रं शिलाशकटलाञ्छनम् । तालपत्रासिग-हन महामसकमण्डलम् । सम्मोहनोऽङ्गभङ्गश्च तप्तशूल-मयोगुडः । बहुदुःखं महादुःखं कश्मलं समलं मतम् । हालाहलो विरूपश्च सुरूपश्च यमानुगः ।एकपादोद्विपादश्च तीव्रश्चावीचिवर्त्तिनः । अष्टाविंशतिरित्येते क्रमशः पारकार्त्तताः । एषां नामानुपू-र्व्येण पञ्चपञ्चैव नायकाः । रौरवादि अवीच्यन्तंनरकाणां शतं स्मृतम् । चत्वारिंशत्समधिकं महानरकमण्डलम् । एषु पापाः विपच्यन्ते नराः कर्मानुरूपतः । यातनाभिर्विचित्राभिरा कर्मप्रक्षयाद्भृशम् ।आ मलप्रक्षयात् यद्वदग्नौ ध्मास्यन्ति धातवः । तथाऽऽ-पापक्षयात् पापाः शोष्यन्ते नरकाग्निषु । हस्तयोः पाद-योर्बद्धा तप्तशृङ्खलया नराः । महावृक्षाग्रमारोप्य ल-म्ब्यन्ते यमकिङ्करैः । ततस्ते सर्व्वयत्नेन क्षिप्त्वा दोल्यन्तिकिङ्करैः । दोल्यन्तश्चातिवेगेन निःसंज्ञा यान्ति योजनम् ।अन्तरीक्षस्थितानाञ्च लोहभारः समन्ततः । पादयो-र्बध्यते तेषां यमदूतै र्महाबलैः । तेन भारेण महताभृशमात्रेण दुःखिताः । ध्यायन्तः स्वानि कर्माणि तुष्णींतिष्ठन्ति निश्चलाः । कशाभिरग्निवर्णाभिर्लौहदण्डैःसकण्टकैः । हन्यन्ते किङ्करै र्घोरैः समन्तात्पापकारिणः ।ततः क्षारेण दीप्तेन वह्निनापि विशेषतः । समन्ततःप्रलिप्यन्ते क्षताङ्गा जर्जरीकृताः । पुनर्विदार्य्य चाङ्गेषुशिरसः प्रभृति क्रमात् । वार्त्ताकुवत् प्रभज्यन्ते तप्ततैल-कटाहके । विष्ठापूर्णेततः कूपे कृमीणां निचये तथा ।मेदोऽसृक्पूयपूर्णायां वाप्यां क्षिप्यन्ति ते पुनः ।भक्ष्यन्ते कृमिभिस्तीक्ष्णैर्लौहतुण्डैश्च वायसैः । श्वभि-र्दंशैर्वृर्कर्व्याधैर्व्याघ्रैश्च विकृताननैः । पच्यन्ते मांस-वच्चापि प्रतप्ताङ्गारराशिषु । भिन्नाः शृङ्गेषु तीक्ष्णेषुनराः पापेन कर्मणा । तैलपीडैरिवाक्रम्य घोरकर्म-भिरात्मजैः । तिलवत् संप्रपीड्यन्ते चक्राख्ये नरके नराः ।तुद्यन्ते चातितप्तेषु लौहभाण्डेष्वनेकधा । तैलपूर्णंकटा-हेषु सुतप्तेषु तथा पुनः । बहुशः पाठ्यते जिह्वायेऽसत्याप्रियवादिनः । सन्दंशेन सुदीप्तेन प्रपीडो-रुश्च पादतः । मिथ्यागमप्रवक्तुश्च जिह्वार्द्धमास्यनि-र्गतात् । जिह्वार्द्धात् क्रोशविस्तार्णाच्छल्यैस्तीक्ष्णैश्च पा-ट्यते । निर्भत्सयन्ति ये क्रूरा मातरं पितरं गुरुम् ।तेषां वज्रजलौकाभिमुखमापूर्य्य सीव्यते । ततः क्षा-रेण दीप्तेन ताम्रेण त्रपुणा पुनः । द्रुतेनापूर्य्यतेऽत्यर्थं तप्ततैलैश्च तन्मुखम् । इतस्ततः पुनर्वक्त्रं भृश-मापूर्य्य हन्यते । विष्ठाभिः कृमिमिश्राभिः सोपानच्चरणै-र्नरैः । परिष्वजन्ति चात्युग्रं प्रदोप्तं लौहशाल्मलिम् ।हन्यन्ते पृष्ठदेशे च पुनर्भीमैर्महानखैः । दन्तुरेणातिकृष्णेन क्रकचेन बलीयसा । शिरःप्रभृति पूर्य्यन्तेघोरैः कर्मभिरात्मजैः । खाद्यन्ते च स्वमांसानि पा-य्यन्ते शोणितं स्वकम । अन्नपानं न दत्तं यैर्यैर्मूढै-र्नानुमोदितम् । इक्षुवत् संप्रपीड्यन्ते जजरीकृत्य मुद्गरैः ।असितालवनैर्घोर्सश्छेद्यन्ते खण्डखण्डशः । सूचीभि-र्भिन्नसर्व्वाङ्गास्तप्तशूलाग्ररोपिताः । सञ्चाल्यमाना-विवशाः क्लिश्यन्ते न म्रियन्ति च । देहादुत्पाट्यते-मांस भिद्यन्तेऽस्थोनि मुद्गरैः । अतीवाकृष्यते तूर्णं यमदू-तैर्वलोत्कटैः । निरुच्छ्वासे निरुच्छासास्तिष्ठन्ति नरकेचिरम् । उच्छ्वसन्तः सदोच्छासे बालुकावदनावृताः ।रौरवे रोदमानाश्च पीड्यन्ते विविधैर्बधैः । महारौरव-पीडाभिर्महान्तोऽपि रुदन्तिहि । पद्भ्यामास्ये गुदे चाक्ष्णोःपदे चोरसि मस्तके । निखन्यन्ते घनास्तीक्ष्णाः सुतप्तालोहशङ्कवः । सुतप्तबालुकायाञ्च प्रपोड्यन्ते मुहुर्मुहुः ।जातुपङ्के भृशं तप्ते क्षिप्ताः क्रन्दन्ति विस्वरम् । तेनतेनैव रूपेण हसन्तीं परदारिकाम् । गाढमालिङ्ग्यते नारींज्वलन्तीं लोहनिर्मिताम् । पूर्व्वाकाराश्च पुरुषाः प्रज्व-लन्तः समन्ततः । दुश्चारिणीं स्त्रियं गाढमालि-ङ्गन्तो वदन्ति च । किं प्रधावसि वेगेन न ते मोक्षोऽस्तिसाम्प्रतम् । लङ्घितस्ते यथा भर्त्ता पापं भुङ्क्ष्व तथाऽ-धुना । लौहकुम्भे तथा क्षिप्त्वा सुपिधानैः शनः शनैः ।मृद्वग्निना प्रपच्यन्ते श्वपाकैरिव मानवाः । क्षोदन्त्यू-दूखले सास्राः प्रकृष्यन्ते शिलासु च । क्षिप्यन्ते चान्ध-कूपेषु दश्यन्ते, कृमिभिर्भृशम् । कृमिभिर्भिन्नसर्व्वाङ्गाः शतशोजर्जरीकृताः । सुतीक्ष्णक्षारकूपेषु क्षिप्यन्ते तदनन्तरम् ।महाज्वाले च नरके पापाः फुत्कारयन्ति च । इतस्ततश्चधावन्ति दह्यमानास्तदर्चिषा । पृष्ठे चानीय जङ्घे द्वे वि-न्यस्ते करयोः स्थिते । तयोर्मध्येन चाकृष्य बाहुपृ-ष्ठेन गाढतः । बद्ध्वा परस्परं सर्व्वं सुदृढं गाढ-रज्जुभिः । पिण्डबन्धं दशन्त्येवं भ्रमरास्तीक्ष्णलो-हजाः । मानिनां क्रोधिनाञ्चैव तस्कराणाञ्च दारुणा ।पिण्डबन्धसमा याम्या महाज्वाले च यातना ।रज्जुभिर्वेष्टिताङ्गाश्च प्रलिप्ताः कर्दमेन च । करीष-तुषवह्नौ च पच्यन्ते च म्रियन्ति च । सूतीक्ष्णधारतो-येन कर्कशासु शिलासु च । आ पापसंक्षयात् पापाघृष्यन्ते चन्दनं यथा । शरीराभ्यन्तरगतैः प्रभूतैः कृ-मिभिर्नराः । मक्ष्यन्ते तीक्ष्णवदनैरा देहप्रक्षयाद्भृशम् ।कृमीणां निचये क्षिप्ताः पूतिमांसस्य राशिषु । तिष्ठन्त्युद्विग्नहृदयाः पर्व्वताभ्याञ्च पीडिताः । सुतप्त-वज्रलेपेन शरीरमनुलिप्यते । अधोमुखोर्द्ध्वपादश्च धूताःकृष्यन्ति वह्निना । वदनान्तःप्रविन्यस्तं सुप्रतप्तमयो-गुडम् । ते खाद्यन्ते पराधीना हन्यमानास्तु मुद्गरैः ।ये शिवायतनारामवापीकूपमठाङ्गणान् । विद्रवायन्तिपापिष्ठा नृपास्तत्र वसन्ति च । व्यायामोद्वर्त्तनाभ्यङ्गस्नान-मापानभोजनम् । क्रोडनं द्यूतमिथुनमाचरन्ति वसन्तिच । ते बधैर्विविधैर्घोरैरिक्षुयन्त्रादिपीडनैः । निर-यार्निषु पच्यन्ते यावदाचन्द्रतारकम् । ये शृण्वन्तिगुरोर्निन्दां तेषां कर्णौ प्रपूर्य्यतः । अग्निवर्णैरयःफालैस्तप्तताम्रादिभिः स्रुतैः । त्रपुसीसारकूटाद्यैः क्षारेणजतुना पुनः । सुतप्ततीक्ष्णतैलेन वज्रलेपेन चान्ततः ।क्रमादापूर्य्यतः कर्णौ नरकेषु च यातनाः । अनुक्रमेणसर्व्वेषु भवन्त्येते समन्ततः । सर्व्वेन्द्रियाणामप्येवंक्रमात् पापेन यातनाः । भवन्ति घोराः प्रत्येकं शरी-रेण कृतेन च । स्पर्शलोभेन ये मूढाः संस्पृशन्ति पर-स्त्रियम् । तेषां त्वग्वह्निवर्णाभिः सूचीभिः पूर्य्यते-भृशम् । ततः क्षारादिभिः सर्वैः शरीरमनुलिप्यते ।यातनाश्च महाकष्टाः सर्व्वेषु नरकेषु च । गुरौकुर्व्वन्ति भृकुटीं क्रूरनेत्राश्च ये नराः । परदारांश्च पश्यन्तिलुब्धाः स्निग्धेन चेतसा । सूचीभिरग्निवर्णाभिस्तेषांनेत्रे प्रपूर्य्यतः । क्षाराद्यैश्च क्रमात् सर्व्वैर्देहे सर्व्वाश्चयातनाः । देवाग्निगुरुविप्राणामनिवेद्य च भुञ्जतः ।लौहकीलशतैस्तप्तैस्तज्जिह्वास्य प्रपूर्य्यते । ततःक्षारेण दीप्तेन तैलताम्रादिभिः क्रमात् । शरीरेषुमहाघोराश्चित्रा नरकयातनाः । ये शिवारामपुष्पाणिलोभात् संगृह्य पाणिना । जिघ्रन्ति मूढमनसः शिर-सा धारयन्ति वा । आपूर्य्य च शिरस्तेषां सुतप्तैर्लोहशङ्कुभिः । नासिका चातिबहुशस्ततः क्षारादिभिःपुनः । ये निन्दन्ति महात्मानमाराध्यं धर्म्मदेशकम् ।शिवभक्तांश्च ये मूढाः शिवधर्म्मञ्च शाश्वतम् । तेषा-मुरसि कण्ठे च जिह्वायां दन्तसन्धिषु । तालुन्योष्ठेच नासायां मूर्द्ध्नि सर्व्वाङ्गसन्धिषु । अग्निवर्णाः सुत-प्ताश्च त्रिशिखा लोहशङ्कवः । आपोथ्यन्ते सुबहुशःस्थानेष्वेतेषु मुद्गरैः । ततः क्षारेण तप्तेन ताम्रेणत्रपुणा पुनः । तप्ततैलादिभिः सर्व्वैरापूर्य्यन्ते समन्ततः ।यातना च महाचित्रा शरीरस्यापि सर्व्वतः । निःशेषं नर-केष्वेवं भवन्ति क्रमशः पुनः । ये गृह्णन्ति परद्रव्यंपद्भ्यां विप्रं स्पृशन्ति च । शिवोपकरणं गाञ्च ज्ञानञ्चलिखितं क्वचित् । हस्तपादौ घनौ तेषामाचूर्ण्यन्तेसमन्ततः । क्षारताम्रादिभिस्तप्तैस्तदन्ते बहुशः पुनः ।मरकेष, च सर्व्वेषु विचित्रा देहयातनाः । भवन्तिबहुशः कष्टाः पाणिपादसमुद्भवाः । शिवायतनपर्य्यन्तेशिवारामेषु कुत्रचित् । समुत्सूजन्ति ये पापाःपुरीषं मूत्रमेव वा । तेषां शिश्नं सवृषणं चूर्ण्यतेलौहमुद्गरैः । सूचीभिरग्निवर्णाभिस्ततश्चापूर्य्यते पुनः ।लोहदण्डश्च सुमहानग्निवर्णः सकण्टकः । आपोथ्यतेगुदे तेषां यावन्मूद्ध्नि विनिर्गतः । ततः क्षारेण महताताम्रेण त्रपुणा पुनः । द्रुतेनापूर्य्यते गाढं गुदं शिश्नञ्चदेहिनाम् । मनः सर्व्वेन्द्रियाणाञ्च यस्मादुक्तं प्रव-र्त्तकम् । तस्मादिन्द्रियदुःखेन जायते तत् सुदुःखितम् ।धने सत्यपि ये दानं न प्रयच्छन्ति तृष्णया । अतिथिञ्चाव-मन्यन्ते कालप्राप्तं गृहाश्रमे । तेनैते वीरणैरज्वाहस्तयोश्चापि ताडिताः । प्रसारिताङ्गाः शुष्यन्तस्तिष्ठन्त्यव्द-शतं नराः । हस्तपादललाटेषु कीलिता लौहशङ्कुभिः ।नित्यञ्च विवृतं वक्त्रं कीलकत्रयताडितम् । कृमिभिःप्राणिभिश्चोग्रैर्लौहदण्डैश्च वायसैः । उपद्रवैर्बहुविधैर्मुख-मन्वः प्रपीड्यते । जिह्वावेधनिबद्धाश्च संपीड्यन्ते भृशंपुनः । तिष्ठन्ति लम्बमानाश्च लोहभाराः सुवर्त्तुलाः ।शिश्ने सवृषणे तद्वत् लोहभारद्वयं पुनः । तिष्ठते लम्बमानञ्चबाहुभ्याञ्च चतुर्गुणम् । ततः स्वमांसमुत्कृत्य तिलमात्र-प्रमाणतः । खादितुं दीयते तेषां सूच्यग्रेण तु शोणितम् ।यदा निर्मांसतां प्राप्ताः कालेन बहुला नराः । ततःक्षारेण दीप्तेन तच्छरीरं विलिप्यते । क्लिद्यन्ते वर्षधाराभिःक्लिश्यन्ते वै पुनः पुनः । शुष्काः सिच्यन्ति तैलेन सुतप्तेनसमन्ततः । पच्यन्ति भूयो भूयोऽपि दूरस्थेन शर्नः शनैः ।निःशेषयातनाभिश्च पीड्यन्ते क्रमशः पुनः । भृशं बुभु-क्षया पीड कष्टा चातिपिपासया । अत्युष्णेनातिशीतेनपापानां स्मरणेन च । एवमाद्या महाघोरा यातनाःपापाकर्मिणाम् । एकैकनरके ज्ञेयाः शतशोऽथ सहस्रशः ।प्रत्येकं यातनाश्चित्राः सर्वेषु नरकेषु च । कष्टा वर्षशते-नापि सर्वा वक्तुं न शक्यते । इति तैर्विविधैर्घोरैः पाट्य-मानाः सकर्मभिः । म्रियन्ते नैव पापिष्ठा यावत् पापस्यन क्षयः । तत्रान्या यातनाः कष्टा विविधाः पापकारि-णाम् । महाघोरातिघोराश्च कल्पाग्निसदृशोपमाः ।श्रुत्वैव यातनास्तूर्ण्णं म्रियन्ते मृदुचेतसः । ततस्ते-नात्र कथिताः पापा द्रक्ष्यन्ति याः स्वयम् । पुत्रमित्र-कलत्रार्थं यदपुण्यं त्वया कृतम् । एकाकी दह्यसे तेननात्र पश्यसि बान्धवान् । आत्मनैव कृतं पापं भोक्तव्यंध्रुवमात्मना । तत् किमात्मोपघातार्थं मूढ! पापं कृतंत्वया । एवं दूतैरुपालब्धास्तान् पृच्छन्ति ततः पुनः ।कियन्तं केन पापेन कालमत्रासते नराः । देवद्रव्य-विनाशेन गुरुद्रोहादिकर्मभिः । क्रमात् सर्व्वेषु पच्यन्तेनरकेष्वा महीक्षयात् । महापातकिनश्चापि सर्वेषु नरके-ष्विह । आचन्द्रतारकं यावत् पीड्यन्ते विविधैर्बधैः ।महापातकिनः सर्वे निरयार्णवकोटिषु । चतुर्दशमन्वन्तर-कल्पान्तं विविधैर्बधैः । उपपातकिनश्चापि तदर्द्धं यान्तिमानवाः । पापशेषैस्तदर्द्धञ्च कालञ्चापि तथाविधम् ।तस्मात् पापं न कुर्व्वीत चञ्चले जीविते सति । पापेनहि ध्रुवं यान्ति नरकेषु नराः स्वयम् । यः करोतिनरः पापं तस्यात्मा ध्रुवमप्रियः । पापस्य हि फलं दुःखंतद्भोक्तव्यमिहात्मना । कथं ते पापनिरता नरा रात्रिषुशेरते । मन्वन्तरान्तं तेषां च नरके तीव्रयातनाः । एवंक्लिष्टाः विशुद्धाश्च सावशेषेण कर्मणा । ततः क्षितिंसमासाद्य पुनर्जायन्ति देहिनः । स्थावरा विविधाकारा-स्तृणगुल्मादिभेदतः । तत्रानुभूय दुःखानि जायन्ते कीट-योनिषु । निष्क्रान्ताः कीटयोनिभ्यस्ततो जायन्तिपक्षिणः । संक्षिप्ताः पक्षिभावेन भवन्ति तृणजातिषु ।मार्गदुःखमतिक्रम्य जायन्ते पशुयोनिषु । क्रमाद्गोयोनि-मासाद्य पुनर्जायन्ति मानुषाः । एवं योनिषु सर्वासुप्ररिभ्रम्य क्रमेण तु । कालान्तरवशाद् यान्ति मानुष्यमतिदुर्लभम् । व्युत्क्रमेणापि मानुष्यं प्राप्यते पुण्यगौर-वात् । विचित्रा गतयः प्रोक्ताः कर्मणां गुरुलाघवात् ।मानुष्यं यः समासाद्य स्वर्गमोक्षप्रसाधकम् । द्वयोर्न साधये-देकं स मृतस्तप्यते चिरम् । देवासुराणां सर्वेषां मानुष्य-मतिदुर्लभम् । तत् संप्राप्य तथा कुर्य्यान्न गच्छेन्नरकं यथा ।स्वर्गापवर्गलाभाय यदि नास्ति समुद्यमः । सर्वस्य मूलमानुष्यं तद्यत्नादनुपालय । धर्ममूलेन मानुष्यं लब्ध्वासर्वार्थसाधकम् । यदि लाभे न यत्नस्ते मूलं रक्षस्वयत्नतः । मानुषत्वे च विप्रत्व यदि प्राप्नोति दुर्लभम् ।न करोत्यात्मनः श्रेयः कोऽन्योऽस्मादस्त्यचेतनः । सर्वेषा-मेव देशानामयं देशः परः स्मृतः । इतः स्वर्गश्चमोक्षश्च यतः संप्राप्यते नरैः । देशेऽस्मिन् भारते पुण्यंप्राप्य मानुष्यसम्भवम् । यः कुर्य्यान्नात्मनः श्रेयस्तेनात्मावञ्चितश्चिरम् । भोगभूमिः स्मृतः स्वर्गः कर्मभूमिरयम्मता । इह यत् क्रियते कर्म स्वर्गे तदुपभुञ्जते । यावत्सुस्थशरीरस्त्व तावद्धर्मं समाचर । असुस्थीनोदितोऽ-प्यन्यैर्न किञ्चित् कर्त्तुमुत्सहः । अध्रुवेण शरीरेण ध्रुवंयोन प्रसाधयेत् । ध्रुवं तस्य परिभ्रष्टमध्रुवं नष्टमेव हि ।आयुषः खण्डखण्डानि निपतन्ति तवाग्रतः । अहोरात्राप-देशेन किमर्थं नावबुध्यसे । यदा न ज्ञायते मृत्युः कदा कस्यभविष्यति । आकस्मिके हि मरणे धृतिं विन्देत कस्तदा ।परित्यज्य यथा सर्वमेकाकी यास्यसि ध्रुवम् । न ददासितदा कस्मात् पाथेयार्थमिदं धनम् । गृहीतदानपाथेयाःसुखं यान्ति महाध्वनि । अन्यथा क्लिश्यते जन्तुःपाथेयरहितः पथि । येषां द्विजेन्द्र! वाहित्री पूर्णा-भाण्डस्य गच्छति । स्वर्गदेशस्य पुरतस्तेषां लाभः पदेपदे ।इति ज्ञात्वा नरः पुण्यं कुर्य्यात् पापञ्च वर्जयेत् । पुण्येनयाति देवत्वमपुण्यान्नरकं व्रजेत् । ये मनागपि देवेशंप्रपन्नाः शरणं शिवम् । तेऽपि घोरं न पश्यन्तियमस्य वदनं नराः । किन्तु पापैर्महाघोरैः किञ्चि-त्कालं शिवाज्ञया । भवन्ति प्रेतराजानस्ततोयान्तिशिवं परम् । ते न लिप्यन्ति पापेन पद्मपत्रमिवा-म्भसा । तस्माद्विवर्द्धंयेद्भक्तिमीश्वरे सततं बुधः । तन्मा-हात्म्यविचारेण भवदोषविचारतः” ।भाग० ५, २६ अ० । नरकभेदतत्स्वरूपोन्यासमुखेनतेषां पापविशेषजन्यत्वमुक्तं तेन तत्तत्कर्म्मणां विपाका-स्तामिस्रादयो नरका इति गम्यते । तत्र नरकविशेष-स्वरूपनिदानमुक्तं यथा-“अथ तांस्ते राजन्नामरूपलक्षणतोऽनुक्रमिष्यामः ।तामिस्रो १ ऽन्धतामिस्रो २ रौरवो ३ महारौरवः ४ कुम्भी-पाकः ५ कालसूत्रम् ६ असिपत्रवनं ७ शूकरमुखम् ८अन्धकूपः ९ कृमिभोजनः १० सन्दंशः ११ तप्तशूर्म्मिः १२वज्रकण्टकशाल्मली १३ वैतरणी १४ पूयोदः १५ प्राण-वेधो १६ विशसनं १७ लालाभक्ष्यः १८ सारमेयादनम् १९अवीचिः २० अयःपानम् २१ इति । किञ्च क्षारकर्दमो २२रक्षोगणभोजनं २२ शूलप्रोतो २४ दन्दशूकः २५ अवट-निरोधनो २६ ऽपर्य्यावर्त्तनं २७ सूचीमुखम् २८ इत्यष्टा-पिंशतिर्नरका विविधा यातनाभूमयः । यस्तु परवि-त्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरु-षैरतिभयानकैस्तामिस्रे १ नरके बलान्निपात्यते । अन-शनानिपानदण्डताडनसन्तर्जनादिभिर्यातनाभियात्यमानोजन्तुर्यत्र कश्मलमासादित एकदैव मूर्च्छामुपयातितामिस्रपाये । एवमेवान्धतामिस्रे यस्तु वञ्चित्वा पुरुषंदारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थोवेदनया नष्टमतिर्नष्टदृष्टिश्च भवति । यथा वनस्पतिर्वृश्व्य-मानमूलस्तस्मादन्धतामिस्रं २ तमुपदिशन्ति । यस्त्विहवा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवा-नुदिनं पुष्णाति स तदिह विहाय स्वयमेव तदशुभेन रौर-वे निपतति । ये त्विह यथैवामुना विहिंसिता जन्तवःपरत्र यमयातना उपगतं त एव रुरवो भूत्वा तथा तमेवहिंसन्ति तस्माद्रौरवम् ३ इत्याहुः । रुरुरिति सर्पादतिक्रूर-सत्वापदेशः । एवमेव महारौरवो ४ यत्र निवतितं पुरुषंक्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देह-म्भरः । यस्त्विह वा उग्रः पशून् पक्षिणो वा प्राणतउपरन्धयति । तमप्रकरुणं पुरुषादैरपि गर्हितममुत्रयमानुचराः कुम्भीपाके ५ तप्ततैले उपरन्धयन्ति । यस्त्विहब्रह्मध्रुक् स कालसूत्रसंज्ञके ६ नरके अयुतयोजनपरिमण्डलेताम्रमये तप्ते खले उपर्य्य घस्तादग्न्यर्काभ्यामभितप्यमानेऽभिनिवेशितः क्षुत्पिपासाभ्यां दह्यमानान्तर्बहिःशरीरआस्ते शेते चेष्टते अवतिष्ठति परिधावति च यावन्तिपशुरोमाणि तावद्वर्षसहस्राणि । यस्त्विह वैनिजवेदपथा-दनापद्यपगतः पाषण्डञ्चोपगतस्तमसिपत्रवनं ७ प्रवेश्यकशया प्रहरन्ति तत्र हासावितस्ततो धावमान उभयतो-धारैस्तालवनासिपत्रैश्छिद्यमानसर्वाङ्गो हा हतोस्मीतिपरमया वेदनया मूर्च्छितः पदेपदे निपतति स्वधर्महापाषण्डानुगमनफलं भुङ्क्ते । यस्त्विह वै राजा राजपुरुषोवा अदण्डे दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डंस पापीयान्नरकेऽमुत्र शूकरमुखे ८ निपतति । तत्राति-बलैर्निष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त्तस्वरेण स्व-नयन् क्वचिन्मूर्च्छितः कश्मलमुपगतो यथैवेहादृष्टदोषाउपरुद्धाः । यस्त्विह वै भूतानामीश्वरकल्पितवृत्तीनाम-विविक्तपरव्ययानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपर-व्यथोव्यथामाचरति स परत्रान्धकूपे ९ तदभिद्रोहेण निप-तति । तत्र हासौ तैस्तैर्ज्जन्तुभिः पशुमृगपक्षिसरोसृपै-र्मशकयूकामत्कुणमक्षिकादिभिर्ये केचाभिद्रुग्धास्तैः सर्व-तोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानःपरिक्रामति यथा कुशरीरे जीवः । यस्त्विह वा असंविभज्याश्नाति यत् किञ्चनोपनिर्मितपञ्चयज्ञो वायससंस्तुतः स परत्र कृमिभोजने १० नरकाधमे निपतति । तत्रशंतसहस्रयोजने कृमिकुण्डे कृमिभूतः स्वयं कृमिभिरेवभक्ष्यमाणः कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमा-त्माबं यातयते । यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्ना-दीनि ब्राह्मणस्य वाऽपहरति अन्यस्य वाऽनापदि पुरुषस्तम-मुत्र राजन्! यमपुरूषा अयस्मयैरग्निपिण्डैः सन्दंशै ११स्त्वचि निष्कुषन्ति । यस्त्विह वा अगम्यां स्त्रियं पुरुषोऽगम्यंवा पुरुषं योषिदभिगच्छति । तावमुत्र कशया ताडयन्त-स्तप्तया शूर्म्या १२ लोहमय्या पुरुषमालिङ्गयन्ति । स्त्रियं चपुरुषरूपया शूर्म्या । यस्त्विह वै सर्वाभिगमस्तममुत्र निर-ये वर्त्तमानं वजृकण्टकशाल्मली १३ मारोप्य निष्कुषन्ति ।ये त्विह वै राजन्या राजपुरुषा वा पाषण्डा धर्म्मसेतून्भिन्दन्ति ते संपरेत्य वैतरण्यां १४ निपतन्ति भिन्नमर्य्यादाःतस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततोभक्ष्यमाणा आत्मना न वियुज्यमानाश्चासुभिरुह्यमानाःस्वाधेन, कर्मपाकमनुस्मरन्तौ विण्मूत्रपूयशोणितकेशनखा-स्थिमेदोमांसवशावाहिन्यामुपतप्यन्ते । ये त्विह वै वृषली-पतयोनष्टशौचाचारनियमास्त्यक्तलज्जाः पशुचर्यां चरन्ति ।ते चापि प्रेत्य पूयविण्मूत्रश्लेष्मलालापूर्णे १५ निपतन्तितदेवातिबीभत्सितमश्नन्ति । ये त्विह वै श्वगर्द्धभपतयोब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगा-न्निघ्नन्ति । तानपि संपरेताल्लँक्ष्यभूतान् यमपुरुषा इषु-भिर्विध्यन्ति १६ । ये त्विह वै दाम्भिका दम्भयज्ञेषुपशून् विशसन्ति । तानमुष्मिल्लोँके वैशसे १७ नरके पति-तान्निरयपतयो यातयित्वा विशसन्ति । यस्त्विह वै सवर्णांभार्य्यां द्विजोरेतः पाययति काममोहितः तं पापकृत्तमंमूत्ररेतःकुल्यायां पातयित्वा रेतः संपायन्ति लालाभक्ष्ये१८ । ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वाविलुम्पन्ति राजभटा वा तांश्चापि हि परेतान् यम-दूतावज्रदंष्ट्राः श्वानः १९ सप्तशतानि विंशतिश्च सरभसंखादन्ति । यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनि-मये दाने वा कथञ्चित्, स वै प्रेत्य नरके अवीचिमति २०अधःशिरानिरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्द्ध्नःसंपात्यते । यत्र जलमिव स्थलमश्मपृष्ठमवभासतेतदवीचिमत् तिलशी विशीर्य्यमाणशरीरो न म्रियमाणःपुनरारोपितो निपतति । यस्त्विह वै विप्रोराजन्योबैश्योवा सोमपीथस्तत्कलत्रं वा सुराः व्रतस्थोऽपि वापिबति प्रमादतः तेषां निरयं नीतानामुरसि पदाऽऽ-क्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं २१ निषिञ्चन्ति ।अथ च यस्त्विह वा आत्मसंभावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरोयसो न बहु मन्येत स मृतक-एव क्षारकर्द्देमे २२ निरयेऽवाक्छिरा निपतितोदुरन्त-यातनाह्यश्नुते । ये त्विह वै पुरुषाः पुरुषमेधेन यजन्तेयाश्च स्त्रियोनृपशून् खादन्ति तांश्च ताश्च ते पशवइह निहता यमसदने यातयन्तो रक्षोगणाः शौनिकाइव सुधितिनाऽवदायाऽसृक्पिबन्ति नृत्यन्ति च हृष्य-माणा यथेह पुरुषादाः २३ । ये त्विह वा अनागसो-ऽरण्ये ग्रामे वाविश्रभ्यवैश्रम्भकैरुपश्रितानुपजिजीवि-षून् सूत्रादिषूपप्रोतान् क्रीडनकतया घातयन्ति तेऽपिच प्रेत्य यमयातनासु शूलादिप्रोतात्मानः २४ क्षुत्तृड्भ्यांचाभिहताः कङ्कवटादिभिश्चेतस्ततस्तिग्मतुण्डै राहन्य-माना आत्मकश्मलं स्मरन्ति । ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्वणस्वभावा यथा दन्दशूकास्तेऽपिप्रेत्य नरके दन्दशूकाख्ये २५ निपतन्ति । यत्र नृपं ।दन्दशूकाः पञ्चमुखा वा उपसृत्य ग्रसन्ति यथाबिले-शयान् । ये त्विह वा अन्धावटकुशूलगुहादिषुभूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेणवह्निना धूमेन निरुन्धन्ति २६ । यस्त्विह वा अतिथीन-भ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेनचक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्र-तुण्डागृध्रकङ्कटादयः प्रसह्योरुबलादुत्पाटयन्ति २७ ।यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्य्यंक्प्रेक्षणःसर्व्वतोऽभिविशङ्की व्वयविनाशचिन्तया प्रविशुष्यमाणहृदयवदनो निर्वृतिमनवगतोग्रह इवार्थमभिरक्षति ।स चापि प्रेत्य तदुत्पादनोत्कर्षणसंरक्षणसमलग्रहःसूचीमुखे २८ नरके निपतति । यत्र ह वित्तग्रहं पाप-ग्रहं पापपुरुषं धर्मराजपुरुषा वायसा इव सर्व्वतोऽङ्गेषुसूत्रैः परिवयन्ति । एवंविधा नरका यमालये सन्तिशतशः तेषु च सर्व एवाधर्मवर्त्तिनो ये केचिदिहोदिता-श्चावनिपते! पर्य्यायेण विविशन्ति” । तथैव धर्मानुवर्त्तिनइतरत्र । इह तु पुनर्भवे उभयशेषाभ्यां विशन्ति”भा० आनु० ७ अ० शुभकर्म्मविशेषविपाक उक्तो यथा“युधिष्ठिरोक्तिः । “कर्म्मणाञ्च समस्तानां शुभानां भरतर्षभ! । फलानि भरतश्रेष्ठ! प्रब्रूहि परिपृच्छतः । भीष्मउवाच । हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत! ।रहस्यं यदृषीणान्तु तच्छृणुष्व युधिष्ठिर! । यागतिः प्राप्यतेयेन प्रेत्यभावे चिरेप्सिता । येन येन शरीरेण यद्यत्कर्मकरीति यः । तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ।यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि । न नश्यतिकृतं कर्म सदा पञ्चेन्द्रियैरिह । ते ह्यस्य साक्षिणो नित्यंषष्ठ आत्मा तथैव च । चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्चसूनृताम् । अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ।यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्त्तते । श्रान्तायादृष्ट-पूर्व्वाय तस्य पुण्यफलं महत् । स्थण्डिलेषु शयानानांगृहाणि शयनानि च । चीरवल्कलसंवीते वासांस्या-भरणानि च । वाहनानि च यानानि योगात्मनितपोधने । अग्नीनुपशयानस्य राज्ञः पौरुषमेव च ।रसानां प्रतिसंहारे सौभाग्यमनुगच्छति । आमिष-प्रतिसंहारे पशून् पुत्रांश्च विन्दति । अवाक्छिरास्तुयो लम्बेदुदवासञ्च यो वसेत् । सततञ्चैकशायी यःस लभेतेप्सितां गतिम् । पाद्यमासनमेवाथ दीपमन्नंप्रतिश्रयम् । दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ।वीरासनं वीरशय्यां वीरस्थानमुपागतः । अक्षयास्तस्यवै लोकाः सर्व्वकामगमास्तथा । धनं लभेत दानेनमौनेनाज्ञां विशाम्पते! । उपभोगांश्च तपसा ब्रह्मचर्य्येणजीवितम् । रूपमैश्वर्य्यमारोग्यमहिंसाफलमश्नुते ।फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ।प्रायोपवेशिनो राजन्! सर्व्वत्र सुखमश्नुते । गवाद्यःशाकदीक्षायां स्वर्गकामी तृणाशनः । स्त्रियस्त्रिषवणंस्नात्वा वायुं पीत्वा क्रतुं लभेत् । स्वर्गं सत्येन लभतेदोक्षया कुलमुत्तमम् । सलिलाशी भवेद् यस्तु सदाग्निःसंस्कृतो द्विजः । मनुःसाधयते राज्यं नाकपृष्ठमनाशके ।उपवासञ्च दोक्षायां अभिषेकञ्च पार्थिव! । कृत्वाद्वादश बर्षाणि वीरस्थानाद्विशिष्यते । अधीत्य सर्ववेदान् वैसद्यो दुःखाद्विमुच्यते । मानसं हि चरन् धर्म्मं स्वर्ग-लोकमुपाश्नुते । या दुस्त्यजा दुर्म्मतिभिर्य्या न जीर्य्यतिजीर्य्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतःसुखम् । यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।एवं पूर्व्वकृतं कर्म कर्त्तारमनुगच्छति । अनोद्यमानानियथा पुष्पाणि च फलानि च । स्वकालं नातिवर्त्तन्ते तथाकर्म पुराकृतम् । जीर्य्यन्ति जीर्य्यतः केशा दन्ता जीर्यन्तिजीर्य्यतः । चक्षुःश्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ।येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः । प्रीणातिमातरं येन पृथिवी तेन पूजिता । येन प्रीणात्युपाध्यायंतेन स्यात् ब्रह्म पूजितम् । सर्वे तस्यादृता धर्मा यस्यैतेत्रय आदृताः । अनादृतास्तु यस्यैते सर्वास्तस्याफलाःक्रियाः” ।तत्रैव दानविशेषे गतिभेदो निरूपितः प्रपञ्चभयात्तद्वाक्य नोद्धृतं भा० आनु० दानधर्मे दृश्यम् । भा०आनु० १११ अ० संसारचक्रप्रवृत्तिरुक्ता यथा-“एकः प्रसूयते राजन्नैक एक विनश्यति । एकस्तरतिदुर्गाणि गच्छत्येकस्तु दुर्गतिम् । असहायः पिता मातातथा भ्राता सुतो गुरुः । ज्ञातिसम्बन्धिवर्गश्च मित्रवर्ग-स्तथैव च । मृतं शरीरमुत्सृज्य काष्ठलोष्ट्रसमं जनाः ।मुहूर्त्तमिव रोदित्वा ततो यान्ति पराङ्खाः । तैस्तच्छ-रोरमुत्सृष्टं धर्म एकोऽनुगच्छति । तस्माद्धर्म्मः सहायश्चसेवितव्यः सदा नृभिः । प्राणो धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् । तथैवाधर्म्मसंयुक्तो नरकञ्चोपपद्यते ।तस्मान्न्यायागतैरर्थैर्धम्प्रं सेवेत पण्डितः । धर्म्म एकोमनुष्यस्य सहायः पारलौकिकः । लोभान्मोहादनुक्रोशा-द्भयाद्वाप्यबहुश्रुतः । नरः करोत्यकार्य्याणि परार्थे लोभमो-हितः । धर्म्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । एतत्त्र-यमवाप्तव्यमधर्मम्परिवर्जितम् । युधिष्ठिर उवाच । श्रुतं भग-वतो वाक्यं धर्म्मयुक्तं परं हितम् । शरीरनिचयं ज्ञातुंबुद्धिस्तु मम जायते । मृतं शरीरं हि नृणां सूक्ष्मम-व्यक्ततां गतम् । अचक्षुर्व्विषयं प्राप्तं कथं धर्म्मोऽनु-गच्छति । वृहस्पतिरुवाच । पृथिवी वायुराकाशमापोज्योतिमेनोऽन्तगः । बुद्धिरात्मा च सहिता धर्मंपश्यन्ति नित्यदा । प्राणिनामिह सर्व्वेषां साक्षीभूतानिशाऽनिशम् । एतैश्च सह धर्म्मोऽपि तं जीवमनुगच्छति ।त्वगस्थिमांसं शुक्रञ्च शोणितञ्च महामते! । शरीरंवर्ज्जयन्त्येते जीवितेन विवर्ज्जितम् । ततो धर्म्मस-मायुक्तः प्राप्नुते जीव एव हि । ततोऽस्य कर्म्म पश्यन्तिशुभं वा यदि वाऽशुभम् । देवताः पञ्चभूतस्थाः किंभूयःश्रोतुमिच्छसि । ततो धर्म्मसमायुक्तः स जीवः सुखमेधते ।इह लोके परे चैव किंभूयः कथयामि ते । युधिष्ठिरउवाच । तद्दर्शितं भगवता यथा धर्मोऽनुगच्छति । एतत्तुज्ञातुमिच्छामि कथं रेतः प्रवर्त्तते? । वृहस्पति रुवाच ।अन्नमश्नन्ति यद्देवाः शरीरस्था नरेश्वर! । पृथिबी वायु-राकाशमापो ज्योतिर्म्मनस्तथा । ततस्तृप्तेषु शुद्धात्मन्! रेतःसम्पद्यते महत् । ततो गर्भः सम्भवति श्लेषात् स्त्रीपुंसयो-र्नृप! । एतत्ते सर्वंमसाख्यातं भूयः किं श्रोतुमिच्छसि? ।युधिष्ठिरौवाच । आख्यातं मे भगवता गर्भः संजायतेयथा । यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ।वृहस्पतिरुवाच । आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते ।विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् । सर्व्वभूतस-मायुक्तः प्राप्नुते जीव एव हि । ततोऽस्य कर्म पश्यन्तिशुभं वा यदि वाऽशुभम् । देवताः पञ्चभूतस्था किं भूयःश्रोतुमिच्छसि । युधिष्ठिर उवाच । त्वगस्थिमांस-मुत्सृज्य तैश्च भूतैर्व्विवर्जितः । जीवः स भगवन्! क्वस्थःसुखदुःखे समश्नुते । वृहस्पतिरुवाच । जीवः कर्म्मस-मायुक्तः शीघ्रं रेतस्त्वमागतः । स्त्रीणां पुष्पं समासाद्यसूते कालेन भारत! । यमस्य पुरुषैः क्लेशं यमस्य पुरुषै-र्व्वधम् । दुःखं संसारचक्रञ्च नरः क्लेशञ्च विन्दति । इहलोके च स प्राणी जन्मप्रभृति पार्थिव! । स्वकृतं कर्म्मवै भुङ्क्तेधर्मस्य फलमाश्रितः । यदि धर्म्मं यथाशक्ति जन्मप्रभृतिसेवते । ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ।अथान्तरा तु धर्म्मस्याप्यधर्म्ममुपसेवते । सुखस्यानन्तरंदुःखं स जीवोऽप्यधिगच्छति । अधर्म्मेण समायुक्तोयमस्य विषयं गतः । महद्दुःखं समासाद्य तिर्य्यग्योनौप्रजायते । कम्मणा येन येनेह यस्यां योनौ प्रजायते ।जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु । यदेतदुच्यतेशास्त्रे सेतिहासे च छन्दसि । इह स्थानाति पुण्यानिदेवतुल्यानि भूपते! । तिर्य्यग्योन्यतिरिक्तानि गतिमन्ति चसर्व्वशः । यमस्य सदने दिव्ये ब्रह्मलोकसमे गुणैः” ।इतःपरं कर्मविपाकोऽभिहितः तत्र अधर्मशब्दे १२१, १२३पृष्ठे “कर्मभिर्नियतैर्बद्ध” इत्यारभ्य “धर्मे कुरु मनः सदा”इत्यन्तं वाक्यं हरिवंशवाक्यत्येन प्रमादात् लिखितम् ।तच्च भा० अनु० १११ अ० स्थं बोध्यम् । एवमधर्मशब्दे पृ० १२३पृष्ठादौ मिता० दर्शितवाक्यादपि कर्मविपाकभेदोऽवधेयः ।भुक्तावशिष्टकर्मणां विपाकस्तु शातातपेन दर्शितो यथा“प्रायश्चित्तविहीनानां महापातकिनां नृणाम् । नरकान्तेभवेज्जन्म चिह्नाङ्कितशरीरिणाम् । प्रतिजन्म भवेत्तेषांचिह्नं तत्पापसूचितम् । प्रायश्चित्ते कृते यातिपश्चात्तापवतां पुनः । महापातकजं चिह्नं सप्तजन्मनिजायते । उपपापोद्भवं पञ्च त्रीणि पापसमुद्भवम् ।दुषकर्म्मजा नृणां रोगा यान्ति चोपक्रमैः शमम् । जपैःसुरार्च्चनैहोमैर्दानैस्तेषां शमोभवेत् । पूर्व्वजन्मकृतं पापनरकस्य परिक्षये । वाधते व्याधिरूपेण तस्य जप्यादिभिःशमः । कुष्ठञ्च राजयक्ष्मा च प्रमेहोग्रहणी तथा । मूत्र-कृच्छ्राश्मरोकासा अतीसारभगन्दरौ । दुष्टव्रणं गण्डमालापक्षाघातोऽक्षिनाशनम् । इत्येवमादयोरोगा महापापोद्भवाःस्मृताः । जलोदरं यकृत्प्लीहाशूलरोगव्रणानि च ।श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः । रक्तार्वुदविस-र्पाद्याउपपापोद्भवागदाः । दण्डापतानकश्चित्रवपुः कम्प-विचर्च्चिकाः । वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः ।अर्शआद्या नृणां रोगा अतिपापाद्भवन्ति हि । अन्ये चबहवोरोगा जायन्ते वर्णसङ्कराः । उच्यन्ते च निदा-नानि प्रायश्चित्तानि वै क्रमात् । महापापेषु सर्व्वंस्यात्तदर्द्धमुपपातके । दद्यात् पापेषु षष्ठशं कल्प्यंव्याधिबलाबलम् । अथ साधारणं तेषु गोदानादि चकथ्यते । गोदाने बत्सयुक्ता गौः सुशीला च पयस्विनो ।वृषदाने शुभोऽनड्वान् शुक्लाम्बरसकाञ्चनः । निवर्त्तनानिभूदाने दश दद्याद् द्विजातये । दशहस्तेन दण्डेनत्रिंश-दृण्डं निवर्त्तनम् । दश तान्येव गोचर्म्म दत्त्वा स्वर्गेमहीयते । सुवर्णशतनिष्कन्तु तदर्द्धार्द्धप्रमाणतः । अश्व-दाने मृदुश्लक्ष्णमश्वं सोपस्करं दिशेत् । महिषीं माहिपेदाने दद्यात् स्वर्णायुधान्विताम् । दद्याद्गजं महादानेसुवर्णफलसंयुतम् । लक्षसंख्यार्हणं पुष्पं प्रदद्याद्देव-तार्च्चने । दद्याद्द्विजसहस्राय मिष्टान्नं द्विजभोजने ।रुद्रं जपेल्लक्षपुष्पैः पूजयित्वा च त्र्यम्बकम् । एकादशजपेद्रुद्रान् दशांशं गुग्गुलेर्घृतैः । हुत्वाभिषेचनं कुर्य्या-न्मन्त्रैर्वरुणदैवतैः । शान्तिके गणशान्तिश्च ग्रहशान्ति-कपूर्व्वकम् । धान्यदाने शुभं धान्यं खारीषष्टिमितंस्मृतम् । वस्त्रदाने पट्टवस्त्रद्वयं कर्पूरसंयुतम्, दश-पञ्चाष्ट चतुर उपवेश्य द्विजान् शुभान् । विधाय वैष्णवींपूजां सङ्कल्प्य निजकाम्यया । धेनुं दद्याद्द्विजाति-भ्योदक्षिणाञ्चापि शक्तितः । अलङ्कृत्य यथाशक्ति वस्त्राल-ङ्करणैद्विजान् । याचेद्दण्डप्रणामेन प्रायश्चित्तं यथोदितम् ।तेषामनुज्ञया कृत्वा प्रायश्चित्तं यथाविधि । पुनस्तान्परिपूर्णार्थानर्च्चयेद्विधिवद्द्विजान् । सन्तुष्टा ब्राह्मणा दद्यु-रनुज्ञां व्रतकारिणे । जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञ-कर्म्मणि । सर्व्वं भवति निश्छिद्रं यस्य चेच्छन्ति ब्राह्मणाः ।ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः । सर्व्व-देवमया विप्रा न तद्वचनमन्यथा । उपवासे व्रतञ्चैव स्नानंतीर्थफलं तपः । विप्रैः सम्पादितं सर्व्वं सम्पन्न तस्यतत्फलम् । सम्पन्नमिति यद्वाक्यं वदन्ति क्षितिदेवताः ।प्रणन्य शिरसा धार्य्यमग्निष्टोमफलं लभेत् । ब्राह्मणा-जङ्गमं तीर्थं निर्जलं साव्वकामिकम् । तेषां वाक्याद-केनैव शुद्ध्यन्ति मलिना जनाः । तेभ्योऽनुज्ञाममिप्राप्यप्रगृह्य च तथाशिषः । पूजयित्वा द्विजान् शठ्या भुञ्जीतसह बन्धुभिः” शातातपीये कर्म्मविपाके १ अध्याये ।“ब्रह्महा नरकस्यान्ते पाण्डुकुष्ठो प्रजायत । प्राय-श्चित्तं प्रकुर्व्वीत स तत्पातकशान्तये । चत्वारः कलसाःकार्य्याः पञ्चरत्नसमन्विताः । पञ्चपल्लवसंयुक्ताः सितव-स्त्रेण संयुताः । अश्वस्थानादिमृद्युक्तास्तीर्थोदकसुपू-रिताः । कषायपञ्चकोपेता नानाविधफलान्विताः ।सर्व्वौषधिसमायुक्ताः स्थाप्याः प्रतिदिशं द्विजैः । रौप्य-मष्टदलं पद्मं मध्यकुम्भोपरि न्यसेत् । तस्योपरि न्यसेद्देवंब्रह्माणञ्च चतुर्मुखम् । पलार्द्धार्द्धप्रमाणेन सुवर्णेनविनिर्मितम् । अर्च्चेत् पुरुषसूक्तेन त्रिकालं प्रति-वासरम् । यजमानः शुभैर्गन्धैः पुष्पैर्धूपैर्यथाविधि ।पूर्व्वादिकुम्भेषु ततोब्राह्मणा ब्रह्मचारिणः । पठेयुःस्वस्ववेदांस्ते ऋग्वेदप्रभृतीन् शनैः । दशां-शेन ततोहोमोग्रहशान्तिपुरःसरम् । मध्यकुम्भे विधात-व्योघृताक्तैस्तिलहेमभिः । द्वादशाहमिर्द कर्म समाप्यद्विजपुङ्गवः । तत्र पीठे यजमानमभिषिञ्चेद्यथाविधि ।ततोदद्याद्यथाशक्ति गोभूहेमतिलादिकम् । ब्राह्मणे-भ्यस्तथा देयमाचार्य्याय निवेदयेत् । आदित्यावसवोरुद्राविश्वेदेवामरुद्गणाः । प्रीताः सर्वेव्यपोहन्तु मम पापं सुदा-रुणम् । इत्युदीर्य्य मुहुर्भक्त्या तमाचार्य्यं क्षमापयेत् ।एवंविधाने विहिते श्वेतकुष्ठी विशुध्यति । कुष्ठी गोबध-धकारी स्यान्नरकान्तेऽस्य निष्कृतिः । स्थापयेद्घटमेकन्तुपूर्व्वोक्तद्रव्यसंयुतम् । रक्तचन्दनलिप्ताङ्गं रक्तपुष्पाम्बरा-न्वितम् । रक्तकुम्भन्तु तं कृत्वा स्थापयेद्दक्षिणां दिशम् ।ताम्रपात्रं न्यसेत्तत्र तिलचूर्णेन पूरितम् । तस्योपरि न्यसे-द्देवं हेमनिष्कमयं यमम् । यजेत् पुरुषसूक्तेन पापं मेशाम्यतामिति । सामपारायणं (सामगानम्) कुर्य्यात् कलसेतत्र सामवित् । दशांशं सर्षपैर्हुत्वा पावमान्यभिषेचने ।विहिते धर्म्मराजानमाचार्य्याय निवेदयेत् । यमोऽपिमहिषारूढोदण्डपाणिर्भयावहः । दक्षिणाशापतिर्द्देवोममपापं व्यपोहतु । इत्युच्चार्य्य विसृज्यैनं मासं तद्भक्ति-माचरेत् । ब्रह्मगोबधयोरेषा प्रायश्चित्तेन निष्कृतिः ।पितृहा चेतनाहीनोमातृहान्धः प्रजायते । नरकान्तेप्रकुर्व्वीत प्रायश्चित्तं यथाविधि । प्राजापत्यानि कुर्व्वीतत्रिंशच्चैव विधानतः । व्रतान्ते कारयेन्नावं सौवर्ण-पलसम्मिताम् । कुम्भं रौप्यमयञ्चैव ताम्रपात्राणिपूर्व्ववत् । निष्कहेम्ना तु कर्त्तव्योदेवः श्रीवत्सलाञ्छनः ।पट्टवस्त्रेण संवेष्ट्य पूजयेत्तं विधानतः । नाबं द्विजायता दद्यात् सर्व्वोपस्करसंयुताम् । वासुदेव! जगन्नाथ ।सर्व्वभूताशयस्थित! । पातकार्णवमग्नं मां तारय प्रणता-र्त्तिहृत्! । इत्युदीर्य प्रणम्याथ ब्राह्यणाय विसर्जयेत् ।अन्येभ्योऽपि यथाशक्ति विप्रेभ्योदक्षिणां ददेत् । स्वसृ-घाती तु बधिरोनरकान्ते प्रजायते । मूकोभ्रातृबधे चैवतस्येयं निष्तिः स्मृता । सोऽपि पापविशुद्ध्यर्थं चरेच्चा-न्द्रायणव्रतम् । व्रतान्ते पुस्तकं दद्यात् सुवर्णफलसंयुतम् ।इमं मन्त्रं समुच्चार्य्य ब्रह्माणीं तां विसर्जयेत् । स्वर-स्वति! जगन्मातः! शब्दब्रह्माधिदेवते! । दुष्कर्म्मकरणात्पापात् पाहि मां परमेश्वरि! । बालघाती च पुरु-षोमृतवत्सः प्रजायते । ब्राह्मणोद्वाहनञ्चैव कर्त्तव्यं तेनशुद्धये । श्रवणं हरिवंशस्य कर्त्तव्यञ्च यथाविधि ।महारुद्रजपञ्चैव कारयेच्च यथाविधि । षडङ्गैकादशैरुदै-रुद्रः समभिधीयते । रुद्रैस्तथैकादशभिर्महारुद्रः प्रकी-र्त्तितः । एकादशभिरेतैस्तु अतिरुद्रश्च कथ्यते । जुहु-याच्च दशांशेन दूर्व्वयायुतसंख्यया । एकादश स्वर्ण-निष्काः प्रदातव्याः सदक्षिणाः । पलान्येकादश तथादद्याद्वित्तानुसारतः । अन्येभ्योऽपि यथाशक्ति द्विजे-भ्योदक्षिणां दिशेत् । स्नापयेद्दम्पतीः पश्चान्मन्त्रैर्वरुणदैवतैः । आचार्य्याय प्रदेयानि वस्त्रालङ्करणानि च ।गोत्रहा पुरुषः कुष्ठी निर्वंशश्चोपजायते । स च पाप-विशुद्ध्यर्थं प्राजापत्यशतञ्चरेत् । व्रतान्ते मेदिनीं दत्त्वाशृणुयादथ भारतम् । स्त्रीहन्ता चातिसारी स्यादश्वत्थान्रोपयेद्दश । दद्याच्च शर्कराधेनुं भोजयेच्च शतं द्विजान् ।राजहा क्षयरोगी स्यादेषा तस्य च निष्कृतिः । गोभू-हिरण्यमिष्टान्नजलवस्त्रप्रदानतः । घृतधेनुप्रदानेन तिल-धेनुप्रदानतः । इत्यादिना क्रमेणैव क्षयरोगः प्रशाम्यति ।रक्तार्बुदी वैश्यहन्ता जायते स च मानवः । प्राजाप-त्यानि चत्वारि सप्त धान्यानि चोत्सृजेत् । दण्डापतान-कयुतः शूद्रहन्ता भवेन्नरः । प्राजापत्यं सकृच्चैवं दद्या-द्धेनुं सदक्षिणाम् । कारूणाञ्च बधे चैव रूक्षभावःप्रजायते । तेन तत्पापशुद्ध्यर्थं दातव्योवृषभः सितः ।सर्व्वकार्य्येष्वसिद्धार्थोगजघाती भवेन्नरः । प्रासाद कार-यित्वा तु गणेशप्रतिमां न्यसेत् । गणनाथस्य मन्त्रन्तुमन्त्री लक्षमितं जपेत् । कुलत्थशाकः पूपश्च गण-शान्तिपुरःसरम् । उष्ट्रे विनिहते चैव जायते विकृ-तस्वरः । स तत्पापविशुद्ध्यर्थंदद्यात् कर्पूरकं फलम् ।अश्वे विनिहते चैव वक्रतुण्डः प्रजायते । शतं पलानिदद्याच्च चन्दनान्यघनुत्तये । महिषीघातने चैव कृष्ण-गुल्मः प्रजायते । खरे विनिहते चैव खररोमा प्रजा-यते । निष्कत्रयस्य प्रकृतिं संप्रदद्याद्धिरण्मयीम् ।तरक्षौ निहते चेव जायते केकरेक्षणः । दद्याद्रत्न-मयीं धेनुं स तत्पातकशान्तये । शूकरे निहतेचैव दन्तुरोजायते नरः । स दद्यात्तु विशुद्ध्यर्थंघृतकुम्भं सदक्षिणम् । हरिणे निहते खञ्जः शृगालेतु विपादकः । अश्वस्तेन प्रदातव्यः सौवर्णपलनिर्म्मितः ।अजाभिघातने चैव अधिकाङ्गः प्रजायते । अजा तेनप्रदातव्या विचित्रवस्त्रसंयुता । उरभ्रे निहते चैवपाण्डुरोगः प्रजायते । कस्तूरिकापलं दद्याद्ब्राह्मणायविशुद्धये । मार्जारे निहते चैव पीतपाणिः प्रजायते ।परावतं स सौवर्णं प्रदद्यान्निष्कमात्रकम् । शुकशारि-कयोर्घाते नरः स्खलितवाग्भवेत् । सच्छास्त्रपुस्तकंदद्यात् स विप्राय सदक्षिणम् । वकघाते दीर्घनसोदद्याद्गांधवलप्रभाम् । काकघाती कर्णहीनोदद्याद्गामसितप्रभाम् ।हिंसायां निष्कृतिरियं ब्राह्मणे समुदाहृता । तद-र्द्धार्द्धप्रमाणेन क्षत्रियादिष्वनुकमात्” । २ अ०“सुरापः श्यावदन्तः स्यात् प्राजापत्यन्तु तारकम् । शर्क-रायास्तुलाः सप्त दद्यात् पापविशुद्धये । जपित्वातु महारुद्रं दशांशं जुहुयात्तिलैः । ततोऽभिषेकःकर्त्तव्योमन्त्रैर्वरुणदैवतैः । मद्यपोरक्तपित्ती स्यात् सदद्यात् सर्पिषोघटम् । मधुनोऽर्द्धघटञ्चैव सहिरण्यंविशुद्धये । अभक्ष्यभक्षणे चैव जायते कृमिलोदरः ।यथावत्तेन शुद्ध्यर्थमुपोष्यं भीष्मपञ्चकम् । उदक्या-वीक्षितं भुक्त्वा जायते कृमिलोदरः । गोमूत्रयावका-हारस्त्रिरात्रेणैव शुद्ध्यति । भुक्त्वा चा स्पृश्यसंस्पृष्टंजायते कृमिलोदरः । त्रिरात्रं समुपोष्याथ स तत्-पापात् प्रमुच्यते । परान्नविघ्नकरणादजीर्णमभिजायते ।लक्षहोमं स कुर्व्वीत प्रायश्चित्तं यथाविधि । मन्दो-दराग्निर्भवति सति द्रव्ये कदन्नदः । प्राजापत्यत्रयंकुर्य्याद्भोजयेच्च शतं द्विजान् । विषदः स्याच्छर्द्दिरोगीदद्याद्दश पयस्विनीः । मार्गहा पादरोगी स्यात् सोऽ-श्वदानं समाचरेत् । पिशुनोनरकस्यान्ते जायते श्वास-कासवान् । घृतं तेन प्रदातव्यं सहस्वपलसन्मितम् ।धूर्त्तोऽपस्माररोगी स्यात् स तत्पापविशुद्धये । ब्रह्मकूर्च-मयीं धेनुं दद्याद्गाञ्च सदक्षिणाम् । शूली परोपता-पेन जायते तत्प्रमोचने । सोऽन्नदानं प्रकुर्व्वीत तथारुद्रं जपेन्नरः । दावाग्निदायकश्चैव रक्तातिसारवाभवेत् । तेनोदपानं कर्त्तव्यं रोपणीयस्तथा वटःसुरालये जले वापि शकृन्मूत्रं करोति यः । गुदरो-गोभवेत्तस्य पापरूपः सुदारुणः । मासं सुरार्च्चनेनैवगोदानद्वितयेन तु । प्राजापत्येन चैकेन शाम्यन्ति गुदजा-रुजः । गर्भपातनजा रोगा यकृत्प्लीहजलोदराः । तेषांप्रशमनार्थाय प्रायश्चित्तमिदं स्मृतम् । एतेषु दद्या-द्विप्राय जलधेनुं विधानतः । सुवर्णरूप्यताम्राणां पलत्रयसमन्विताम् । प्रतिमाभङ्गकारी च अप्रतिष्ठः प्रजायते ।संवत्सरत्रयं सिञ्चेदश्वत्थं प्रतिवासरम् । उद्वाहये-त्तमश्वत्थं स्वगृह्योक्तविधानतः । तत्र संस्थापयेद्देवंविघ्नराजं सुपूजितम् । दुष्टवादी खण्डितः स्यात् स वैदद्याद्द्विजातये । रूप्यं पलद्वयं दुग्धं घटद्वयसम-न्वितम् । खल्लाटः परनिन्दावान् धेनुं दद्यात् सका-ञ्चनाम् । परोपहासकृत् काणः स गां दद्यात् समौक्ति-काम् । सभायां पक्षपाती च जायते पक्षघातवान् ।निष्कत्रयमितं हेम स दद्यात् सत्यवर्त्तिनाम्” ३ अ० ।“कुनखी नरकस्यान्ते जायते विप्रहेमहृत् । स तु स्वर्ण-शतं दद्यात् कृत्वा चान्द्रायणत्रयम् । औडुम्बरी ताम्र-चौरो नरकान्ते प्रजायते । प्राजापत्यं स कृत्वात्र ताम्रंपलशतं दिशेत् । कांस्यहारी च भवति पुण्डरीकसम-न्वितः । कांस्यं पलशतं दद्यादलङ्कृत्य द्विजातये । रीति-हृत् पिङ्गलाक्षः स्यादुपोष्य हरिवासरम् । रीतिपलशतंदद्यादलङ्कृत्य द्विजं शुभम् । मुक्ताहारी च पुरुषो जायतेपिङ्गमूर्द्धजः । मुक्तापलशतं दद्यादुपोष्य स विधानतः ।त्रपुहारी च पुरुषो जायते नेत्ररोगवान् । उपोष्यदिवसं सोऽपि दद्यात् पलशतं त्रपु । सीसहारी चपुरुषो जायते शीर्षरोगवान् । उपोष्य दिवसं दद्याद्-घृतधेनुं विधानतः । दुग्धहारी च पुरुषो जायते बहु-मूत्रकः । स दद्याद्दुग्धधेनुञ्च ब्राह्मणाय यथाविधि ।दधिचौर्य्येण पुरुषो जायते मदवान् यतः । दधिधेनुःप्रदातव्या तेन विप्राय शुद्धये । भधुचौरस्तु पुरुपोजायतेनेत्ररोगवान् । स दद्यान्मधुधेनुञ्च समुपोष्य द्विजातये । इक्षो-र्विकारहारो च भवेदुदरगुल्मवान् । गुडधेनुः पदातव्यातेन तद्दोषशान्तये । लोहहारी च पुरुषः कर्वुराङ्गःप्रजायते । लोहं पलशतं दद्यादुपोष्य स तु वासरम् ।तैलचौरस्तु पुरुषो भवेत् कण्ड्वादिपीडितः । उपोष्य मतु विप्राय दद्यात्तैलघटद्वयम् । आमान्नहरणाच्चैव दन्त-होनः प्रजायते । स दद्यादश्विनौ हेमनिष्कद्वयविनि-र्म्मितौ । पक्वान्नहरणाच्चैव जिह्वारोगः प्रजायते ।गायत्र्याः स जपेल्लक्षं दशांशं जुहुयात्तिलैः । फलहारीच पुरुषोजायते व्रणिताङ्गुलिः । नानाफलानामयुतं सदद्याच्च द्विजन्मने । ताम्बूलहरणाच्चैव श्वेतौष्ठःसंप्रजायते । सदक्षिणं प्रदद्याच्च विद्रुमस्य द्वयं वरम् ।शांकहारी च पुरुषोजायते नोललोचनः । ब्राह्मणायप्रदद्याद्वै महानीलमणिद्वयम् । कन्दमूलस्य हरणा-द्ध्रस्वपाणिः प्रजायते । देवतायतनं कार्य्यमुद्यानं तेनशक्तितः । सौगन्धिकस्य हरणाद्दुर्गन्धाङ्गः प्रजायते ।स लक्षमेकं पद्मानां जुहुयाज्जातवेदसि । दारुहारीच पुरुषः स्विन्नपाणिः प्रजायते । स दद्याद्विदुषे शुद्ध्यैकाश्मीरज--पलद्वयम् । विद्यापुस्तकहारी च किल मूकःप्रजायते । न्यायेतिहासं दद्यात् स ब्राह्मणायसदक्षिणम् । वस्त्रहारी भवेत् कुष्ठी संप्रदद्यात्प्रजापतिम् । हेमनिष्कमितञ्चैव वस्त्रयुग्मं द्विजातये ।ऊर्णाहारी लोमशः स्यात् स दद्यात् कम्बलान्वितम् ।स्वर्णनिष्कमितं हेमवह्निं दद्याद्द्विजातये । पट्टसूत्रस्यहरणान्निर्लोमा जायते नरः । तेन धेनुः प्रदातव्याविशुद्ध्यर्थं द्विजन्मने । औषधस्यापहरणे सूर्यावर्त्तःप्रजायते । सूर्य्ययार्घः प्रदातव्योमासं देयञ्च काञ्चनम् ।रक्तवस्त्रप्रबालादिहारी स्याद्रक्तवातवान् । सवस्त्रांमहिषीं दद्यान्मणिरागसमन्विताम् । विप्ररत्नापहारीचाप्यनपत्यः प्रजायते । तेन कार्य्यं विशुद्ध्यर्थं महा-रुद्रजपादिकम् । मृतवत्सोदितः सर्व्वोविधिरत्र विधीयते ।दशांशहोमः कर्त्तव्यः पायसेन यथाविधि । देवस्यहरणाच्चैव जायते धिविधोज्वरः । ज्वरोमहाज्वरश्चैवरौद्रोवैष्णव एव च । ज्वरे रौद्रं जपेत् कर्णे महारुद्रंमहाज्वरे । अतिरुद्रं जपेद् द्रौद्रे वैष्णवे तद्द्वयं जपेत् ।नानाविधद्रव्यचौरोजायते ग्रहिणीयुतः । तेनान्नोदकव-स्त्राणि हेम देयञ्च शक्तितः” ४ अ० । “मातृगामी भवेद्यस्तुलिङ्गं तस्य विनश्यति । चाण्डालीगमने चैव हीनकोषःप्रजायते । तस्य प्रतिक्रियां कर्त्तुं कुम्भमुत्तरतोन्यसेत्कृष्णवस्त्रसमाच्छन्नं कृष्णमाल्यविभूषितम् । तस्योपरि-न्यसेद्देवं कांस्यपात्रे धनेश्वरम् । सुवर्णनिष्कषट्केननिर्मितं नरवाहनम् । यजेत् पुरुषसूक्तेन धनदं विश्व-रूपिणम् । अथर्ववेदविद्विप्रोह्याथर्व्वाणं समाचरेत् ।सुवर्णपुत्रिकां कृत्वा निष्कविंशतिसङ्ख्यया । दद्याद्विप्रायसंपूज्य निष्पापोऽहमिति ब्रुवन् । निधीनामधिपोदेवःशङ्करस्य प्रियः सखा । सौम्याशाधिपतिः श्रीमान् ममपापं व्यपोहतु । इमं मन्त्रं समुच्चार्य्य आचार्य्याययथाविधि । दद्याद्देवं हीनकोषे लिङ्गनाशे विशुद्धये ।गुरुजायाभिगमनान्मूत्रकृच्छ्रः प्रजायते । तेनापि निष्कृतिःकार्य्या शास्त्रदृष्टेन कर्भणा । स्थापयेत् कुम्भमेकन्तु पश्चि-मायां शुभे दिने । नीलवस्त्रंसमाच्छन्नं नीलमाल्यविभू-षितम् । तस्योपरि न्यसेद्देवं ताम्रपात्रे प्रचेतसम् ।सुवर्ण्णनिष्कषट्केन निर्मितं यादसाम्पतिम् । यजेत्पुरुषसूक्तेन वरुणं विश्वरूपिणम् । सामविद्ब्राह्मणस्तत्रसामवेदं समामनेत् । सुवर्ण्णपुत्रिकां कृत्वा निष्कविंशति-संख्यया । दद्याद्विप्राय संपूज्य निष्पापोऽहमिति ब्रुवन् ।यादसामधिपोदेवोविश्वेषामपि पावनः । स साराब्धौकर्ण्णधारो वरुणः पावनोऽस्तु मे । इमं मन्त्रं समुच्चार्य्यं आचार्य्याय यथाविधि । दद्याद्देवमलङ्कृत्य मूत्र-कृच्छ्रप्रशान्तये । स्वसुतागमने चैव रक्तकुष्ठं प्रजायते ।भगिनीगमने चैव पीतकुष्ठं प्रजायते । तस्य प्रतिक्रियां कर्त्तुंपूर्व्वतः कलसं न्यसेत् । पीतवस्त्रसमाच्छन्नं पीतमाल्य-विभूषितम् । तस्योपरि न्यसेत् स्वर्ण्णपात्रे देवं सुरेश्वरम् ।सुवर्ण्णनिष्कषट्केन निर्मितं वज्रधारिणम् । यजेत्पुरुषसूक्तेन वासवं विश्वरूपिणम् । यजुर्वेदं तत्र सामऋग्वेदञ्च समाचरेत् । सुवर्ण्णपुत्रिकां कृत्वा सुवर्ण्णदश-केन तु । दद्याद्विप्राय संपूज्य निष्पापोऽहमिति ब्रुवन् ।देवानामधिपोदेवो वज्री विष्णुनिकेतनः । शतयज्ञःमहस्राक्षः पापं मम निकृन्ततु । इमं मन्त्रं समुच्चार्य्यआचार्य्याय यथाविधि । दद्याद्देवं सहस्राक्षं स पाप-स्यापनुत्तये । भ्रातृभार्य्याभिगमनाद्गलत्कुष्ठं प्रजायते ।स्ववधूगमने चैव कृष्णकुष्ठं प्रजायते । तेन कार्य्यं विशु-द्ध्यर्थं प्रागुक्तस्यार्द्धमेव हि । दशांशहोमः सर्वत्र घृताक्तैःक्रियते तिलैः । यदगम्याभिगमनाज्जायते ध्रुवमण्डलम् ।कृत्वा लोहमयीं धेनुं तिलषष्टिप्रमाणतः । कार्पासभार-संयुक्तां कांस्यदोहां सवत्सिकाम् । दद्याद्विप्राय विधि-वदिमं मन्त्रमुदीरयेत् । सुरभी वैष्णवी माता मम पापंव्यपोहतु । तपस्विनीसङ्गमने जायते चाश्मरीगदी । स तुपापविशुद्ध्यर्थं प्रायश्चित्तं समाचरेत् । दद्याद्विप्रायविदुषे मधुधेनुं यथोदिताम् । तिलद्रोणशतञ्चैव हिरण्येनसमन्वितम् । पितृष्वस्रभिगमनाद्दक्षिणांशव्रणी भवेत् ।तेनापि निष्कृतिः कार्य्या अजादानेन शक्तितः । मातु-लान्यान्तु गमने पृष्ठकुब्जः प्रजायते । कृष्णाजिनप्रदानेनप्रायश्चित्तं समाचरेत् । मातृष्वस्रभिगमने वामाङ्गे व्रणवान् भवेत् । तेनापि निष्कृतिः कार्य्या सम्यग्दान-प्रदानतः । भृतभार्य्याभिगमने मृतमार्य्यः प्रजा-यते । तत्पातकविशुद्ध्यर्थं द्विजमेकं विवाहयेत् ।सगोत्रस्त्रीप्रसङ्गेन जायते च भगन्दरी । तेनापिनिष्कृतिः कार्य्या महिषीदानयत्नतः । तपस्विनीप्र-सङ्गेन प्रमेही जायते नरः । मासं रुद्रजपःकार्य्योदद्याच्छक्त्या च काञ्चनम् । दीक्षितस्त्रीप्रसङ्गेनजायते दुष्टरक्तदृक् । स पातकविशुद्ध्यर्थं प्राजापत्य-द्वयञ्चरेत् । सजातिजायागमने जायते हृदयव्रणी ।तत्पापस्य विशुद्ध्यर्थं प्राजापत्यद्वयञ्चरेत् । पशुयोनौ चगमने मूत्राघातः प्रजायते । तिलपात्रद्वयञ्चैव दद्या-दात्मविशुद्धये । अश्वयोनौ च गमनाद्गुद-स्तम्भः प्रजायते । सहस्रकमलस्नानं मासं कुर्य्यात्शिवस्य च । एते दोषा नराणां स्युर्नरकान्ते नसंशयः । स्त्रीणामपि भवन्त्येते तत्तत्पुरुषसङ्गमात् । अश्व-शूकरशृङ्ग्यादि कृमिश्वशकटेन च । भृग्वग्निवान्तशस्त्राश्म-विषोद्बन्धनजलैर्मृताः । व्याघ्राहिगजभूपालचौरवैरिवृका-हताः । वृक्षतल्पमृता ये च शौवसंस्कारवर्जिताः ।विसूचिकान्नकबलदवातीसारतोमृताः । शाकिन्यादिग्र-हैर्ग्रस्ता विद्युत्पातहताश्च ये । अस्पृश्या अपवित्राश्चपतिताः पुत्रवर्जिताः । पञ्चत्रिंशत्प्रकारैश्च नाप्नु-वन्ति गतिं मृताः । पित्राद्याः पिण्डभाजः स्युस्त्रयोलेपभुजस्तथा । ततोनान्दीमुखाः प्रोक्तास्त्रयोऽप्यश्रुमुखा-स्त्रयः । द्वादशैते पितृगणास्तर्पिताः सन्ततिप्रदाः ।गतिहीनाः सुतादीनां सन्ततिं नाशयन्ति ते । दश-व्याघ्रादिनिहता गर्भं निघ्नन्त्यथो क्रमात् । द्वादशास्त्रादिनि-हता आकर्षन्ति च बालकम् । विषादिनिहताघ्नन्ति दशसुद्वादशस्वपि । वर्षैकबालकं कुर्य्यादनपत्योऽनपत्यताम् ।व्याघ्रेण हन्यते जन्तुः कुमारीगमनेन च । विषदश्चैवसर्पेण गजेन नृपदुष्टकृत् । राज्ञा राजकुमारघ्नश्चौरेणपशुहिंसकः । वैरिणा मित्रभेदी च वकवृत्तिर्वृकेण तु ।गुरुघातो च शय्यायां मत्सरी शौचवर्जितः । द्रोहीसंस्काररहितः शुना निक्षेपहारकः । नरोविहन्यते-ऽरण्ये शूकरेण च पाशिकः । कृमिभिः कृत्तवासाश्चकृमिणा यो निकृन्तनः । शृङ्गिणा शङ्करद्रोही शकटेनच सूचकः । भृगुणा मेदिनीचौरोवह्निना यज्ञहानि-कृत् । दवेन दक्षिणाचौरः शस्त्रेण श्रुतिनिन्दकः ।अश्मना द्विजनिन्दाकृद्विषेण कुमतिप्रदः । उद्बन्धनेनहिंस्रः स्यात् सेतुभेदी जलेन तु । द्रुमेण राज-दन्तिहृदतीसारेण लौहहृत् । शाकिन्याद्यैश्च म्रियतेसदर्पकार्य्यकारकः । अनध्यायेऽप्यधीयानो म्रियते विद्युतातथा । अस्पृश्यस्पर्शसङ्गी च वान्तमाश्रित्य शास्त्रहृत् ।पतितोमदविक्रेतानपत्योद्विजवस्त्रहृत् । अथ तेषां क्रमे-णैव प्रायश्चित्तं विधीयते । कारयेन्निष्कमात्रन्तु पुरुषंप्रेतरूपिणम् । चतुर्भुजं दण्डहस्तं महिषासनसंस्थि-तम् । पिष्टैः कृष्णतिलैः कुर्य्यात् पिण्डं प्रस्थप्रमा-णतः । मध्वाज्यशर्करायुक्तं स्वर्णकुण्डलसंयुतम् । अका-लमूलं कलसं पञ्चपल्लवसंयुतम् । कृष्णवस्त्रसमाच्छन्नंसर्व्वोषधिसमन्वितम् । तस्योपरि न्यसेदेवं पात्रं धान्य-फलैर्युतम् । सप्तधान्यन्तु सफलं तत्र तत् सकलंन्यसेत् । कुम्भोपरि च विन्यस्य पूजयेत् प्रेतरूपिणम् ।कुर्य्यात् पुरुषसूक्तेन प्रत्यहं दुग्धतर्पणम् । षडङ्गञ्चजपेद्रुद्रं कलसे तत्र वेदवित् । यमसूक्तेन कुर्व्वीतयमपूजादिकं तथा । गायत्र्याश्चैव कर्त्तव्योजपः स्वात्म-विशुद्धये । गृहशान्तिकपूर्व्वञ्च दशांशं जुहुयात्तिलैः ।अज्ञातनामगोत्राय प्रेताय सतिलोदकम् प्रदद्यात्पितृतोर्थेन पिण्डं मन्त्रमुदीरयेत् । इमं तिलमयंपिण्डं मधुसर्पिःसमन्वितम् । ददामि तस्मै प्रेताययः पीडां कुरुते मम । सजलान् कृष्णकलसांस्ति-लपात्रसमन्वितान् । द्वादश प्रेतमुद्दिश्य दद्यादेकञ्चविष्णवे । ततोऽभिषिञ्चेदाचार्य्योदम्पती कलसोदकैः ।शुचिर्वरायुधधरोमन्त्रैर्वरुणदैवतैः । यजसानस्ततोद-द्यादाचार्य्याय स दक्षिणाम् । ततोनारायणबलिः कर्त्तव्यःशास्त्रनिश्चयात् । एष साधारणविधिरगतीनामुदाहृतःविशेषस्तु पुनर्ज्ञेयोव्याघ्रादिनिहतेष्वपि । व्याघ्रेणनिहते प्रेते परकन्यां विवाहयेत् । सर्पदंशे नाग-बलिर्देयः सर्पस्तु काञ्चनः । चतुर्निष्कमितं हेम-गजं दद्याद्गजैर्हते । राज्ञा विनिहते दद्यात् पुरु-पन्तु हिरण्मयम् । चौरेण निहत धेनुं वैरिणानिहते वृषम् । वृकेण निहते दद्याद् यथाशक्ति चकाञ्चनम् शय्यामृते प्रदातव्या शय्या तूलीसम-न्विता । निष्कमात्रसुवर्णस्य विष्णना समधिष्ठिता ।शौचहीने मृते चैव द्विनिष्कस्वर्णजं हरिम । संस्का-रहीने च मृते कुमारञ्च विवाहयेत् । शुना हते चनिक्षेपं स्थापयेन्निजशक्तितः । शूकरेण हते दद्यान्म-हिषं दक्षिणान्वितम् । कृमिभिश्च मृते दद्याद्गोधूमान्नंद्विजातये । शृङ्गिणा च हते दद्याद्वृषभं वस्त्रसंयुतम् ।शकटेन मृते दद्यादश्वं सोपस्करान्वितम् । भृगुपातेमृते चैव प्रदद्याद्धान्यपर्व्वतम् । अग्निना निहतेदद्यादुपानहं स्वशक्तितः । दवेन निहते चैव कर्त्तव्यासदने सभा । शस्त्रेण निहते दद्यान्महिषीं दक्षिणा-न्विताम् । अश्मना निहते दद्यात् सवत्सां गां पय-स्विनीम् । विषेण च मृते दद्यान्मेदिनीं क्षेत्र-संयुताम् । उद्बन्धनमृते चापि प्रदद्याद्गां पयस्विनीम् ।मृते जलेन वरुणं हैमं दद्यात्त्रिनिष्ककम् । वृक्षं वृक्षहतेदद्यात् सौवर्णं स्वर्णसंयुतम् । अतीसारमृते लक्षं गायत्र्याःसंयतो जपेत् । शाकिन्यादिमृते चैवं जपेद्रुद्रं यथोचितम् ।विद्युता निहते चैव विद्यादानं समाचरेत् । अस्पर्शे च मृतेकार्यं वेदपारायणं तथा । सच्छास्त्रपुस्तकं दद्याद्वान्त-माश्रित्य संस्थिते । पातित्येन मृते कुर्य्यात् प्राजापत्यानिषोडश । मृते चापत्यरहिते कृच्छ्राणां नवतिञ्चरेत् ।निष्कत्रयमितं स्वर्णं दद्यादश्वं हयाहते । कपिनानिहते दद्यात् कपिं कनकनिर्म्मितम् । विसूचिकामृतेस्वादु भोजयेच्च शतं द्विजान् । तिलधेनुः प्रदातव्याकण्ठेऽन्नकबले मृते । केशरोगमृते चापि अष्टौ कृच्छ्रान्समाचरेत् । एवं कृते विधाने तु विद्यात्तदौर्द्ध्व-देहिकम् । ततः प्रेतत्वनिर्म्मुक्ताः पितरस्तर्पितास्तथा ।दद्युः पुत्रांश्च पौत्रांश्च आयुरारोग्यसम्पदः” ६ अ० ।भृगुभारतसंवादे रोगादिरूपकर्मविशेषविपाक उक्तो यथा-१ सर्व्वशेषः “वातपित्तादिभिर्दोषैर्यदुत्पन्नं प्रशाम्यति । अगदेनसुवैद्येन कर्म्मजं नोपशाम्यति । तस्मात् कर्म परि-ज्ञाय प्रायश्चित्तं करोति यः । स तु दोषैर्विनिर्मुक्तोभोगीव कञ्चुकोज्झितः । भवतीह पवित्रोऽपि मनुजोनिरुपप्लवः । निशम्य तस्य तद्वाक्यं प्रणम्य सं महा-मतिः । कृतकर्मोपशमनं विस्तरेण महामते! । वदस्वमुनिशार्दूल! नान्यो वक्ता त्वया विना । मुनिरुवाच ।धर्माधर्मसमायुक्ता लोभमोहसमावृताः । भवन्तिमानवाः सर्वे विष्णुमायावगुण्ठिताः । स्वकर्म्म-वशमासाद्य पतन्ति निरये नराः । ततो जन्म समासाद्य व्याधिं कर्मानुरूपतः । अवाप्य परितप्यन्ति पीड्य-मानाः समन्ततः । देवद्रव्यविनाशेन गुरुद्रोहादिकर्मभिः । क्रमात् सर्वेषु पच्यन्ते नरकेष्वा नही-क्षयात् । महापातकिनश्चापि सर्वेषु नरकेष्विहआचन्द्रतारकं यावत् पीड्यन्ते विविधैर्गदैः । उप-पातकिनश्चापि तदर्द्धमिह मानवाः । शेषैः पापैस्तद-र्द्धञ्च कालं प्राप्य विशेषतः । अथाधःपततां पुंसा-मधर्मः परिकीर्त्तितः । नरकाब्धौ महाघोरे पतनात्पापमुच्यते । तस्मात् पापेषु दुःखानि तीव्राणिसुबहून्यपि । तस्मात् पापं न कर्त्तव्यमात्मपीडाकरंयतः । कर्म्मानुसारि नरकं भुक्त्वाशेषं व्रजन्तिवै । भूमौ वृक्षलतागुल्मपशुपक्षिमृगादिभिः ।प्रत्यक्षं नरकं भुक्त्वा मानुषत्वं प्रपद्य च । तद्व्याधि-लक्षणं सर्वं संप्राप्य परितप्यते । पूर्वजन्मकृतपापं व्याधिरूपेण बाधते । तस्योपशमनं कार्य्यं मन्त्र-दानार्चनादिभिः । प्रायश्चित्तमकृत्वा तु न कुर्य्यात्कर्म किञ्चन । अनिस्तीर्णमधं नित्यं वर्द्धते द्विगुणं पुनः ।देवद्रव्यं द्विजप्राप्तं ब्रह्मस्वं ब्राह्मणस्त्रियः । द्रोहएषां न कर्त्तव्यस्त्वधोगतिभयात् सदा । स्वर्ण्ण-स्तेयी गुरोः शय्यायायी नद्यस्य मोजकः । ब्रह्महापिच तेषां वै संसर्गी चापि पञ्चमः । गर्भपातकरःषष्ठः कन्यादूषी च सप्तमः । स्त्रीबालघातकश्चापिनवमो न्यासहृत्तथा । विश्वासघातकश्चैव दशमःपरिकीर्त्तितः । एते दशविधा घोरास्तदन्य उपपा-तकाः । यत् पापं ब्रह्महत्याया द्विगुणं गर्भपातने ।प्रायश्चित्तं न तस्यास्ति देहत्यागो विधीयते । कृतदोष-सहस्राणां योषिद्द्विजतपस्विनाम् । न बधो नाङ्ग-विच्छेदो देशत्यागो विधीयते । नैते दण्ड्यामहीभर्त्तुर्यमस्य विषयङ्गताः । दण्डयन् दोषमाप्नोतितस्माद्राजा परित्यजेत् । यथापराधतो राजा शास्ताभवति शास्त्रतः । न तस्य कुरुते शास्तिं यमोमर्त्येषुशासिता । अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं वदन्तिये । प्रायश्चित्तं भवेत्तेषां महापातकिनश्च ते ।तस्माद्विमृष्य वक्तव्यं धर्म्मशास्त्रानुसारतः । ये विप्रान्न-नमन्ति नैव च गुरुं ये चाथ कर्मोज्झिता, ये शास्त्रोक्तविवर्जिता जनपदानां तापकाः पापिनः । ये वैद्यान्गणकान् ग्रहांश्च सुहृदः सन्मार्गगान् ये सदा, निन्दन्त्येवमहापदं गदभयं विन्दन्ति ते दुखिताः । ये नमन्ति-द्विजतीर्थमादरादौषधञ्च भिषजः प्रतिक्षणम् । इष्टमन्त्र-मखदानजं फलं ते भवन्ति निरुजो निरापदः । व्याधे-र्य्यदा गदविखण्डनभेषजाद्यै, र्दोषो न याति शमनंसुकृतप्रयोगैः । तं पूर्व्वंजन्मजनितं तु विमृष्य सम्यक्कार्य्या सभा तदुपदिष्टयथोक्तशान्तिः” १ अ० ।२ नपुंसकता “साध्वी योवनसम्पन्ना त्यक्ता दोषैर्बहिष्कृता ।तेन दोषेण राजेन्द्र! नपुंस्त्वमनुगच्छति । मूष्कच्छेदन-कृद्यस्तु सोऽपि षण्डत्वमश्नुते । रजस्वलाम् स्थितांभार्य्यां सन्निधौ यो न् गच्छति । षण्डत्वन्तु भवेत् तस्यजन्म चासाद्य भूपते!” ।३ अल्पायुःप्रजता “शृणु विप्र! पुरा स्नातुं गतस्त्वं सरितस्त-टम् । गावः कतिपयास्तत्र तृषार्त्ता वारितास्त्वया ।तस्य विघ्नस्य पाकोऽयं जायन्तेऽल्पायुषः प्रजाः” ।४ अकिञ्चनता “अदाता निष्ठुरो जातः स च धर्मस्य निन्दकः ।महाधनो न देवाग्निं ब्राह्मणं तोषयन् पुरा । आयुः-शेषे मृतिं प्राप्य गृहीतो यमकिङ्करैः । बद्ध्वा पाशेनसंनीतो यत्रास्ते धर्मराड्विभुः । चित्रगुप्तेन तत्पापंविस्तृतञ्च यमाज्ञया । तेन मर्त्येंमहाढ्येन हुतं दत्तंन किञ्चन । लोलाख्यस्य नरकस्य विषयेऽयं द्विजो भवेत् ।आज्ञप्तः किङ्करैर्नीतो निःक्षिप्तोनरकार्णवे । लोलाख्य-नरके घोरे सर्वप्राणिभयङ्करे । लोलाख्यनकरस्येहलक्षणं त्वमतः शृणु । सर्व्वत्र दर्शयेत् सर्वं भक्ष्यपानादि-सर्वतः । मृगतृष्णाजलाकारं दृश्यते न तु लभ्यते ।नैराश्यं प्राप्य विवशः क्षुत्पिपासासमाकुलः । बहुकालन्तु विविधं भुक्त्वा जन्म प्रपद्य च । अकिञ्चनत्वमासाद्यमहाक्लेशञ्च विन्दति । अत्यर्थं कदनं भुङ्क्ते कदन्नमतिदुर्लभम् । स तु भिक्षाटनेनापि जीर्णाम्बरधरः सदा”५ वियोगः “अयं दुष्टोदुराचारं दुष्टबुद्ध्या चकार यत् । स्नेह-भेदकरोयस्मात्तस्माद्दण्ड्योयमस्य हि । इत्युक्त्वा शृङ्खलै-र्बद्ध्वा ताडयित्वा भृशं बहु । नीत्वा नियोगिनस्तत्र यत्रास्तेदण्डनायकः । दृष्ट्वा तं चित्रगुप्तेन तत्पापं प्रकटी-कृतम् । व्यामोहके तु नरके पातितो दुर्मति-र्नृप! । व्यामोहकस्य यच्चिह्नं मानं वक्ष्याम्य-शेषतः । व्यायामः सप्ततिस्तस्य योजनं दुर्वहं परम् ।कुम्भाकारं निराकारं धूमोष्मव्याप्तमन्तरम् । वायोर्गतिर्नतत्रास्ति न च रश्मिर्विभावसोः । मूढस्य पतनं तत्र यश्चमैत्रीविभेदकः । ज्ञात्वा मन्त्रस्य निष्पाद्यं विमन्त्रं योविधास्यति । सोऽपि मृत्युवशं प्राप्य मोहकाख्यञ्च गच्छति ।मिथ्यापवादमन्येषां यः करोति मुधामतिः । तस्य मिथ्या-भिशंसेन मोहकाख्ये गतिर्भवेत् । यानि मिथ्याभिशंसेनग्रतन्त्यश्रूणि रोदनात् । तानि पुत्रान् पशून् घ्नन्ति तेषांमिथ्याभिशंसिनाम् । मोहकाख्ये महाघोरे पतन्त्य ते दुरा-शयाः । पूर्व्वापरपरिज्ञानंविहीनः परिमुह्य च । एवमेतत्सहस्राणि वर्षाणि च चतुर्दश । भुक्त्वा मृगतनुं प्राप्यमृगीदेहसमाकुलः । व्यापादितोनृशंसेन नवशोकसमा-वृतः । मृगयूथपरित्यक्तस्त्वेकाकी तिष्ठते पुनः । सोऽपिमृत्युवशं प्राप्य मत्स्ययोनौ प्रजायते । ततोमानुष्यमासाद्यवियोगे परितप्यते” ।६ गेत्रामयः । “पुरा विप्र! गृहस्थस्य दीपस्य हरणंकृतम् । तव पुत्रेण भो विप्र! तेन काणत्वमस्यवै । कोटवीञ्च प्रपश्येद्यः सतीं वापि पराङ्गनाम् ।सकामः कामतो मोहाद्रतिमालक्ष्य पश्यति । सोऽपिनेत्रामयं प्राप्य सीदतीह स्वकर्मतः । सभयं निरयं घोरंसंप्राप्य कदनं बहु । भुक्त्वा जन्म समासाद्य दुष्टकर्म-समुद्भवाम् । मानुषीन्तु तनुं प्राप्य निष्कृतिं न करोतियः । पुनर्जन्म समासाद्य प्राप्तं कर्म न मुञ्चति” ।७ कुब्जत्वम् । “देवताप्रतिमां दृष्ट्वा यस्तां नैवाभिवादयेत् ।ब्राह्मणञ्च गुरुं श्रेष्ठं ब्रह्मचारितपस्विनम् । श्मशानेजायते वृक्षः काकगृध्रोपसेवितः । भुक्त्वा काल-मशेषञ्च मानुषत्वमवाप्य सः । कुब्जत्वमश्नुते तस्मात् कर्म-णो मानुषो ध्रुवम्” ।८ खञ्जत्वम् छिन्नपादत्वञ्च “उपानहं हरेद् यस्तु तथैवकाष्ठपादुकाम् । तप्तबालुकदुर्भेद्यमङ्गे प्राप्य च सीदति ।स नीतोयमदूतैश्च ताड्यमानो भृशं मुहुः । प्रवेश्य-दक्षिणं द्वारं बद्ध्वा पादद्वये दृढम् । हाहाकारस्तु सर्वत्रश्रूयते यत्र भीषणः । नीत्वा यमाज्ञया दूतै रौरवे चनिवेशितः । रौरवस्य च यन्मानं तन्मे निगदतःशृणु । लक्षयोजनविस्तीर्ण्णं गभीरं स्याद्दिवावृतम् ।दह्यमानस्तु तत्रैव पतितः पुनरुत्थितः । पुनः पतति-तत्रैव क्रन्दमानो मुहुर्मुहुः । अनेककालमासाद्य पारंप्राप्य सुदुःखितः । मानुषीं योनिमासाद्य खञ्जपादोभवेन्नरः । गृध्रसी (छिन्नपादता) व्याधिसंयुक्तो भवेज्जन्मनि-जन्मनि” ।९ छिन्नघ्राणता “श्रुतिस्मृतिकथायान्तु यस्तत्र विध्नमाच-रेत् । देवद्विजातिधर्म्मस्य सदा यो देवनिन्दकः ।सोऽपि मुत्युवशं प्राप्य यत्र याति च तत् शृणु । नैरृतेपश्चिमे भागे पिङ्गला नाम या पुरी । पिशाचा यत्र तिष्ठन्तिसोऽपि तत्र स्वकर्म्मतः । यमाज्ञया तत्र नीतो रक्षित-स्तत्रदुर्म्मतिः । तत्र दुःखं महाघोरं भुक्त्वा कर्म्मा-न्तरे पुनः । मानुषत्वमनुप्राप्य छिन्नघ्राणोह्यशोभनः ।स निन्द्यः सत्सभामध्ये न प्रवेश्योभवेद्धि सः” ।१० छिन्नहस्तता छिन्नपादता च “अतः परं छिन्नहस्तोयतो भवतिमानुषः । शृणुष्व तत् प्रवक्ष्येऽहं स्वकर्म्मवशतश्च सः । पितामाता गुरुर्वृद्धः क्रोधाविष्टेन ताडितः । विनाऽपराधतोजन्तुं योवा हन्याद्विमोहितः । यमलोके वसेत् सोऽपिछिन्नहस्तो भवेदिह । करेण ताडनाच्छिन्नपाणिर्भवतिपामरः । पादेन छिन्नपादस्तु मर्त्योवै जायते ध्रुवम्” ।११ छिन्नकर्णता । “मिथ्यापवाददुर्वृत्तं येन तापः परो-भवेत् । मानुषस्य, ततोदुष्टाः श्रावयन्ति महीपतिम् ।ते क्रूराश्छिन्नकर्णाश्च जायन्ते पृथिवीतले” ।१२ कराङ्घ्रिहीनता । “सैन्ययोरुभयोर्यत्र संग्रामे चातिदारुणे ।स्वामिनं सङ्कटे त्यक्त्वा ये भग्नाः पापबुद्धयः । स मृतोगृह्यते दूतैभीषणैर्विकटाननैः । पूतिगन्धवृतैः पाशै-र्नीयते यमसादनम् । तर्ज्यमानः शरैः खड्गैः कूटमुद्गर-पाणिभिः । यमाज्ञाकारिभिस्तैस्तु पात्यते नरकं शृणु ।असिपत्रवनं घोरं नरकं शतयोजनम् । योज-नायुतगम्भीरं ज्वलत्खड्गसमाकुलम् । पाट्यन्तेतत्र तैः खड्गैः शितधारसमाहितैः । ये भग्नाःस्वामिनं त्यक्त्वा मित्रं प्राप्य च मानुषाः । क्रन्दमानाश्चतिष्ठन्ति यावदाभूतसंप्लवम् । कर्म्मावसाने जायन्तेमानुषत्वमतः परम् । कराङ्घ्रिभ्यां विहीनस्तु दुष्टजीवःप्रवर्त्तते । नास्त्यस्य कर्म्म संप्रोक्तं येन मुक्तो भवे-न्नरः । जन्मजन्मनि जायन्ते छिन्नाङ्घ्रिकरवेदनाः ।१३ प्रसङ्गात् युद्धकर्म्मविपाकः “अतःपरन्तु ये शूरास्तेषांमाहात्म्यमुत्तमम् । स्तोकमात्रमतस्तात । शृणुष्वगदतोमम ।विद्रुतेषु च सैन्येषु सङ्कटेषु समन्ततः । नृपं प्रति यदागच्छेत् सा यात्रा क्रतुभिः समा । ललाटदेशे रुधिरंस्रवच्च यस्यापि वक्त्रे पततीह किञ्चित् । तत् सोमपानेनहि तस्य तुल्यं संग्रामयज्ञे मधवाऽप्युवाच । शूरत्वे-यस्य गात्राणि शरखड्गादितोमरैः । भिन्दन्ति न यमःशक्तोग्रहीतुं पुण्यभाजनम् । अश्वोपरि च यः शूरःप्राणांस्त्यजति धातितः । तिस्रः कोट्योऽर्द्धकोटी चद्विगुणं कालतस्तु सः । अप्सरोभिः सेव्यमानोदिव्य-लोकमवस्थितः । तमेव पुरुषं प्राप्य दृष्ट्वा सर्व्वाः सुरा-ङ्गनाः । विमानस्थाः समस्ताश्च गायमानाः परस्परम् ।परित्यज्य सुरान् यान्ति स्वामिनं प्राप्य हर्षिताः” ।१४ पक्षरोगः “अशस्त्रः पुरुषो येन सशस्त्रेण हतो रणे ।तत्कर्म्मणः परिज्ञानं विस्तरेण शृणुष्व वै । त्यक्तास्त्र-हत्यादोषेण यमस्य पुरुषैर्भृशम् । आयुःशेषेऽथ संगृह्ययमदूतैर्भयानकैः । तस्मिन् मार्गे दुराधर्षे नीत्वाऽऽज्ञा-भिर्यमस्य च । कृकवाख्ये महाघोरे निग्ये च वसेद्धिसः । प्रक्षिप्तश्चिरकालन्तु महादुःखेन पच्यते । ततोरासभयोनौ स जायते वै स्वयं नरः । ततो मृगस्ततोव्याघ्रस्ततः शस्त्रेण हन्यते । सारमेयत्वमासाद्य मत्स्य-योनौ प्रजायते । तस्माद्वै मानुषीं प्राप्य पक्षरोगेण गृह्यते” ।१५ वैधव्यम् “विरूपं स्वामिनं दृष्ट्वा यौवनेनातिगर्व्विता । दिवा-निन्दति दुर्व्वाक्यैः शय्यां न भजते निशि । तेन दोषेणभो देवि! वैधव्यं त्वमपाश्रिता । आज्ञप्ता रमणी या चस्वामिनं भजते न हि । सा वैधव्यमवाप्नोति दरिद्रं याव-मन्यते । तस्य दोषस्य पाकोऽयं देवि! वैधव्यमागता” ।१६ बन्ध्यता “पयःपातुमना वत्सस्त्वया पूर्व्वं निवारितः । पुरुषोबन्ध्यतां याति वीर्य्यविक्रमदोषतः । अदक्षिणं व्रतं कृत्वाबन्ध्यत्वमनयोर्भवेत् । अदैवतं मिष्टफलं यो भुङ्क्ते प्राप्य-लोभतः । सोऽपि बन्ध्यत्वमाप्नोति कथयामि ततः शृणु ।दृष्ट्वा तु मैथुनीभावं विध्नं तु कुरुते च यः । सोऽपि बन्ध्य-त्वमाप्नोति सर्वजन्मनिजन्मनि ।१७ गर्भस्रावः “त्रेतायुगस्य मध्ये तु सञ्जयोनाम भूपतिः । तस्यभार्य्याद्वयं जातं सुमित्रा नन्दिनी तथा । नन्दिनी सुभगातस्य सुमित्रा या यशस्विनी । प्रसूता सा स्वपुत्रेण तेनपत्या सुमानिता । सापत्न्यपरुषाविष्टा नन्दिनी नीतिवर्जिता ।शून्यालये च सहसा छद्मनाऽऽनीय तं सुतम् । शतधाखण्डकं कृत्वा तैलपाके विचिक्षिपे । सानेन विधिनाराजन्! दुष्टमत्या निजेच्छया । चकार दारुणं कर्म्मतत्फलं शृणु भूपते! । साकालवशमासाद्य बालघाताभि-दोषतः । गृहीत्वा निष्ठुरैर्बद्ध्वा पाशेन यमकिङ्करैः । नीत्वानिरयमध्ये तु सा प्रक्षिप्ता दुराशया । कर्म्मान्तेकोकिला नामवैश्यस्य च सुताऽभवत् । भूयोपि विश्वावसुनापरिणीता गृहाश्रमे । सर्व्वद्रव्यसमायुक्ते दासदासी-समाकुले । सा पुनः पञ्चमे मासि तृतीये वा चतुर्थकेगर्भस्रावोऽभवत् तस्यास्तेन दुःखेन दुःखिता” ।१८ मृतभार्य्यता “अतिक्रम्य त्वया ज्येष्ठं भ्रातरं चात्मनःकृतः । पुरा परिणयस्तेन मृतभार्य्यत्वमागतः । सप्तम्यांयः स्पृशेत्तैलं ज्येष्ठा मार्य्यास्य नश्यति” ।१९ बहुपुत्रता अपुत्रता च “गवीमुखाद्बहिष्कृत्वा यस्तु द्रव्यं हरेत् पुनःशृणु तस्य यथा पापं कथयामि तवाग्रतः ।निर्जने दुर्वहे घोरे सिकताढ्ये मरुस्थले । कृमिर्भूत्वा वसे-त्तत्र क्षुत्पिपासासमाकुलः । मन्वन्तरत्रयं तत्र ततोनीहा-रसंप्लवे । शीर्य्यमाणस्तु निश्चेष्टः शीतवातार्दितो भृशम् ।कल्पमानन्तु दुःखेन मानुषोजायते मृतः । बहुपुत्री-भवेत् सोऽपि पुत्रं न लभते हि वा ।२० दौर्भाग्यम् “तृतीयासु च सर्वासु तैलस्पर्शस्त्वया कृतः ।दुर्भगत्वञ्च ते जातं न तापं कुरु सुन्दरि!” ।२१ सापत्न्यम् । “शृणु देवि! प्रवक्ष्यामि यत्तु सापत्न्यसम्भ-वम् । दुःखं सुपरमं स्त्रीणां स्वकर्मवशतः खलु ।मिथ्यावाक्यप्रवादेन विवादं कुरुते तु या । अन्योन्य-स्नेहवैषम्यं कारयित्वा व्रजेदधः । कर्मानुयायिनी-भूत्वा जीवेद्वर्षचतुष्टयम् । ततः पुनरसौ दीना दैवाद्भवतिमानुषी । सापत्न्यं ग्राप्य सन्तप्ता चित्तपीडासमन्विता ।भवतीति न सन्देहस्तस्य दानमतः शृणु” ।२२ जात्यन्तरम् “शृणु देव! प्रवक्ष्यामि येन जात्यन्तरं गतः ।मनुष्यो दुःखमाप्नोति भवेद्वै गर्हितो जनः । पुरा राजकुले-जातो विश्वसेनेति नामतः । एकदा ब्राह्मणी रण्डायौवनस्था तपस्विनी । पुष्पार्थिनी पुष्पवनं गता दृष्ट्वाथतेन सा । कामवाणार्दितेनाथ बलात्कारेण धर्षिता ।हृद्रोगेणाभिसंतप्ता ततः स्वभवनं गता । अत्रान्तरे गृहं तस्याभिक्षुरेकः समागतः । धर्षिता सापि तन्वङ्गी भिक्षवेऽन्नंददौ मुदा । इदं कृतं तया पापं शृणु तस्य फलं तथा ।तत्कर्म्मवशमासाद्य यमस्य विषयङ्गता । पुनर्जन्मसमासाद्याऽभवन्म्लेच्छकुलोद्भवा । म्लेच्छयोनिं परित्यज्यततः कैवर्त्तयोनिजा । एवं बहुवविधां योनिं समासाद्यद्विजाङ्गना । अमेध्यान्नञ्च यतये दत्त्वा प्रापगतिं नृप! ।मनुष्योदुःखमाप्रोति स भवेद्गर्हितोजनः”२३ सूकत्वम् “पुरा देवाग्रतो राजन्! गायमानो द्विजः क्वचित् ।नृत्यंश्च प्रणुवन् वाक्यैर्हास्ययुक्तैश्च निन्दितः । तस्य विघ्नस्यपाकोऽय न वाक् प्रसरते मुखात् । नृत्यमानन्तु देवाग्रेगायमानं प्रदृश्य च । नोपहासं प्रकुर्वीत महादोषो-भवेद्यतः” ।२४ गद्गदवचनता “अतः परं महाभाग! गद्गदत्वेन दूषिताः ।भवन्ति मानवा मर्त्येतच्छृणुष्व वदामि ते । जिगीषाकृष्ट-हृदयोविवादं प्रकरोति यः । गुरोर्निन्दाञ्च सूर्खत्वादस्यपापमतः शृणु । यमलोके तु तस्यैव कुट्ट्यते निशितैःजिह्वापि किङ्करः क्रुद्धेरजस्रं तस्य दोषतः ।अशेवकालपर्य्यन्तं दुःख प्राप्य महत्तरम् । मानुषत्व-मनुप्राप्य गद्गदो जायते नरः । ततो गद्गदया वाण्यामर्त्यः सीदति सर्वदा” ।२५ मुखरोगः । “पितृदेवगुरोर्निन्दां ये वै मिथ्या वदन्ति च ।अभक्ष्यभक्ष्यका ये च ते वै मुखगदार्द्दिताः । भवन्तिनरकस्यान्ते मानुषास्तस्थ निष्कृतिम् शृणु वक्ष्यामिभूपाल!” ।२६ कर्ण्णरोगः । “असम्बद्वन्तु यच्छद्वक्ति पापमन्तर्गतन्तु यत् ।समाकर्ण्ण्यापि मनुजः कर्ण्णरोगी भवेत् सदा । कर्ण्णशूलंभवेदेवं पूयशोणितसम्भवम् । कर्ण्णरोगमिति ख्यात-मवाप्य परितप्यते” ।२७ दुर्गन्धगात्रता । “चोरयित्वा तु गन्धाढ्यं द्रव्यं लोभपरा-यणः । पच्यते नरके घोरे मूत्रविष्ठासमाकुले । अप्र-तिष्ठेऽतिदुर्गन्धे दिव्यवर्षायुतत्रयम् । मर्त्ये तु शशकोभूत्वा जीवेद्वर्षचतुष्टयम् । ततोमृगस्तु सौगन्धो भूत्वाशस्त्रेण हन्यते । दुर्गन्धेन समायुक्तो मानुषत्वमवाप्य सः ।स्वकर्मवशतो राजन्! दुर्गन्धं गात्रमश्नुते” ।२८ दारिद्र्यं विरूपता च । “पुरा सङ्कल्पनृपतेरमात्येना-सतांशृणु । दानविघ्नः कृतस्तेन पाकोऽयं नान्यथाऽभवत् ।मा ददस्वेति यो ब्रूयाद्देवाग्निब्राह्मणेषु च । स नरस्तस्यपाकेन दरिद्रत्वेन गृह्यते । दरिद्रः कुरुते पापं पापाद्-याति यमालयम् । पुनरावृत्य पापेन दारिद्र्येणाभिगृह्यते ।न क्षयोऽस्ति च पापस्य तस्मात् पापं त्यजेत् सुधीः ।अदाता च भवेत् सोऽपि विरूपश्चापि दुर्विधः । तस्मात्कर्म परिज्ञाय दानं दद्यात् स्वशक्तितः” ।२९ सस्वेदपाणिपादता “चोरयित्वा तु लवणं मृतः क्षाराब्धि-संज्ञके । नरके पच्यते पश्चान्मानुषत्वमवाप्य सः । तस्यकर्म्मभवं चिह्नं जायते हस्तपादयोः । सस्वेदं मर्वदातस्य निष्कृतिं त्वमतः शृणु ।३० दाहज्वरः “पुरा येन गृहं ग्रामः क्षेत्रं दग्धन्तु वह्निना ।स मृतो रौरवं प्राप्य पीड्यमानः स्वकर्म्मणा । खदिरा-ङ्गारवद्दीप्तज्वालामालावगुण्ठिते । पतितस्तिष्ठते बत्रवर्षायुतशतत्रयम् । कर्मान्ते मानुषीं योनिमवाप्य परि-दह्यते । ज्वरदाहेन घोरेण येव शाम्यति तच्छृणु” ।३१ अग्निमान्द्यम् “कल्मषं नाम नरकं पूयशोणितसंप्लुतम् ।विस्तारलक्षदशकं महामोहसमाकुलम् । तिष्ठन्ति पापिन-स्तत्र द्विजपाकस्य विप्लवात् । ततो मानुषतां प्राप्य भुक्त्वापापं सुदुष्करम् । अग्निमान्द्यं भवेत्तस्य निषकृतिंकथयामि ते ।३२ अजीर्णरोगः “त्वया कृतं पुरा कर्म यदयुक्तञ्च तच्छृणु । कृत्वापाकञ्च पाकाग्निं शमयित्वा जलेन च । भोजनञ्च कृतंतस्मादजीर्णत्वमुपागतः” ।३३ अतोसार “अथातीसारो राजेन्द्र! जायते येन कर्म्मणा ।देहिनां दोषदुर्वृत्तः प्रशाम्यति यतः शृणु । अत्यन्तगुप्तंपापिष्ठं निरुच्छ्वासकनामकम् । सोपद्रवञ्च नरकंविषमोपद्रवाकुलम् । निर्वातमूष्मणा युक्तं दंशकादिपरि-प्लुतम् । पच्यन्ते पापिनस्तत्र वर्षलक्षायुतत्रयम् ।यज्ञाग्निदूषका ये च ये च दानविलोपकाः । परस्य-छागं चौर्य्येण यातयन्तीह तेऽधमाः । नरकान्ते मत्स्य-योनौ भूत्वा वर्षत्रयं पुनः । मानुषत्वमनुप्राप्य अती-सारेण भृह्यते” ।३४ ग्रहिणी “अत्यर्थं संग्रह ये च कुर्वन्ति धनलुब्धकाः ।न दास्यन्ति न चाश्नन्ति हव्यं कव्यञ्च किञ्चन ।तथा गोभूमिहर्त्तारो निष्ठुरा ये च गृध्रकाः । अदुष्टा-नपतितां भार्य्यां यौवने यः परित्यजेत् । स मृतःपच्यते राजन्! स्वकर्म्मवशतः शृणु । नरकञ्च पूरी-षाख्यं प्रलयानलपीडितम् । कल्पकोटिशतं तत्रदह्यन्ते पापदेहिनः । नरकान्ते गजयोनिं म्रियतेप्राप्य बन्धनात् । तस्मात्तु मानुषीं योनिं ततःप्राप्यावसीदति । ग्रहणीरोगवान् भूत्वा पशुद्रव्यधना-दिकम् । प्राप्यते विविधैर्दुःखैस्तस्य वक्ष्यामि निष्कृतिम्” ।३५ पाण्डुरोगः “शृणु राजन्! प्रवक्ष्यामि पाण्डुरोगोद्भवोयतः । परभार्य्यारतोयश्च नरश्चैवान्त्यजारतः । स मृतःकिङ्करैर्याम्यैर्बद्धः शृङ्खलया दृढम् । निष्ठुरैस्ताड्यमानस्तुक्रन्दमानो मुहुर्मुहुः । शोचमानः स्वकं कर्म्म प्रच-लंश्च पदेपदे । संयमन्यां प्रवेश्यैनं दक्षिणद्वारि-भीषणे । शमनाग्रं समानीय परभार्य्याभिमर्दकम् ।ततोऽमुं यमदूतोऽपिदृढं बद्ध्वानिरन्तरम् । तं दृष्ट्वा चित्र-गुप्तेन पापकर्मानुसारतः । प्रत्यक्षञ्चावदत् सर्व्वं दुश्चे-ष्टादिकमस्य वै । कथितोऽयं दुराचारः परस्त्रीरमण-प्रियः । नयस्व नरकं भीमं ज्वलन्तीमायसींशिलाम् । भृशमालिङ्गनञ्चास्य कारयन्ति यमाज्ञया ।वर्षायुतसहस्रे द्वे परं तापञ्च विन्दति । पुनः स्वकर्म्म-प्राकेन ज्वलदग्निमये ह्रदे । विलिप्तो दह्यते तत्र वेष्ट्य-मानः स्वकर्म्मणा । वर्षलक्षसहस्राणि नव सप्तायुतानि च । तस्माद्भूमिपथं गत्वा मानुषत्वमवाप्य च ।ण्डुरोगमनुप्राप्य क्षीणचेताः प्रपद्यते” ।३६ कामला “भक्तादीनान्तु चौरा ये गतिं तेषां ततः शृणु ।आयुःशेषे तु ते याम्यैर्गणैर्नीता यमाज्ञया । घोरा पुरीतिविख्याता पिङ्गला नाम दुस्तरा । पिशाचास्तत्र तिष्ठन्तिस्वकर्म्मवशपीडिताः । यत्र संवर्द्धते नित्यं क्षुत्पिपासा-महोद्धता । भक्तचौरान् जनांस्तत्र प्रवेश्य यमकिङ्करैः ।प्रयान्ति सदनं याम्यं चित्रगुप्तोऽस्ति यत्र वै । स तत्रभक्तचौरश्च पिशाचकुलवेष्टितः । भक्तसंख्याप्रमाणेन वसतितत्र कर्म्मतः । कर्म्मान्ते वायसीं योनिं प्राप्य दुःखञ्चविन्दति । काकोऽष्टादश वर्षाणि तस्मात् कङ्कः प्रजायते ।सोऽपि द्वादशकं जीवेत्ततोभवति मानुषः । कामला-रोगवान् भूत्वा तद्दोषजनितेन च” ।३७ कासः “कासः पञ्चविधोराजन्! जायते येन कर्म्मणा । तदहंविस्तराद्वक्ष्ये भूप! कर्मवशाद्यतः । येन दग्धोजनो नित्यंमिथ्यावाक्यैः सुदारुणैः । पित्तप्रबलकं कासं प्राप्यकासेन सीदति । ब्राह्मणस्थानविध्वंसी वातकासार्द्दि-तोभवेत् । गृह्यते श्लेष्मकासेन जलाशयस्य विघ्नतः ।ब्रह्मविष्णुशिवं यस्तु भिन्नभावं प्रपश्यति । सन्निपातो-त्थकासेन गृह्यते त्वमतः शृणु । अयज्ञेन पशुं हत्वा-भुङ्क्ते मांसन्तु योनरः । सर्वदोषोत्थकासेन गृह्यते शृणुभूपते! । इति कासपरिज्ञानं कथितञ्च मया शृणु ।पुनस्ते कथयिष्यामि यत्ते मनसि वर्त्तते । राजोवाच ।श्रुतं कासपरिज्ञानं कर्मणा येन जायते । नरकं श्रोतु-मिच्छामि त्वत्तोब्रह्मविदां वर! । भृगुरुवाच । स तु कर्मसमासाद्य पच्यते यत्र तच्छृणु । चिन्तयन् स्वानि कर्माणिरोदमानोनिरन्तरम् । करम्भबालुकानामनरकं योजना-युतम् । कूपाकारं भृशं दीप्तं वालुकाङ्गारकण्टकैः ।दह्यते भिद्यते तत्र वर्षलक्षत्रयावधि । नरकाज्जायतेदुर्गेजले कुम्भीरसंज्ञकः । कुम्भीराच्छूकरोभूत्वा जीवे-द्वर्षचतुष्टयम् । तस्माद्वृषत्वमासाद्य महाभारवहोभवेत् ।तदन्ते मानुषीं योनिं संप्राप्य परिदह्यते । असाध्यकास-रोगेण तप्यमानोऽवसीदति” ।३८ श्वासकासः । “श्वासकासो महानुग्रो भवेद्देहाभिघातकः ।उद्भवेत् कर्मणा येन तन्मे निगदतः शृणु । महोर्द्धच्छिन्नतमकक्षुद्रभेदाच्च पञ्चधा । श्वासः संजायते नॄणांपृथक्कर्मवशानुगः । यस्तु यज्ञमनासाद्य पशुश्वासंनिरुध्य च । हन्ति, खादति वा मोहात् महाश्वासेन १गृह्यते । पौराणिककथामध्ये यस्तु वाचाऽन्यथा वदेत् ।ऊर्द्धश्वासं २ समासाद्य दुनोत्यहरहर्भृशम् । निषिद्धदान-ग्रहणाच्छिन्नश्वासेन ३ गृह्यते । मर्त्यः शास्त्रार्थनिर्णिक्तंवाक्यं यो दूषयत्यपि । पीड्यते तमकश्वासैः ४ क्षुद्रैः ५पाकस्य विघ्नतः । परत्र कर्म्मणा देही नरकेषु विप-च्यते । नरकान्ते व्यालयोनि व्याघ्रीं शौकरवायसीम् । पृथक्कर्मवशाद्योनिं गत्वा स परितप्यते ।मानुषत्वमनुप्राप्य पूर्वोक्तनोपगृह्यते” ।३९ यक्ष्मरोगः । “यक्ष्मरोगस्य विज्ञानं दुर्वृत्तं सर्वरोगतः ।सहायांस्तस्यवै राजन्! कययामि तवाग्रतः । सेनापतिःक्षयगदस्य च पाण्डुरोगोदाहज्वरोऽग्रसरएव बलासमा-स्यम् । हृल्लासकः कामलकः सहायोयौ श्वासकासा-वपि मन्त्रिणौ च । स श्रुत्वैवंविधं घोरं यक्ष्मरीगं सु-दारुणम् । प्रणम्याह मुनिश्रेष्ठं त्रिकालसर्वदर्शिनम् ।राजोवाच । अस्य रोगस्य चोत्पत्तिर्जायते केनकर्मणा । केन दानेन विप्रेन्द्र! परत्रापि न वर्द्धते ।तत्सर्वं विस्तराद्ब्रूहि श्रोतुमिच्छामि यत्रतः । भृगु-रुवाच । पुरा येन हतो विप्रोन्यासापहरणं कृतम् ।वृत्तिच्छेदः कृतो येन मधुविघ्नकरश्च यः । सर्वस्वेन प्रजा-पीडा कृता येन स्वकर्मणा । स मृतो दह्यते याम्यैर्दूतैरेव भयङ्करैः । निवेश्यान्धतमे मार्गे दक्षिणद्वारि-भीषणे । ततो नीत्वा यमस्याग्रे कम्पमानञ्च पापिनम् ।संयमन्यां यमस्याग्रे नीत्वा तं षापकारिणम् । हृष्ट-पुष्टाश्च ते दूताश्चित्रगुप्तान्तिकं ययुः । चित्रगुप्तश्च तं दृष्ट्वाक्रोधारुणितलोचनः । चित्रगुप्त उवाच । इमं पापंदुराचारं नरकं नय दुर्वहम् योजनानां शतं लक्षंकुम्भीपाकं सुदारुणम् । ताम्रकुम्भमये दीप्ते वालुकाङ्गार-संवृते । एवंविधे तु दुर्वृत्तः क्षिप्तस्तत्र स्वकर्मतः । दह्य-मानोऽतिदुःखेन यावदाभूतसंप्लवम् । कालान्ते सपुनः पापी कृमियोनौ च जायताम् । तत्र जीवति वर्षाणिदशपञ्च च भूपते! दुष्कृतस्य क्षयं कृत्वा ततो भवतिमानुषः । अत्युग्रक्षयरोगेण पीड्यमानस्तु दह्यते” ।४० रक्तपित्तम् । “शृणु राजन्! पुरा वृत्तं यस्येदं कदनंमहत् । कण्टकारण्यसंस्थाने सुव्रतो नाम वै द्विजः । तस्यपुत्रो दुराचारः सर्वधर्मबहिष्कृतः । परद्रव्याभिलाषी चपरभार्य्यारतिप्रियः । एकदा कामतस्तेन पितृव्यस्य बधूर्ब-लात् । धर्षिता तेन दोषेण यमस्य विषयङ्गतः । नरकान्तेकुले जातस्तस्य कर्मसमुद्भवम् । रक्तपित्तगदं भुङ्क्ते स्वक-र्मार्जितदोषतः” ।४१ गुल्मरोगः “अतःपरं प्रवक्ष्येऽहं गुल्मरोगं सुदारुणम् ।यस्मादुत्पद्यते पुंसी मृतो वा याति यत्र वै । कर्मतोयाति तां योनिं येनोपशमनं भवेत् । काकोलनामनरकं कृमिपूयपरिप्लुतम् । क्षिप्यते तत्र दुष्टात्मा एकाकीमिष्टभोजनः । अन्त्यजागमनेनापि नरकं नाम दुर्ग-मम् । तस्मात् पिपीलिका भूत्वा जीवेद्वर्षचतुष्टयम् ।दुष्कृतस्य क्षयं कृत्वा जायते तत्र मानवः । गुल्मरोगंसमासाद्य वेदनैः परितप्यते । अगदैर्न शमं याति तदाज्ञेयं तु कमजम्” ।४२ शूलरोगः “शृणुष्व कथयिष्येऽहं तव स्नेहान्मही-पते! । मूढा निरपराधेन ये लोककदनप्रदाः । घ्नन्तिशूलेन चास्त्रेण वाक्यदोषोद्गमेन च । तानेव निष्ठुरादूता यमस्याज्ञाकराश्च ये । महाप्रेताख्यनिरये दीप्त-शूलसमावृते । भेदयन्तीव तत्रैव दम्पत्योर्भेदकानपि ।भुक्त्वा तु कदनं घोरं मन्वन्तरचतुष्टयम् । नरकान्तेततो मर्त्येर्जायते पक्षियोनिषु । पक्षी भूत्वा वियोगी-स्यात् जीवेद्वर्षचतुष्टयम् । मानुषत्वमवाप्यैव शूल-रोगातुरो भवेत्” ।४३ अर्शोरोगः । “शृणुष्व तव पुत्रेण पुरा जन्मान्तरे कृतम् ।साध्वीमृतुमतीं स्नातां सन्निधिं नागतश्च सः । एतत्-कर्म कृतं तेन गृहीतश्चार्शसा च सः । आत्महा भ्रूणहायस्तु कृतो येन च गोबधः । ते चार्शसा च गृह्यन्तेभुक्त्वा कष्टं सुदुःसहम् । पञ्चत्रिंशत् समाः कोट्योलक्षाणामूनविंशतिः । तामिस्राख्यं महाघोरं गाढान्धतम-सावृतम् । सर्वापदा समाकीर्ण दुष्प्रेक्ष्यं जीववर्जितम् ।स तिष्ठेद्विवंशा दीनी येनेदं दुष्कृतं कृतम् । कर्मक्षय-मनुप्राप्य पश्चाद्भवति मानुषः । शेषेऽर्शोगदवान् भूत्वादुःखेन पीडितो भवेत्” ।४४ भगन्दररोगः । “गुदस्य द्व्यङ्गुले पार्श्वे पित्तरक्तोदका-कृतिः । प्रभवेद्विकटाकारो दुर्वहो मर्मभेदकः । स वै भग-न्दरो ज्ञेयः कर्मजो नोपशाम्यति । आचार्य्यभार्य्यागमनंये कुर्वन्ति नराधमाः । पक्षपातमधर्मेण बालवृद्धधना-पहाः । ते पतन्ति महाघोरे नरके च सुदारुणे । यःकेशमूलहृन्मर्त्योबाहनं भद्रपीठकम् । चीरयेद्यस्तु दुर्बुद्धि-गृह्णीयात् स्त्रीधनं च यः । स मृतस्तु विण्मलाख्यंनरकं प्राप्य सीदति । गृध्रश्वव्याघ्रगोमायुभक्ष्यमाणोऽ-तिदुःखितः । भुक्त्वायुतसहस्रञ्च नवसंख्यं क्षपेत् पुनः ।सोऽप्यनेनैव रोगेण जन्मादावपि गृह्यते” ।४५ छर्द्दिः “शृणुष्व नृपशार्दल! कथयामि तवाग्रतः । गवागृहीतं यत्किञ्चित् मुखादाकृष्य योहरेत् । सोऽन्यजन्मसमासाद्य वातांशच्छर्दिमान् भवेत् । अतर्पयित्वा पितरंजलपानं करोति यः । मृतः पैशीचकीं योनिं संप्राप्यक्षुत्पिपासया । पीड्यते तप्यते तावद् यावद्व्योम-गती रविः । मानुषत्वमनुप्राप्य पित्तांशच्छर्दिपीडितः ।वातपित्तपरिज्ञानं सद्वैद्यस्योपदेशतः । ज्ञात्वा कर्मो-द्भवं दानं देयं मुक्तिमभीप्सता” ।४६ हिक्का “हिक्का न शाम्यते यस्य सद्वैद्यस्योपदेशतः । तांविद्यात् कर्मजां हिक्कां शृणु भूप । वदामि ते । उत्सादितंयेन तपः प्रवृत्तं यतेश्च गोविप्रमुखासनस्थम् । स यातिघोरं नरकं मनुष्यो हिक्वाविपन्नः पुनरेति सत्यम्” ।४७ अरोचकम् “पित्रे मात्रे चातिथये नादौ यस्तु च भोज-नम् । दत्त्वाश्नाति स पापिष्ठो यां गतिं याति तां शृणु ।तस्यान्नं कोष्ठदेशे तु कृमिर्भूत्वा विपच्यते । मृते विष्ठा-कृमिर्भूत्वा पच्यते बहुवासरान् । ततो वायसयोनित्वंप्राप्य जीवेच्चिरं दिनम् । तत्र वायसयोनौ तु सर्वदुः-खमवाप्य वै । मनुष्यत्वमवाप्नोति हीनयोनौ प्रजायते ।आरोचकगदेनापि पीडितस्तत्र केवलम्” ।४८ स्वरभङ्गः “त्वया कृतं पुरा यच्च तन्मे निगदतः शृणु । सुस्वरंगायमानन्तु श्रुतिमन्तं द्विजीत्तमम् । त्वं निषेधितवान्पूर्वं तस्मात्ते गतिरीदृशी । असमाप्तपदं यस्तु गायमानन्तुसुस्वरम् । निवारयति सोऽप्येवं स्वरभङ्गेण गृह्यते” ।४९ अतितृष्णा । “तृषितं गोकुलं प्राप्तं जलपानावलम्बनम् ।विघ्नमाचरितं तेन प्रपाध्वंसकृते न च । जलपात्रंतथा हृत्वा मृतो याति यमाज्ञया । ऊषरे निर्जले देशेदुर्वहे सिकतामये, कीटयोनिं समासाद्य तत्र तिष्ठतिपापधीः । गोलोमसम्मितं कालं दुःखमाप्नोति निर्भ-रम् । मानुषत्वमनुप्राप्य तृष्णाव्याधियुतो भवेत्” ।५० विस्फोटकम् । “सुधन्वा नामतस्तेन चण्डालस्य जलाशये ।कृतं स्नानं जलं पीतं तत्कर्मवशतः शृणु । आयुःशेषेमृतो दूतैर्गृहीतश्च यमाज्ञया । बहूष्णधूमसंयुक्तेक्षिप्तः कूपे निराश्रये । भुक्त्वा तत्र महद्दुःखं तस्यान्तेत्वत्कुले नृप! । जातोदाहयुतो भूत्वा विस्फोटकगदा-र्द्दितः । स्वकर्मार्जितदोषं यो भुङ्क्तेका तस्य वेदना” ।५१ भ्रममूर्च्छा “भ्रमसूर्च्छारुजाविष्टो येन संजायते नरः ।तच्छृणुष्व मयाख्यातं कथयामि समासतः । भ्रमस्तु जायतेतस्य तत्र दुःखकरः परः । सभायां कुटिलोलोकंभ्रामयित्वाऽन्यथा वदेत् । मूर्च्छान्वितो भवेत् सोऽपि यत्रयाति शृणुष्व तत् । तमायुषोऽन्ते दुर्द्धर्षाः किङ्करायमदेशिताः । नीत्वा प्रयान्ति तत्रैव तामेव पिङ्गलांपुरीम् । स्वकर्मवशतस्तत्र पिशाचाः सन्ति दुःखिताः ।संक्षिप्तस्तत्र दुष्टात्मा पिशाचा यत्र मूर्च्छिताः । भ्रम-युक्तो भवेत्तत्र पूर्ण्णमन्वन्तरं नृप! । उलूको जायतेतस्माद्दिवा वसति कोटरे । उलूकत्वक्षयं प्राप्य वकयोनौप्रजायते? वको जीवति वर्षैकं ततो भवति मानुषः ।पूर्वकर्म्मप्रभावेन भ्रममूर्च्छान्वितो भवेत्” ।५२ हृद्रोगः । “हृद्रोगो जायते येन कर्मणा त्वमतः शृणु ।सावधानो महीपाल! कथयामि तवाग्रतः । लोभात्द्वेषाद्भवेद्यस्तु परपीडाप्रदायकः । मर्मोद्घाटनकृद्यो-ऽपि कदनं तेन विन्दति । मनुष्यस्तेन दोषेण दुर्वहम्नरकं व्रजेत् । नरकान्ते पुनर्मर्त्ये हृद्रोगैरतिदारुणैः ।पीड्यमानी दुनोत्याशु कर्म्मदोषविशेषतः” ।५३ आमवातः । “पुरा येन महीपाल! कृतो यज्ञस्त्वदक्षिणः ।उत्सृज्य ब्राह्मणायैव न दत्तं येन वा पुनः । अधर्मा-र्जितवित्तानां संग्रहो येन वा कृतः । ग्रन्थिग्रन्थिषुतस्यैव भवेदामस्य संग्रहः । तस्मात् प्रवर्त्तते शोथोवेदना चातिदारुणा । आमवातस्तु स ज्ञेयः कर्मज-श्चास्य निष्कृतिम्” ।५४ सर्व्वाङ्गवातव्याधिः “वातव्याध्युद्गमोयेन कर्म्मणादेहिनां नृप! । उत्पन्नो बहुधाभावैः सम्यग् वक्ष्येततः शृणु । सुरापयोषिद्रमणं येन वै वाञ्छता हठात् ।कृतं स नरकस्यान्ते शुनोयोनौ प्रतिश्य च । जङ्घा-शूलकटीशूलयुक्तः केवलखञ्जकः । परस्त्रीवसनंयेन हृतं तस्य ततः शृणु । मृतः स पुरुषै-र्याम्यैर्नीतश्चे तोयमाज्ञया । आयसीञ्च शिलां तप्तांवन्धद्वारपरिप्लुताम् । तद्गले बन्धयेद् यत्नाद्यावदिन्द्राश्चतुर्द्धश । तस्यान्ते शाकुनीं योनिं प्रयात्यव्दचतुष्टयम् ।मानुषत्वमनुप्राप्य गृह्यते तेन संशृणु । सव्यथाग्रन्थयस्तस्य सर्व्वाङ्गं वातपीडितम् । सोष्णगात्रं सदातस्य भवतीह स्वकर्मतः” ।५५ तुन्दरोगः “घटो हृतः पुरा येन ब्राह्मणस्य महीपते! ।दम्यते स च दुर्वत्तः संयमन्यां यमाज्ञया । कुम्भीरो-जायते तस्माच्चिरकालं जले वसेत् । तस्यान्ते मानुषींयोनिं संप्राप्य तुन्दवान् भवेत् । अशक्तः सव्वकार्य्येषुगदोपचयदोषतः । सकल्प्य विप्र क्रतुदक्षिणादिकंयदा न दद्यात् तदुपाहितं फलम् । समग्रमेदोप-चयस्य संग्रहं भवत्यतीवोग्रत्ररेण तौन्दिकः” ।५६ अम्लपित्तम् “अथाम्लपित्तोपचयो भवेद्येन वदामि तत् ।जिह्वास्वादसमाविष्टो मानवोयो निषेवति । निषि-द्धमविकल्पेन स मृतः प्राप्य वायसीम् । गृध्रस्यसारमेयीञ्च योनिमासाद्य कर्मतः । पश्चात् संजायतेदेही विदग्धान्नं प्रकुप्य च । हृत्कण्ठञ्चाम्लपित्तेनदह्यमानोऽतिदूषितः” ।५७ शोथोदरम् “लोभान्मोहाद्भयाद्द्वेषात् कृत्वाऽधर्मं वदेत्तुयः । स भुङ्क्ते नरकं घोरं पश्चाच्छोथीदरी भवेत्” ।५८ जलोदरम् “ब्रह्मविष्णुमहेशेषु भिन्नभावं करोति यः ।गृह्यते स तु दुष्टात्मा जलोदररुजा ततः” ।५९ शोथः “पुत्रस्ते शोथवान् जातः स्वकर्मार्जितदोषतः ।कर्त्ता भुङ्क्तेऽन्यथा कात्र कर्त्तव्या परिदेवना । विनापरा-धेन यतोबहवस्ताडिताः पुरा । कषायवेत्रवंशैश्च तेनशोथार्द्दितश्च सः । उत्पातकसमाविष्टो जातस्तव गृहेशृणु । तेन शोथार्द्दितः पुत्रो वृथा चिन्तापरः प्रभो!”६० मूत्रकृच्छ्रम् “मूत्रकृच्छ्रं भवेत् भूप! कर्मणा येन दारुणम् ।देहिनी देहनाशार्थं तन्मे निगदतः शृणु । विधवा-गमनं येन कृतं वा मद्यभोजनम् । मूत्रकृच्छ्री भवेत्सोऽपि भुङ्क्ते च नरकं शृणु । अकृत्वा विगुणं कर्मजन्मकर्म च बर्द्धते” ।६१ मूत्राघातः “मूत्राघातो भवेद्येन तन्मे निगदतः शृणु ।दम्पत्योर्मैथुने यस्तु महाविघ्नं समाचरेत् । मूत्राघातोभवेत्तस्य दुर्वहं कदनप्रदम्” ।६२ अश्मरी “अथाश्मरी भवेद्येन तन्मे निगदतः शृणु ।ऋतुस्नातां स्त्रियं यस्तु सन्निधौ नोपगच्छति । अप्रीत्याक्रोधभावाद्वा स याति नरकं नरः । पूयशोणित-संमिश्रे नरके पच्यते भृशम् । मानुषत्वमनुप्राप्यशार्कराश्मरिरीगवान् । भूप! विन्दत्यनुदिनं कदन मूत्र-रोधतः । आर्त्तवस्य विपर्य्यासं यः करोति नराधमः ।तस्मात् सर्वप्रयत्नेन नरोनार्य्यामृतावियात्” ।६३ मेहः । “मेहाश्च विंशतिः ख्याताः पृथक्कर्मप्रभावजाः ।तेषां नामान्यहं वक्ष्ये क्रमादुत्पद्यते यतः । मधुमेहःसान्द्रमेहः सुराशुक्रोदकस्तथा । इक्षुः सिकतशीधुश्च सित-मेहस्तथव च । फेनःक्षीरश्च नीलश्च हारिद्रः कालसं-ज्ञकः । वशा रक्तश्च माञ्जिष्ठोमज्जा क्षारस्तथा गजः । सद्वै-द्यस्योपदेशेन ज्ञात्वा मेहान् पृथक् पृथक् । नामानु-बारतः पूर्वं कर्म ज्ञात्वा विधिञ्चरेत् । पूर्वं मैथुनकृद्यस्तुशौकरीं योनिमाव्रजेत् । तस्यान्ते मानुषीं प्राप्य जलमेहा-र्द्दितो भवेत् । मातृगामी बलान्मोहान्मधुमेही भवेन्नरः ।रजकीगमनाच्चव क्षारमेही प्रजायते । सतीविपर्य्ययंकृत्वा सान्द्रमेहान्वितो भवेत् । रोगिणीगमनान्मर्त्योभवेन्माञ्जिष्ठमेहवान् । मित्रस्त्री धर्षिता येन स भवेच्छु-क्रमेहवान् । चतुष्पदाभिगमने भवेत्सिकतमेहवान् ।स्वर्णहर्त्ता क्षीरमेही सितमेही सुरारतः । कालमेहीभवेत् सोऽपि पुष्पवत्याश्च धर्षणात् । रजस्वलायां रतिकृद्रक्तमेहार्द्दितो भवेत् । मज्जमेहयुतः सोऽपियोऽन्त्यजागमनञ्चरेत् । इक्षुमेह्यतिदुर्वृत्तोविधवागतिदोषतः । ब्राह्मणीगमनाद्देही हस्तिमेहेनमेहति । अक्षतागमनासक्ती हरिद्राभञ्च मेहति । मातरंयेऽभिगच्छन्ति भगिनीञ्चात्मनः सुताम् । श्वश्रूञ्चैवाक्षताऽ-रक्तां भ्रातृभार्याञ्च मातुलीम् । गुरुस्त्रीं राजपत्नीञ्चमित्रस्त्रीं वा कुटुम्बिनीन् । मृता वैवस्वतपुरीं यान्तिभूतैः प्रपीडिताः । ताड्यन्ते तत्र दुर्वृत्ता मत्तः शृणुवदामि ते । अङ्गारराशौ प्रक्षिप्य तान् दहन्ति यमाज्ञया ।दूतास्तु महतीं घोरां ज्वलन्तीमायसीं शिलाम् । खाद-यन्ति च तान् पश्चात् नरके च क्षिपन्ति वै । नरकान्तेपुनस्तेऽपि मृताः स्युः शूकरा भृशम् । शूकराः पञ्च-वर्षाणि दश वर्षाणि कुक्कुराः । पिपीलिकास्त्रयोमासावृश्चिकाश्चाव्दमात्रकम् । भूत्वा प्रयान्ति गोयोनौ सरुजाविफलेन्द्रियाः । तत्राधर्मक्षयं कृत्वा ततो मानुष-योनिषु । प्रमेहगदवन्तः स्युः प्राप्नुवन्ति मनोव्यथाम्” ।६४ पुंस्त्वविनाशः “धर्म्मपत्नीं परित्यज्य योऽन्यस्त्रीमैथुनेरतः । स स्त्रीविरक्तो भवति पुंस्त्वं तस्य विनश्यति” ।६५ मुष्कवृद्धिः “सख्यं कृत्वा लुब्धकेन विप्रोवेदबहिष्कृत ।सदैव गहनं याति मृगं हन्ति निषादवत् । क्षिपोतान्बहून् सोऽपि नित्यं खादितवांस्तदा । आयुःशेषेस वै दूतैर्याम्यैर्नीतोयमाज्ञया । निःक्षिप्तो नरके घोरेतस्यान्ते त्वत्कुले द्विज! । जातः सर्वगुणोत्पन्नः स्वकर्म्म-वशतः शृणु । मुष्करोगेण सन्तप्तः क्षीणरेताः सुदुःखितः”६६ उन्मादः “ब्राह्मणं वैष्णवं तीर्थं पितरं मातरं द्विजम् ।नार्चयेन्निन्दयेद्वापि पुरा स नरक व्रजेत् । पुरीषाख्यमहाघोरे निरये श्लेष्मभोजने । अधःशिरा भवेत् पापीनानादुःखप्रपीडितः । कर्म्मान्ते स पुनर्योनिं मानुषींप्राप्य कर्म्मभिः । उन्मादरोगवान् सर्व्योजायते नृपनन्दन!स्मृतिभ्रमकरं द्रव्यं यैर्दत्त ब्राह्मणे गुरौ । दम्भाचारंचरेद्यस्तु भवेदुन्मादरोगवान्” उन्मादभेदाः सुश्रुतोक्ता ज्ञेयाः६७ अपस्मारः “ये कोपबुद्धयः पूर्वं न जानन्त्युपकारिणम् ।ब्राह्मणग्रासरोधश्च यैः कृतोमानवाधमैः । गोमुखंरश्मिभिर्बद्धं ते स्युर्निरयगामिनः । नरकान्ते व्यालयोनिंवैयाध्रीमपि शौकरीम् । ततो मानुषयोनौ स ह्यपस्मारयुतो भवेत्” ।६८ अस्थिशूलादिः “अजाञ्च तिलधेनुञ्च लौहवर्म्मतिला-जिनम् । गजोभयमुखीधेनुसालूकस्यापि संग्रहम् । क्षौद्रंतैलञ्च लवणं महादानस्य वा ग्रहम् । यः करोत्यन्यथायोनौ मैथुनं काममोहितः । नरेषु गवि यो रेतःसेकं वाकुरुते क्वचित् । ब्रह्मस्वं नृपतिद्रव्यं योहरेद्दुष्टभावतः ।यस्त्यजेच्छरणं प्राप्तं तथा भार्य्यां विवाहिताम् । दन्ति-दस्युनखिव्याघ्रसिंहगवादिभिर्हतः । स मृतः स्वास्थ्यरहितेस्थाने च स विषीदति । अशेषकालं तस्यान्ते मानुषत्व-मवाप्य सः । अस्थिग्रहादिभी रोगैर्गृहीतस्तप्यते सदा” ।६९ मूत्रकृमिः “अग्नये प्रक्षिपेदाज्यं मन्त्रहीनं विमोहितः ।स मृतः पर्वताद्भूतैः पात्यतेऽधः पुनः पुनः । सर्वाङ्गव्याधि-दिग्धः स क्रन्दमानो यमाज्ञया । भुक्त्वा कष्टं चिरादुग्रंमानुषत्वमवाप्य सः । मूत्रक्रम्यर्द्दितं गात्रं प्राप्य मुह्यतिनिर्भरम्” ।७० विद्रधिः “फलापहरणं येन कृतं चौर्य्येण वै पुरा । समृतोयमदूतैश्च शास्यमानो यमाज्ञया । संयमन्यां पीडितोऽपिदक्षिणद्वारि केवलम् । शोचयित्वा स्वयं कर्म्म क्रन्दमानःपदेपदे । प्रक्षिप्तो नरके घोरे स नै सीदति पापकृत् ।ततोवानरयोनौ च जन्मासाद्य स दुष्टधीः । तच्छेषेमानुषत्वेऽपि स वै विद्रधिमान् भवेत्” ।७१ अपची वातग्रन्थिश्च “त्वङ्मध्ये बहवो यस्य पर्कटीफल-सन्निभाः । भवन्ति ग्रन्थयस्तस्य नाम स्यादपचीगदम् ।बहिर्वृहत्फलाकारं वर्द्धते च दिनं प्रति । वातग्रन्थीति साज्ञेया जायते देहिदेहतः । इदं गदद्वयं भूप! जायते येनतच्छृणु । कथयामि तव स्नेहाद्धर्मज्ञोऽसि महीपते! द्रुमञ्च-बहुलच्छायं पर्व्वतञ्च नदीतटम् । वल्मीकाग्रं गवांगोष्ठगोशालां देवतालयम् । समासाद्य चरेन् मूत्रं तथा निष्ठी-वनादिकम् । सकामं कुरुते यस्तु स प्राप्नोति ततः शृणु ।थाम्यपाशञ्च दुर्भेद्यं पापिष्ठानां भयप्रदम् । कृमिपूय-वशाविष्ठाशोणितेनापि पिच्छिलम् । पापिनस्तत्र गच्छन्तिदूतैर्बद्धाः सुनिष्ठुरैः । शोचन्तः स्वानि कर्माणि क्रन्दमानाःपदेपदे । यमाज्ञया च निरये घोरे पूयपरिप्लुते । क्षिप्ता-स्तिष्ठन्ति तत्रैव यैरेवं दुष्कृतं कृतम् । तस्यान्ते मानुषींयोनिं पाप्य तद्व्याधिमान् भवेत्” ।७२ शिरोरोगः “संप्राप्य तीर्थं ये मर्त्या नाचरन्तीह चोत्तमम् ।ब्राह्मणञ्च गुरुंदृष्ट्वा न नमन्ति कुबुद्धयः । तत्कर्मपाश-बद्धास्ते गृहीत्वा यमकिङ्करैः । पुरीं कृष्णवतीं नीत्वापिशाचकुलसेविताम् । ताड्यन्ते विविधैर्यन्त्रैर्घोरैः पापि-भयावहैः । अनेककालं तत्रापि स्थित्वा भल्लूकयोनिषु ।जायन्ते तत्र तिष्ठन्ति वर्षाणि दशसंख्यया । मेषयोनिंततोयान्ति त्रिरकदं तत्र संस्थिताः । भुक्त्वा कर्मवशात्कष्टं मानुष्यं यान्ति ते पुनः । मानुषीं योनिमासाद्य-शिरोरोगयुतास्तु ते ।७३ नेत्रहीनता “पुरा सकामतो येन कौटवी च पराङ्गना ।दृष्टा नेत्राभिघातो वा गोः कृतो ब्राह्मणस्य वा । सएव कर्मवशगः कुपितैर्यमकिङ्करैः । काकोले नरके क्षिप्तोबद्धस्तिष्ठति शृङ्खलैः । वज्रतुल्यनखैः काकैस्तस्य नेत्रस्य कृन्त-नम् । क्रियतेऽवदशतं यावत् उत्पत्योत्पत्य नित्यशः ।शोचते स्वानि कर्माणि क्रन्दमानोऽतिदुःखितः । उत्पत्य-नरकात् पश्चात् उलूकोजायते हि सः । सदा कोटरशायीच दिवान्धः काकशङ्कितः । तिष्ठत्यव्दाष्टकं यावन्मा-नुषत्वमवाप्य सः । नेत्रहीनोभवेद्दुःखी भवेत् कर्मवशी-कृतः । यस्मिन् वयसि यत् कर्म सुकृतं वापि दुष्कृतम् ।तस्मिन् सहायोभवति तद्वयस्येव जन्मतः । जीवनंतद्वृथा मर्त्ये नेत्रहीनस्य देहिनः । विद्यमाने शरीरेऽपिनेत्रहीनो निरर्थकः । प्राणागारमिदं देहं लोष्ट्रवत् प्राण-वर्जितम् । तद्वन्नेत्रबहिर्देहो वृथा स्यान्मरणं वरम्” ।७४ रात्र्यन्धता “पुरा परस्त्री खलु कामबुद्ध्या विलोकिता वस्त्र-विवर्जितापि । गोविप्रहिंसासु नितान्तदृष्टिर्वक्रीकृता नेत्र-विहीनतायै । नक्तान्ध्यमन्दत्वमथान्यरोगः दिवान्धताचार्बुददृग्रजा मे । दैवादुपेता कुरु दूरमाशु तां मेऽद्य-देवेश! हरे! प्रसीद” ।७५ नेत्ररोगः “मन्ददृष्टिर्भवेद् येन मनुष्यस्त्वमतः शृणु । उद-यास्तमवेलायां भानुं मध्यन्दिने नरः । ईक्षते कामतोयोऽपि मन्ददृष्टिः स वै भवेत् । यश्चाशुचिशरीरःसन् वीक्षते दिवसेश्वरम् । नक्षत्रं ग्रहतारञ्च द्विजं वह्निञ्चगां दिशम् । सोऽन्यजन्म समासाद्य नेत्रव्याधियुतो भवेत् ।अनेन पटलच्छन्नतिमिरार्त्तियुतोभवेत् । दम्पतिभ्यांप्रवृत्तं यो नरः प्रश्यति मैथुनम् । सोऽन्यजन्म समासाद्यनेत्रपूयगदार्त्तिमान् । दम्पत्योः सुरतासक्तचित्तयोः सुर-तेक्षणम् । यः करोति स वै नेत्रपूयरोगयुतो भवेत् ।मृत्वा कष्टमवाप्नोति पिचटादिक्षतोद्भवैः । विहायात्मपतिंया स्त्री पुत्रमाप्नोति जारतः । साऽन्यजन्मनि भूपाल!विरूपाक्षी भवेद् ध्रुवम् । वल्गुदृष्ट्या प्रपश्येद्यः पुरुषो-वाथ योषितम् । क्रोधाविष्टेन मनसा या वा श्रेष्ठं पतिंद्विजम् । सान्यजन्म समामाद्य विषमाक्षीभवेद्ध्रुवम्” ।७६ गलगण्डः गण्डमाला च “पुरा येन कृतं मोहाद्गुरुस्त्री-कण्ठदर्शनम् । स मृतः प्रान्तरे देशे निर्जले च यमाज्ञया ।पात्यते किङ्करैर्वोरैर्दिव्यवर्षायुतत्रयम् । पुनर्जन्म समासाद्यखकम वशतश्च सः । गलगण्डयुतोनित्यं गण्डमालाकुलो-ऽपि सन् । पापी सीदति दुश्चेष्टः चिरं कर्मक्षयावधि” ।७७ नासारोगः “ब्राह्म्यकर्म्मपरिभ्रष्टो मन्मथाविष्टचेतनः । सुगन्धि-कुसुमादीनि यानि द्रव्याणि तानि च । त्वया सतत-माघ्रातं प्राप्तं दत्तं न कस्यचित् । ब्राह्मणेभ्यो न देवेभ्योदत्तं तेनेदमीदृशम् । नासिकादेशमासाद्य कर्म्म चाश्रित्यतिष्ठति । किञ्च वेश्याङ्गनासङ्गे यौवनं विफलीकृतम् ।वेश्याश्च रमिता यैश्च तेनास्पृश्या द्विजातयः” ।७८ क्षीरहीनस्तनता “याचमानं पयो या स्त्री न ददाति परा-र्भके । सा मृता सर्पिणी भूत्वा जीवेद्वर्षचतुष्टयम् । तस्मात्कच्छपिकायोनौ प्रविश्याव्दचतुष्टयम् । प्रत्यक्षं नरकं भुक्त्वामानुषी तु भवेच्च सा । शृणु भूप! प्रसूता स्त्री क्षीणक्षी-रस्तनी भवेत् । क्षीरं न क्षरते यस्याः स्तनात् सन्तप्यते हिसा । आत्मजपालनेऽशक्ता भूत्वा कष्टञ्च विन्दति” ।७९ स्तनविस्फोटरोगः “स्तनपाकोभवेद्येन कर्म्मणा त्वमतः शृणु ।दृष्ट्वाऽन्यपुरुषं या स्त्री स्तनं दर्शयते स्वकम् । सकामा-कामबुद्ध्या वा दुष्टयौवनगर्विता । दूतैर्यमाज्ञया सापिशास्यते च निरन्तरम् । भुक्त्वा स्वकर्म्मजं दुःखं पुनर्भूत्वाच मानुषी । स्तनविस्फोटरोगाढ्या विस्मिता सुखवर्जिता”८० वेश्यात्वम् “मृते भर्त्तरि या नारी परस्वाम्यभिलाषिणी ।सा मृता किङ्करैर्याम्यैर्दण्डपाशासिताडिता । नीत्वा यमा-ज्ञया सा च विशुद्ध्यर्थं ततः शृणु । आयसं पुरुषं तप्तंस्फुरद्बभ्रुकरोज्ज्वलम् । आलिङ्गनमतिक्रूराः कारयन्ति नरंभृशम् । वर्षायुतसहस्रान्ते ततो मर्त्ये च शौकरीम् ।सारमेयीञ्च मार्जारीं योनिमाविश्य कर्म्मतः । मृत्वा चमानुषी पश्चाद्वारस्त्रीत्वमवाप्य सा । अशेषपुरुषैः सा चरम्यमाणा यथेच्छया । मर्त्ये मोहवशात् सा च सुखं प्राप्यसुहर्षिता । न भवेद्या चान्यनारीयन्त्रग्रहणजीविका ।यस्याः सा च भवेद्वेश्या जन्मजन्मन्यन्यथा न हि” ।८१ बाधिर्य्यम् “पुरा यस्तु महीपाल! धर्मचिन्तापराङ्मुखः ।निन्दकः पितृमातॄणां द्विजतीर्थमुखस्य च । श्रुतेर्बाधिर्य्य-रोगेण स एव परिगृह्यते” ।८२ श्लेष्मरोगः “नित्यक्रियाबहिर्यस्तु भूत्वा भुङ्क्ते स दुर्मतिः ।मृतः भूमिपथं प्राप्य शुष्ककाष्ठोपजीवकः । वायसत्वमनु-प्राप्य गृध्रकुक्कुटशूकरः । भूत्वा च मानुषत्वे स श्लेष्म-रोगी सदा भवेत्” ।८३ हस्तशूलम् “द्विजः सन्ध्याविहीनो यः स शूद्रादधमःस्मृतः । स मृतः शास्यते याम्यैर्वैवस्वतपुरोगमैः । काङ्कींपारावतीं योनिं गत्वा तिष्ठति वत्सरम् । ततो मानुषतांप्राप्य हस्तशूलार्दितो भवेत्” ।८४ योनिरोगः “रममाणं पतिं या स्त्री तोषयेन्न यथेच्छया ।उष्ट्रा सा च मृता वै स्यात् जीवेद्वर्षचतुर्द्दश ।तस्माद्वै मानुषीं प्राप्य योनिं व्याध्यादियोगिनीम्गत्वा सन्तप्यमाना सा योनिरोगेण निर्भरम् । किञ्चचौर्य्यप्रकारेण या हरत्यन्यभोजनम् । सा तद्रोगेण सततंगृह्यते नात्र संशयः” ।८५ असृग्दरम् प्रदरम् “अथासृग्दरमत्युग्रं प्रदरं योनिदोषजम् ।कर्मणा येन राजेन्द्र! तन्मेनिगदतः शृणु । कृत्वा रन्ध-नमादौ या योषिद्भुङ्क्ते बुभुक्षया । बुभुक्षितं पतिं त्यक्त्वावृथा पशुबधेन च । प्रयाति नरकं घोरं यत्प्रोक्तं मद्यभक्षणे । प्रत्यक्षं नरकं भुक्त्वा ततोभवति वायसी । वायसी दश वर्षाणि शुकी भवति सापुनः । मानुषी तु भवेत् पश्चादसृग्दरगदार्दिता ।श्वेतप्रदरयुक्ता सा भवेद् या भक्तचोरिणी” ।८६ वृषलीसुतोत्पादनम् परकान्तासुतोत्पादनञ्च । “महामनामहादाता तीर्थकृत् पुण्यकृच्छुचिः । नगरीं भ्रमता तेनकाचिदेका मनोहरा । रण्डा व्यलोकि सौन्दर्यलीलारस-विलासभूः । तां दृष्ट्वा मोहितो राजा सम्यक्संजातकौतुकः ।तामादाय बलाच्छीघ्रं ययौ निजगृहं प्रति । विहाय महि-षीरन्या नारीः प्रियवशंवदाः । अत्रानुरागवान् राजाक्षणं ताञ्च न मुञ्चति । तस्या गर्भेसुतं राजा जनया-मास सुन्दरम् । दैवादपि महीपाल आयुःशेषे यमा-ज्ञया । नीतो यमान्तिकं दूतैर्घोरैश्च भृशदारुणैः ।घर्मराजपुरे तस्य चित्रगुप्तेन धीमता । एतत् श्रुत्वायमः क्रुद्धोऽब्रवीद्दूतान् सुनिष्ठुरान् । एवं क्रूरं दुरा-चारं परयोषित्प्रियं सदा । रौरवं नरकं नीत्वाताडयध्वं निरन्तरम् । तस्याः पूरीषमूत्राभ्यामुत्पन्नस्य सुतसच । एतस्य पितृलोकानामाहारार्थं प्रदास्यथ । रारवे-ऽव्दशतं दुष्टं स्थापयित्वा च योनिगम् । ततः शूकर-योनौ च पातोऽस्य भविता पुनः । यावत्तिष्ठति भू-लोके वृषलीगर्भजः सुतः । तावत्कालं पितॄणाञ्चनरकेऽस्य स्थितिर्भवेत्” ।आदर्शग्रन्थे यथा पाठोऽधिगतस्तथैव लिखितः । पुस्त-कान्तरसंवादेन न्यूनतात्र याऽस्ति सा परिहरणीयाअत्रोक्तरोगादीनामकाराद्यक्षरविन्यासातिक्रमेणोपन्या-सस्तु तत्रत्यक्रमानुरोधेन । तेन तत्रत्यक्रमानुसारेण निद-र्शितरोगादीनामुपशमार्थदानादिकपरिज्ञानं सुकरं भवति ।तत्तद्दानादिकं विस्तरभयान्नोक्तम् तत एवावगम्यम् ।शातातपभृगुभारतसंवादयोरेकत्र विषये विरोधप्रसङ्गेरोगाल्पत्वमहत्त्वाभ्यां व्यवस्थोन्नेया । एवं दानादिभेदो-ऽपि । मार्कण्डेयपुराणाद्युक्तकर्मविपाकभेदो विस्तरभया-न्नोट्टङ्कितः, तत्तद्ग्रन्थेभ्योऽवधेयः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
