कर्मयोग (karmayoga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English कर्मयोग karmayoga connection with a sacrifice
कर्मयोग karmayoga active exertion
कर्मयोग karmayoga industry
कर्मयोग karmayoga agriculture and commerce
कर्मयोग karmayoga practical application
कर्मयोग karmayoga performance of a work or business
Wilson
EnglishMonier Williams Cologne
EnglishHindi
Hindiबेगरज कार्रवाई
Apte Hindi
Hindiकर्मयोगः
कर्मन् - योगः -
सांसारिक तथा धार्मिक अनुष्ठानों का सम्पादन
कर्मयोगः
कर्मन् - योगः -
"सक्रिय चेष्टा, उद्योग"
Shabdartha Kaustubha
Kannadaकर्मयोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಫಲಾಪೇಕ್ಷೆಯಿಲ್ಲದ ಕರ್ಮಾನುಷ್ಠಾನ /ಉಪದೇಶದಿಂದ ಜೀವಾತ್ಮ ಪರಮಾತ್ಮವಿಷಯಕ ಯಥಾರ್ಥಜ್ಞಾನವುಳ್ಳವನಿಂದ ಶಕ್ತಿಗನುಗುಣವಾಗಿ ಫಲಾಭಿಸಂಧಿಯಿಲ್ಲದೆ ಆಚರಿಸಲ್ಪಡುವ ಜಪೋತಪೋತೂಪವಾದ ಕರ್ಮಗಳು /ಫಲಾಭಿಸಂಧಿಯಿಲ್ಲದ ಕರ್ಮಕೌಶಲ
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanशब्दकल्पद्रुमः
Sanskritकर्म्मयोगः, (कर्म्मसु योगस्तत्कौशलम् ।) चित्त-शुद्धिजनकवैदिककर्म्म । यथा । निष्कामकर्म्म-णात्मज्ञानमित्युक्तं यथा ।“अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ।कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते ॥
सोऽपि दुरितक्षयद्वारा न साक्षात्” । इति मल-मासतत्त्वम् ॥
* ॥
तदनुष्ठानस्यावश्यकत्वं यथा ।श्रीभगवानुवाच ॥
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ! ।ज्ञानयोगेन सांख्यानां कर्म्मयोगेण योगिनाम् ॥
न कर्म्मणामनारम्भान्नैकर्म्म्यं पुरुषोऽश्नुते ।न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्म्मकृत् ।कार्य्यते ह्यवशः कर्म्म सर्व्वः प्रकृतिजैर्गुणैः ॥
कर्म्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्ज्जुन ! ।कर्म्मेन्द्रियैः कर्म्मयोगमसक्तः स विशिष्यते ॥
नियतं कुरु कर्म्म त्वं कर्म्म ज्यायो ह्यकर्म्मणः ।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्म्मणः ॥
यज्ञार्थात् कर्म्मणोऽन्यत्र लोकोऽयं कर्म्मबन्धनः ।तदर्थं कर्म्म कौन्तेय ! मुक्तसङ्गः समाचर ॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।तैर्दत्तानप्रदायैभ्यो यो भुङ्व्क्ते स्तेन एव सः ॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्व्वकिल्विषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।यज्ञाद्भवति पर्जन्यो यज्ञः कर्म्मसमुद्भवः ॥
कर्म्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।तस्मात् सर्व्वगतं व्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥
एवं प्रवर्त्तितं चक्रं नानुवर्त्तयतीह यः ।अघायुरिन्द्रियारामो मोघं पार्थ ! स जीवति ॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।आत्मन्येव च सन्तुष्टस्तस्य कार्य्यं न विद्यते ॥
नैव तस्य कृते नार्थो नाकृतेनेह कश्चन ।न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥
तस्मादसक्तः सततं कार्य्यं कर्म्म समाचर ।असक्तो ह्याचरन् कर्म्मपरमाप्नोति पूरुषः ॥
कर्म्मणैव हि संसिद्धिमास्थिता जनकादयः ।लोकसंग्रहमेवापि संपश्यन् कर्त्तुमर्हसि ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥
न मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेष किञ्चन ।नानवाप्तमवाप्तव्यं वर्त्त एव च कर्म्मणि ॥
यदि ह्यहं न वर्त्तेयं जातु कर्म्मण्यतन्द्रितः ।मम वर्त्तानुवर्त्तन्ते मनुष्याः पार्थ ! सर्व्वशः ॥
उत्सीदेयुरिमे लोका न कुर्य्यां कर्म्म चेदहम् ।सङ्करस्य च कर्त्ता स्यामुपहन्यामिमाः प्रजाः ॥
सक्ताः कर्म्मण्यविद्वांसो यथा कुर्व्वन्ति भारत ।कुर्य्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥
न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् ।योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन् ॥
प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्व्वशः ।अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते ॥
तत्त्ववित्तु महाबाहो गुणकर्म्मविभागयोः ।गुणा गुणेषु वर्त्तन्त इति मत्वा न सज्जते ॥
प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्म्मसु ।तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥
मयि सर्व्वाणि कर्म्माणि संन्यस्याध्यात्मचेतसा ।निराशीर्निर्म्ममो भूत्वा युध्यस्व विगतज्वरः ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्म्मभिः ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।सर्व्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।प्रकृतिं यान्ति भूतानि निग्रह्रः किं करिष्यति ॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥
श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् ।स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः” ॥
इति श्रीभगवद्गीतायां कर्म्मयोगो नाम ३ अ-ध्यायः ॥
* ॥
अन्यत् भगवन्मन्दिरादिकरणं वह्नि-पुराणे यमानुशासननामाध्याये द्रष्टव्यम् ॥
वाचस्पत्यम्
Sanskritकर्म्मयोग कर्मसु योगः कौशलम् । फलसाधनस्यापिकर्मणोऽफलसाधनत्वापादानरूपे १ कौशंलभेदे २ फलसिद्ध्य-सिद्ध्योः समत्वभावने च । यथा च तत्कौशलं तथाभावनं च कत्तव्यं तथा गीतायां नानास्थानेषु दर्शितं यथा“एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।बुद्ध्या युक्तोयया पार्थ! कर्मबन्धं प्रहास्यसि । नेहाभि-क्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्यत्रायते महतोभयात् । व्यवसायात्मिका बुद्धिरेकेह कुरु-नन्दन! । बहुशाखाह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ।यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवा-दरताः पार्थ! नान्यदस्तीतिवादिनः । कामात्मानः स्वर्ग-पराजन्मकर्म्मफलप्रदाम् । क्रियाविशेषवहुलां भोगेश्व-र्य्यगतिं प्रति । भोगैश्वर्य्यप्रसक्तानां तयापहृतचेतसाम् ।व्यवसायात्मिका बुद्धिः समाधौ न विधीयते । त्रैगुण्य-विषयावेदा निस्त्रैगुण्यो भवार्जुन! । निर्द्वन्द्वोनित्यसत्वस्थो-निर्योगक्षेम आत्मवान् । यावानर्थ उदपाने सर्वतः सं-प्लुतोदके । तावान् सर्व्वेषु वेदेषु ब्राह्मणस्य विजा-नतः । कर्म्मण्येवाधिकारस्ते मा फलेषु कदाचन ।मा कर्म्म फलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्म्मणि । योगस्थःकुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय! । सिद्ध्यसिद्ध्योःसमोभूत्वा समत्वं योम उच्यते । दूरेण ह्यवरं कर्म्मबुद्धियोगाद्धनञ्जयः । बुद्धौ शरणमन्विच्छ कृपणाःफलहेतवः । बुद्धियुक्तोजहातीह उभे सुकृतदुष्कृते ।तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् । कर्मणोबुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धवि-निर्मुक्ताः पदं गच्छन्त्यनामयम्” ।अधिकारिभेदेन कर्म्मयोगस्यानुष्ठानप्रकारमाह गोता“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्तां मयाऽनघ! ।ज्ञानयोगेन सांख्यानां कर्म्मयोगेन योगिनाम् । नकर्म्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च सन्न्यस-नादेव सिद्धिं समधिगच्छति । न हि कश्चित् क्षणमपि जातुतिष्ठत्यकर्मकृत् । कार्य्यते ह्यवशः कमै सर्व्वः प्रकृतिजै-र्गुणैः । कर्मेन्द्रियाणि संयम्य य आस्ते मनसास्मरन् । इ न्द्रियार्थान् विसूढात्मा मिथ्याचारः सउच्यते । यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन! ।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते । नियतं कुरुकर्म त्वं कर्म ज्यायोह्यकर्मणः । शरीरयात्रापि चते न प्रसिद्ध्येदकर्मणः । यज्ञार्थात् कर्मणोऽन्यत्रलोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय! मुक्तसङ्गःसमाचार । सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजा-पतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तःश्रेयः परमवाप्स्यथ । इष्टान् भोगान् हि वोदेवादास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्योयोभुङ्क्ते स्तेनएव सः । यज्ञशिष्टाशिनः सन्तोमुच्यन्ते सर्व्वकिल्विषैः ।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् । अन्ना-द्भवन्ति भूतानि पर्ज्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्ज्ज-न्योयज्ञः कर्मसमुद्भवः । कम ब्रह्मोद्भवं विद्धि ब्रह्मा-क्षरसमुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञेप्रतिष्ठितम् । एवं प्रवर्त्तितं चक्रं नानुवर्त्तयतोह यः ।अघायुरिन्द्रियारामोमोघं पार्थ! स जीवति । यस्त्वात्म-रतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतु-ष्टस्तस्य कार्य्यं न विद्यते । नैव तस्य कृतेनार्थोना-कृतेनेह कश्चन । न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः ।तस्मादसक्तः सततं कार्य्यं कर्म समाचर । असक्तो-ह्याचरन् कर्म परमाप्नोति पूरुषम् । कर्मणैव हिसंसिद्धिमास्थिताजनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्त्तुमर्हसि । यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजनः । सयत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते । न मे पार्थास्तिकर्त्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त्तएव च कर्मणि । यदि ह्यहं न वर्त्तेयं जातु कर्मण्य-तन्द्रितः । मम वर्त्मानुवर्त्तन्ते मनुष्याः पार्थ! सर्व्वशः ।उत्सीदेयुरिमे लोका न कुर्य्यां कर्म चेदहम् ।सङ्करस्य च कर्त्ता स्यामुपहन्यामिमाः प्रजाः । सक्ताःकर्मण्यविद्वांसो यथा कुर्व्वन्ति भारत! । कुर्य्याद्विद्वांस्त-घाऽसक्तश्चिकीर्षुर्लोकसंग्रहम् । न बुद्धिभेदं जनयेद-ज्ञानां कर्मसङ्गिनाम् । जोषयेत् सर्बकर्माणि विद्वान्युक्तः समाचरन् । प्रकृतेः क्रियमाणानि गुणैःकर्माणि सर्व्वशः । अहङ्कारविसूढात्मा कर्त्ताहमितिमन्यते । तत्त्ववित्तु महाबाहो! गुणकर्मविभागयोः ।गुणा गुणेषु वर्त्तन्त इति सत्वा न सज्जते । प्रकृतेर्गुणसं-मूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदोमन्दान्कृत्स्नविन्नविचालयेत् । मयि सर्व्वाणि कर्माणि सन्न्यस्या-ध्यात्मचेतसा । निराशीर्निर्ममोभूत्वा युध्यस्व विगतज्वरः” ।“एवं ज्ञात्वा कृतं कम पूर्वैरपि मुमुक्षुभिः । कुरुकर्मैव तस्मात्त्वं पूर्वैः पूर्वतरैः कृतम् । किं कर्म किम-कर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामियज्ज्ञात्वा मोक्ष्यसेऽशुभात् । कर्मणोह्यपि बोद्धव्यंबोद्धव्यञ्च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो-गतिः । कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् । यस्य सर्व्वेसमारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणंतमाहुः पण्डितं बुधाः । त्यक्त्वा कर्मफलासङ्गं नित्य-तृप्तोनिराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोतिसः । निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शरीरंकेवलं कर्म कुर्वन्नाप्नोति किल्विषम् । यदृच्छालाभस-न्तुष्टोद्वन्द्वातीतोविमत्सरः । समः सिद्धावसिद्धौ च कृत्वापिन निबध्यते । गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।यज्ञायाचरतः कर्म समग्रं प्रविलीयते । ब्रह्मार्पणं ब्रह्म-हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यंब्रह्मकर्मसमाधिना” ।कर्म्मणां त्याज्यकर्त्तव्यतायां विशेषोऽन्यत्राध्याये तत्रोक्तः ।“सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तुकर्मसंन्यासात् कर्मयोगो विशिष्यते । ज्ञेयः स नित्यःसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्वो हिमहावाहो! सुखं बन्धात् प्रमुच्यते । सांख्ययोगौ पृथग्-बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्य-गुभयोर्विन्दते फलम् । यत् सांख्यैः प्राप्यते स्थानं तद्-योगैरपि गम्यते । एकं सांख्यञ्च योगञ्च यः पश्यति सपश्यति । संन्यासस्तु महाबाहो! दुःखमाप्तुमयोगतः ।योगयुक्तोमुनिर्ब्रह्म न चिरेणाधिगच्छति । योगयुक्तोविशु-द्धात्मा विजितात्मा जितेन्द्रियः । सर्व्वत्रात्ममतिं कुर्वन् कुर्य-न्नाप न लिप्यते । नैवकिञ्चित् करोमीति युक्तोमन्येत तत्त्व-वित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन्श्वसन् । प्रलपन् विसृजन् गृह्णन्नुन्मिमिषन्निमिषन्नपि ।इन्द्रियाणीन्द्रियार्थेषु वर्त्तन्तैति धारयन् । ब्रह्मण्याधायकर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेनपद्मपत्रमिवाम्भसा । कायेन मनसा बुद्ध्या केवलैरिन्द्रि-यैरपि । योगिनः कर्म कुर्व्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।अयुक्तः कामकारेण फले सक्तोनिबध्यते । सर्व्वकर्माणिमनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैवकुर्व्वन्नकारयन् । न कर्तृत्वं न कर्माणि लोकस्यसृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्त्तते” ।एवं गीतायां नानास्थानेष फलाभिसन्धित्यागेनैव कर्मणांपरम्परया मोक्षसाधनत्वमुक्तमनुपदं वक्ष्यमाण पात०भाष्ये चेश्वरार्पणबुद्ध्यानुष्ठीयमानानां योगसाघनत्वोक्तेश्चमुमुक्षुणा उक्तशास्त्ररीत्यैव कर्म करणीयमिति स्थितम् ।कर्म्म क्रियैव योगो योगसाधनम् । तपःस्वाध्यायेश्वर-प्रणिधानादिरूपे क्रियात्मके २ योगसाधने । यथा चतप आदीनां योगसाधनत्वं तथा साधनपादे पातञ्जलसूत्रभाष्यविवरणेषूक्तं यथा-“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” सू० ।“उद्दिष्टः समाहितचित्तस्य योगः, कथं व्युत्थितचि-त्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते । नातपस्विनोयोगः सिद्ध्यति अनादिकर्मक्लेशवासनाचित्रा प्रत्युप-स्थितविषयजाला चाशुद्धिर्नान्तरेण तपःसम्भेदमपोद्यतेइति तपस उपादानं तच्च चित्तप्रसादनमबाधमानमने-नासेव्यमिति मन्यते, स्वाध्यायः प्रणवादिपवित्राणांजपोमोक्षशास्त्राध्ययनं वा । ईश्वरप्रणिधानं सर्व-क्रियाणां परमगुरावर्पणं तत्फलसन्न्यासो वा” भा० ।“उद्दिष्ट इति । अभ्यासवैराग्ये हि योगोपायौ प्रथ-मे पादे उक्तौ, न च तौ व्यत्थितचित्तस्य द्रागित्येव सम्भवतइति द्वितीयपादोपदेश्यानुपायानपेक्षते सत्वशुद्ध्यर्थं, ततो हि विशुद्धसत्वः कृतरक्षासंविधानोऽभ्यासवैराग्येप्रत्यहं भावयति । समाहितत्वमविक्षिप्तत्वं, कथं व्युत्था-नचित्तोऽप्युपदेक्ष्यमाणैरुषायैर्युक्तः सन् योगी स्यादित्यर्थः ।तत्र वक्ष्यमाणेषु नियमेषु आकृष्य प्राथमिकं प्रत्युपयुक्त-तरतया प्रथमतः क्रियायोगमुपदिशति सूत्रकारः । तपःस्वाध्यायेत्यादि, क्रियैव योगः क्रियायोगो योगसा-धनत्वात् । अतएव विष्णुपुराणे खाण्डिक्यकेशि-ध्वजसंवादे । “योगयुक् प्रथमं योगी युञ्जमानोऽभि-धीयत” इत्युपक्रम्य तपः “स्वाध्यायादयो” दर्शिताः ।व्यतिरेकमुखेन तपस उपायत्वमाह । नातपस्विन इतितपसोऽवान्तरव्यापारमुपायतोपयोगिनं दर्शयति अना-दोति । अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्रा अतएवप्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता ।अशुद्धीरजस्तमःसमुद्रेको नान्तरेण तपःसम्भेदमपोद्यतेसान्द्रस्य नितान्तविरलता सम्भेदः, ननूपादीयमानमपितपोधातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपा-य इति अत आह--तच्चेति, तावन्मात्रमेव तपश्चरणीयंन यावता धातुवैषभ्यमापद्यत इत्यर्थः । प्रणवादयः पुरु-षसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्म-पारादयः, परमगुरुर्भगवानीश्वरस्तस्मिन्, यत्रेदमुक्तम्-“कामतोऽकामतोवापि यत् करोमि शुभाशुभम् । तत्सर्यंत्वयि सन्न्यस्तं त्वत्प्रयुक्तः करोम्यहम्” इति “तत्फलसन्न्या-सो वा” फलानभिसन्धानेन कार्य्यकरणम् । थत्रेदमुक्तम्“कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि” (गीता) विव०“स हि क्रियायोगः” भा० “समाधिभावनार्थः क्लेशतनू-करणार्थश्च” सू० “स हि आसेव्यमानः समाधि भाव-यति, क्लेशांश्च प्रतनूकरोति, प्रतनूकृतान् क्लेशान् प्रसंख्या-नाग्निना दग्धवीजकल्पानप्रसवधर्मिणः करिष्यतीति तेषांतनूकरणात् पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्या-तिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यतेइति” भा० । “तस्य प्रयोजनाभिधानाय सूत्रमवतारयति सहीति” ननु क्रियायोग एव चेत् क्लेशान् प्रतनूकरोति कृतंतर्हि प्रसङ्ख्यानेनेत्यत आह प्रतनूकृतानिति क्रियायोगस्यप्रतनूकरणमात्रे व्यापारो न तु बन्ध्यत्वे क्लेशानां, प्रसङ्ख्यानस्य तु तद्बन्ध्यत्वे, दग्धवीजकल्पानिति बन्ध्यत्वेनदग्धकलमवीजसारूप्यमुक्तम् स्यादेतत्प्रसङ्ख्यानमेव चेत्क्लेशान् अप्रसवधर्मिणः करिष्यति कृतमेषां प्रतनूकरणे-नेत्यत आह तेषामिति । क्लेशानामतानवे हि बलवद्धि-रोधिग्रस्ता सत्वपुरुषान्यताख्यातिरुदेतुमेव नोत्सहते किमुप्रागेव तद्बन्ध्यभावं कर्त्तुम्, प्रतनूकृतेषु तु दुर्बलेषु तद्विरो-धिन्यपि वैराग्याभ्यासाभ्यामुपजायते उपजाता च तैरप-रामृष्टा अनभिभूता नैव यावत् परामृश्यते सत्वपुरूवान्य-तामात्रख्यातिसूक्ष्मप्रज्ञायन्त्रिततया सूक्ष्मोऽस्याविषय इतिसूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते, कुतः?समाप्तोऽधिकारः कार्य्यारम्भणं गुणानां यया हेतुभूतयासा तथोक्तेति” विव० । क्रियायोगोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
