| YouTube Channel

कर्मफल (karmaphala)

 
शब्दसागरः
English
कर्म्मफल
n.
(-लं)
1. Pain, pleasure, &c. considered as the consequence or
fruit of human actions.
2. The name of a fruit
see कर्म्मरङ्ग.
E.
कर्म्म,
and फल fruit.
Capeller Eng
English
कर्मफल
n.
fruit or result of actions.
Yates
English
कर्म्म-फल (लं) 1.
n.
Fruit of moral
conduct
name of a fruit.
Wilson
English
कर्म्मफल
n.
(-लं)
1 Pain, pleasure, &c. considered as the consequence or fruit of human actions.
2 The name of a fruit: see कर्म्मरङ्ग.
E.
कर्म्म, and फल fruit.
Monier Williams Cologne
English
कर्म—फल
n.
the fruit or recompense of actions (as pain, pleasure
&c.
, resulting from previous acts or acts in a former life),
Āp.
the fruit of Averrhoa Carambola,
L.
Hindi
Hindi
एक कार्रवाई के परिणाम
Apte Hindi
Hindi
कर्मफलम्
नपुं*
कर्मन् - फलम् -
पूर्वजन्म में किये हुए कर्मों का फल या पारितोषिक
Shabdartha Kaustubha
Kannada
कर्मफल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶಾಸ್ತ್ರವಿಹಿತವಾದ ಪುಣ್ಯ ಮತ್ತು ನಿಷಿದ್ಧವಾದ ಪಾಪಕರ್ಮಗಳ ಪರಿಣಾಮವಾದ ಸುಖದುಃಖಗಳು /ಜನ್ಮಾಂತರದ ಕರ್ಮಗಳ ಫಲ
व्युत्पत्तिः - > कर्मणां विहितानां निषिद्धानां वा फलम्
प्रयोगाः - > "युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फलेसक्तो निबध्यते ॥"
उल्लेखाः - > गीता० ५-१२
कर्मफल
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತಾರೆಗಿಡ
कर्मफल
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನೆಲ್ಲಿಗಿಡ
कर्मफल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ತಾರೆಕಾಯಿ
कर्मफल
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ನೆಲ್ಲಿಕಾಯಿ
L R Vaidya
English
karman-Pala {% n. %} recompensef actions, (e.g. pain, pleasure &c.).
शब्दकल्पद्रुमः
Sanskrit
कर्म्मफलं,
क्ली,
(कर्म्मणः जीवकृतशुभाशुभस्य शास्त्र-विहितस्य निषिद्धस्य वा सुखदुःखादिरूपं फलंपरिणाम इत्यर्थः ।) कर्म्मविपाकः (यथा, विष्णुपुराणे १९ ७१ ।“समस्तकर्म्मभोक्ता कर्म्मोपकरणानि ।त्वमेव विष्णो ! सर्व्वाणि सर्व्वकर्म्मफलञ्च यत्”
तथा मनुः ११ २३१ ।“एवं सञ्चित्य मनसा प्रेत्य कर्म्मफलोदयम्”
)कर्म्मरङ्गफलम् इति मेदिनी
कामराङ्गाइति भाषा
वाचस्पत्यम्
Sanskrit
कर्म्मफल
न०
कर्मणां शास्त्रविहितानां निषिद्धानां वा फलम् ।शुभाशुभकर्मणां सुखदुःखादिरूपे फले तत्र विहितकर्मणांफलाभिसन्धौ तत्तत्फलप्राप्तिः अनभिसन्धाने परम्परयाचित्तशुद्ध्या मुक्तिप्राप्तिरिति भेदः यथाह मल० त० विष्णुपु० “विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः”गीतापि “युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्अयुक्तः कामकारण फले सक्तोनिबध्यते” युक्तः ईश्वरायकर्माणि फलायेत्येवं समाहितः, फलं त्यक्त्वा फल-मनभिसन्धाय कर्म्माणि कुर्व्वन्नपीतिशेषः शान्तिमाप्नोतिसत्वशुद्धिपापक्षयसंन्यासनिष्ठां क्रमेण प्राप्नोतीत्यर्थः अयु-क्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया कामतःप्रवृत्तेरितियावत् फले सक्तः मम फलायेदं कर्म तत्करो-मीत्येवं फले सक्तोनिबध्यते” म० त० रघु० “विष्णुपुराणे ।“कर्म्माण्यसङ्कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्म-रूपे अवाप्य तां कर्ममहोमनन्ते तस्मिल्लँयं ते त्वमलाःप्रयान्ति” तां कर्ममहीं भारतवर्षरूपाम् “पितॄन्नमस्ये दिविये मूर्साः कामप्रदाः काम्यफलाभिसन्धौ--विमुक्तिदायेऽनभिसंहितेषु” प्रा० त० रुचिस्तवः अधिकं कर्म-योगशब्दे वक्ष्यते कर्मफलानामीश्वरस्यैव दातृत्व-मिति वेदान्तिनः मीमासकमते धर्मादेव फलमिति भेदः ।तच्च ईश्वरशब्दे दर्शिते “फलमत उपपत्तेः” इत्यादिकेशा० सूत्रभाष्ये दर्शितम् “यस्तु कर्मफलत्यागी त्यागीत्यभिधीयते” “न मे कर्मफले स्पृहा” गीता कर्मरङ्गस्यफलम् शा० मध्यपदलोपः (कामराङ्गा) फले मेदि० ।अथ कर्मणां फलमस्ति वेति सन्देहे निरूप्यते, तत्रकर्म्मणः प्ररोचनार्थतया फलमस्तीति श्रीभागवतवचनंश्रीधरव्याख्यानञ्चोपजीव्य म० त० निर्ण्णीतं यथा-“वेदोक्तमेव कुर्वाणोनिःसङ्गोऽर्पितमीश्वरे नैष्कर्म्यांलभते सिद्धिं रोचनार्था फलश्रुतिः” भाग० ११, ३, ४८ ।“वेदोक्तमेव कुर्वाणो तु निषिद्धम् ननु कर्म्मणिक्रियमाणे तस्मिन्नासत्तिस्तत्फलञ्च स्यात्, तु नैषकर्मारूपा फलसिद्धिः अतएवाह “निसःङ्ग इति अन-भिनिवेशितवान् ईश्वरेऽर्पितं फलोद्देशेन फलस्यश्रुतत्वात् कर्मणि कृते फलं भवत्येवेत्यत आह “रोच-नार्थां इति कर्मणि रुच्युतपादनार्था अतएव तत्रैव“फलश्रुतिरियं नॄणां श्रयोरोचनं परम् श्रेयो-विवक्षया प्रोक्ता यथा भैषज्यरोचनम् उत्पत्त्यैव हिकामेषु प्राणेषु स्वजनेषु आसक्तमनसोमर्त्या आत्मनो-ऽनथहेतुषु तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।कथं युञ्ज्यात् पुनस्तेषु तांस्तमोविशतोबुधः एवं व्यव-स्थितं केचिदविज्ञाय कुबुद्धयः फलश्रुतिं कसुमितां नवेदज्ञा वदन्ति हि” “इयं फलश्रुतिर्न श्रेय, परमपुरुषा-र्थपरा भवति किन्तु बाहर्मुखानां मोक्षविवक्षयाअवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम् यथाभैषज्ये औषधे रुच्युत्पादनम् यथा “पिब निम्बं प्रदा-स्यामि खलु ते खण्डलडडुकान् पित्रैवमुक्तः पिबतितिक्तमप्यतिवालकः” अत्र तिक्तनिम्बादिपानस्य खलुखण्डादिलाभ एव प्रयोजनम्, किन्त्वारोग्यम् तथावेदोप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते ।ननु कर्मकाण्डे मोक्षस्य नाभापि श्रूयते, कुत एवंव्याख्यायते, यथाश्रुतस्यैवाघटनादित्याह उत्पत्त्येति, द्वाभ्याम् उत्पत्त्या स्वभावत एव कामेषु पश्वादिषुप्राणेषु आयुरिन्द्रियबलवीर्य्यादिषु स्वजनेषु पुतृदारा-दिषु परिणामतोदुःखहेतुषु अतस्तान् स्वार्थं परम-सुखमविदुषः अजानतः अतो नतान् प्रह्वीभूतान् बुधो-वेदोयद्बोधयति तदेव श्रेय इति विश्वसितानित्यर्थः ।तानेयंभूतान् वृजिनाध्वनि पापे वर्त्मनि देवादियोनौ वाभ्राम्यतः पुनस्तमोभूतवृक्षादियोनौ विशतः, “पशुकाम” इतिचायुरिन्द्रियादिकाम इति पुत्रादिकाम” इति कथपुनस्तेषु स्वयं बुधोवेदोयुञ्ज्यात् तथासत्यनाप्तः स्यादितिभावः कथं तहि कर्म्ममीमांसकाः कर्म्मफलपरां वदन्तितत्राह एवमिति व्यवस्थितम् वेदस्याभिप्रायमविज्ञायकुसुमिताम् अवान्तरफलरोचनतया रमणीयां परं फलश्रुतिंवदन्ति कुतस्ते कुबुद्धयः? तदाह--हि यस्मात् वेदज्ञाव्यासादयः तथा वदन्तीति अतएव निष्कामकर्म्मणात्म-ज्ञानमित्युक्तम् यथा--“अयमेव क्रियायोगो ज्ञानयो-गस्य साधकः कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते” ।सोऽपि दुरितक्षयद्वारा साक्षात् तथा “ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः श्रुतिः “तमेतमात्मानंब्राह्मणा विविदिषन्ति वेदानुवचनेन ब्रह्मचर्य्येण तपसादानेन श्रद्धया यज्ञेनानशनेन चे” ति “अतएव यज्ञादीनांज्ञानशेषताञ्चावधार्य निष्कामेषु कर्मसु प्रवर्त्तयते ।पण्डितेनापि मूर्खः काम्ये कर्मणि प्रवर्त्तयितव्यःइत्याह षष्ठस्कन्धे--“स्वयं निःश्रेयसं विद्वान् नवक्त्यज्ञाय कर्म हि राति रोगिणेऽपथ्यं वाञ्छतेऽपिभिषक्तमः” राति ददाति” म० त० रघु० ।इदमपि ज्ञाननिष्ठाप्रशंसामात्रम् अन्यथा संसारस्य धर्म्मा-धर्म्ममूलकतया धर्म्मकार्य्यस्य फलाभावे कथं सुखादिभोगः, कथं वा संसारप्रवृत्तिः किञ्च ईश्वरशब्दे दर्शिते “फलमतउपपत्तेः” इत्यादिके शा० सूत्रभाष्ये धर्म्मस्य फलदातृत्व-मतनिवारणेनेश्वरस्यैव फलदातृत्वं यदुक्तं तद्विरुद्धं स्यात् ।एकान्ततोऽसति कर्मणः फले कथमीश्वरस्य तद्दातृत्वोक्तिःसङ्गच्छते ।अतएव तत्रैव भाग० ११, ३, ४६ “परोक्षवादोवेदोऽसौ बालानामनुशासनम् कर्ममोक्षाय कर्माणिविधत्ते त्वगदं यथा” इति पूर्व्वतरवाक्ये कर्मणां कर्म-मोक्षस्यैव मुख्यफलत्वमुक्तं तु फलाभावः व्याकृत-ञ्चैतत् श्रीधरेण यथा--“ननु स्वर्गाद्यर्थं कर्माणि विधत्तेन कर्ममोक्षार्थं तत्राह बालानामनुशासनं यथा भवति तथातत्र दृष्टान्तः अगदम् औषध यथा पिता बालमगदं पाययन्खण्डलड्डकादिभिः प्रलोभयन् पाययति ददाति तानि, नैतावताऽगदपानस्य तल्लाभः प्रयोजनं अपि चारोग्यं तथावेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्माणिविधत्ते” तत्र दृष्टान्ते ददाति तानीति वदता दार्ष्टा-न्तिकेऽपि खण्डलड्डुकादिदानवत् फलवत्त्वं सूचितंकिन्तु तस्य मुख्योद्देश्यत्वम् तच्चारोग्यस्थानीयमोक्ष-स्यैवेति सुस्थितं कर्म्मणः फलवत्त्वमिति दिक्
Burnouf
French
कर्मफल कर्मफल
n.
(फल) le fruit des œuvres, la
jouissance qu'on en retire.