| YouTube Channel

कर्ब्बुदारः (karbbudAraH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्ब्बुदारः,
पुं,
(कर्ब्बुरिव कर्ब्बुः सन् वा श्लेष्मानंमलं वा दारयतीति कर्ब्बु + दृ + णिच् +अच् ।) कोविदारवृक्षः इति शब्दमाला
श्वेतकाञ्चनः अस्य गुणौ ग्राहित्वम् रक्त-पित्तरोगे विशेषेण पथ्यत्वञ्च इति राजवल्लभः
(“शणस्य कोविदारस्य कर्ब्बुदारस्य शाल्मलेः ।पुष्पं ग्राहि प्रशस्तस्य रक्तपित्ते विशेषतः”
इति चरके सूत्रस्थाने २७ अध्याये
)नीलझिण्टी इति शब्दचन्द्रिका