| YouTube Channel

कर्पूररस (karpUrarasa)

 
Monier Williams Cologne
English
कर्पूर—रस
m.
camphorated mixture.
वाचस्पत्यम्
Sanskrit
कर्पूररस
पु०
कर्पूर इव कृतोरसः पारदः पाकविशेषेणकपूरवत्कृते पारदे रसकर्पूरे तत्पाकप्रकारः भावप्र०उक्तो यथा-“अथ कर्पूररसस्य विधिः तत्र पारदस्य संक्षिप्तं शोधनंकत्तव्यम् शुद्धसूतसमं कुर्य्यात् प्रत्येकं गैरिकं सुधीः इष्टि-कां खटिकां तद्वत्स्फटिकां सिन्धुजन्म तल्मीकं क्षार-लवणं भाण्डरञ्जकमृत्तिकाम् सर्वाण्येतानि सञ्चूर्ण्य वास-सा चापि शोधयेत् खटिका(खरी) (स्थटिका) (फट्किरी)सिन्धुजन्म सैन्धवम् बल्मीकम् (रुइमाटी) क्षारलवणम्(खारिलोण) भाण्डरञ्जकमृत्तिका (काविसा) एभिश्चूर्णैर्युतंसूतं यावद्यामं विमर्दवेत् तच्चूर्णसहितं सूतं स्थाली-मध्ये परिक्षिपेत् तस्याः स्थाल्यामुखे स्थालीमपरां धा-रयेत् समाम् सवस्त्रकुटितमृदा मुद्रयेदनयोर्मुखम् संशो-ष्य मुद्रयेद्भूयोभूयः संशोष्य मुद्रयेत् सम्यग्विशोष्य मुद्रांतां स्थालीञ्चुल्यां विधारयेत् अग्निं निरन्तरं दद्याद्याव-द्दिनचतुष्टयम् अङ्गारोपरितद्यन्त्रं रक्षेद्यत्नादहर्निशम् ।शनैरुद्घाटयेद्यन्त्रमूर्द्धस्थालीगतं रसम् कर्पूरवत् सुविमलंगृह्णीयाद्गुणवत्तरम् तदेव कुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् खादन् हरति फिरङ्गव्याधिं सोपद्रवं सपदि ।विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्य्यंबलं विपुलम् रमयतिरमणीशतकं रसकर्पूरस्य सेवकः सततम्”