| YouTube Channel

कर्पूरः (karpUraH)

 
Apte
English
कर्पूरः [karpūrḥ] रम् [ram], रम् [Un. 4.9.] Camphor.
Comp.
-अश्मन् Crystal. -केलिः
N.
of a flamingo
H.
खण्डः a field of camphor.
a piece of camphor. -तैलम् camphor liniment. -नालिका a kind of food. -मञ्जरी
N.
of a drama by Rājaśekhara.
मणिः a kind of jewel.
a white mineral (used in medicine) -रसः Quicksilver. -स्तवः a reputed panegyric in तन्त्रशास्त्र.
Apte 1890
English
कर्पूरः,
रं [Uṇ. 4. 90.] Camphor.
Comp.
खंडः {1} a field of camphor. {2} a piece of camphor.
तैलं camphor liniment.
नालिका a kind of food.
मणिः {1} a kind of jewel. {2} a white mineral (used in medicine).
Apte Hindi
Hindi
कर्पूरः
पुं*
- कृप्-ऊर
कपूर
Wordnet
Sanskrit
Synonyms:
कर्पूरः
noun
एकः द्वीपः
"कर्पूरस्य उल्लेखः कथासरित्सागरे अस्ति"
Synonyms:
कर्पूरः
noun
पुरुषनामविशेषः
"कर्पूरः इति नामकानां नैकेषां पुरुषाणाम् उल्लेखः कोषे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
कर्पूरः,
पुं,
क्ली,
(कृप् + “खर्जूरादित्वात्” उणां ९० ।इति ऊरः ।) स्वनामख्यातसुगन्धिद्रव्यम् काफुरइति पारस्य भाषा कपूर् इति हिन्दी भाषा ।(यथा, -- राजेन्द्रकर्णपूरे ३३ ।“कर्पूरैरिव पारदैरि सुधास्यन्दैरिवाप्लावितेजाते हन्त ! दिवापि देव ! ककुभां गर्भे भवत्की-र्त्तिभिः”
) तत्पर्य्यायः घनसारः चन्द्रसंज्ञः ३सिताभ्रः हिमवालुका इत्यमरः ।१३०
सिताभः इति तट्टीका
घनसारकः ७सितकरः शीतः शशाङ्कः १० शिला ११शीतांशुः १२ हिमवालुकः १३ हिमकरः १४शीतप्रभः १५ शाम्भवः १६ शुभ्रांशुः १७ स्फटि-काभ्रः १८ कारमिहिका १९ ताराभ्रः २०चन्द्रार्द्रकः २१ चन्द्रः २२ लोकतुषारः २३ गौरः२४ कुमुदः २५ हनुः २६ हिमाह्वयः २७ चन्द्र-भस्म २८ वेधकः २९ रेणुसारकः ३० इतिशब्दरत्नावली
अस्य गुणाः शिशिरत्वम् तिक्त-त्वम् कटुत्वम् श्लेष्मरक्तपित्ततृष्णाविदाह-कण्ठस्थदोषोष्णरोगनाशित्वञ्च
“कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः ।चिरस्थो दाहशोषघ्नः धौतः शुभकृत्परः”
इति राजनिर्घण्टः
अपि पाके शीतलत्वम् चक्षुर्हितकारित्वम् ।पक्वकर्पूरादपक्वस्याधिकगुणत्वञ्च इति राज-बल्लभः
तद्भेदा यथा पोतासः भीमसेनः २सितकरः शङ्करावाससंज्ञः पांशुः पिञ्जः ६अब्दसारः हिमबालुकः जूतिका तुषारः१० हिमः ११ शीतलः १२ पत्रिकाख्यः १३ ।इति राजनिर्घण्टः
(तत्रादौ कर्पूरस्य नाम गुणाश्च ।“कर्पूरः शीतलो वृष्यश्चक्षुष्यो लेखनो लघुः ।सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः ।दाहतृष्णास्यवैरस्यमेदो दौर्गन्ध्यनाशनः
कर्पूरोद्विविधः प्रोक्तः पक्वापक्वप्रभेदतः ।पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम्”
अथ चीनाककर्पूरः चीनेकर्पूर इति भाषा ।“चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः ।कुष्ठकण्डूवमिहरस्तथा तिक्तरसश्च सः”
इति भावप्रकाशस्य पूर्व्वखण्डे भागे
“सतिक्तः सुरभिः शीतः कर्पूरो लघुलेखनः ।तृष्णायां मुखशोषे वैरस्ये चापि पूजितः”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये
)