| YouTube Channel

कर्द्दम (karddama)

 
वाचस्पत्यम्
Sanskrit
कर्द्दम
पु०
कर्द्द--अम (कादा) पङ्के अमरः “सरितःकुर्वती गाधाः पथश्चाश्यानकर्द्दमान्” रघुः करणे अम ।२ पापे उणादिकोषः तस्य कुत्सितशब्दहेतुत्वात्तथात्वम् ।३ मांसे
न०
शब्दचि० तत्सेवने हि उदरशब्दोजायतेइति तस्य तथात्वम् कर्दमश्छाया कारणत्वेनास्त्यस्यअर्श० अच् ब्राह्मणेश्छायाजाते प्रजापतिभेदे ।“छायायाः कर्द्दमोजज्ञे देवहूत्याः पतिः प्रभुः” भाग०३, १२, १४, “प्रजाः सृजेति भगवान् कर्द्दमो ब्रह्मणोदितः ।सरस्वत्यास्तपस्तेपे सहस्राणां समा दश ततः समाधियो-गेन क्रियायोगेन कर्द्दमः संप्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम्” भाग० ३, २१, अष्टमश्लोकादौ ततः कपिलस्यप्रादुर्भावोवर्णितः तन्नामनिरुक्तिः” ब्रह्मवै०
पु०
ब्र० ख०दर्शिता यथा “वेदेषु कर्दमः शब्दश्छायायां वर्त्तते स्फु-टम् वभूव कर्दमाद्बालः कर्दमस्तेन कीर्त्तितः” तेन५ छायायामपि ततः ॠश्यादि० चतुरर्थ्यां कर्दमकपङ्कसन्निकृष्टदेशादौ
त्रि०
कर्दमोजातोऽस्य तारका०इतच् कर्दमित जातकर्दम
त्रि०
अर्श० मत्वर्थेअच् कर्दम कर्दमयुक्ते
त्रि०
काश्या० चतुरर्थ्यां ष्ठञ्ञिटौ कार्दमिक कर्दमसन्निकृष्टदेशादौ
त्रि०
ष्ठञि स्त्रियांङीष् मत्वर्थे इनि कर्द्दमिन्
पु०
तद्युक्ते
त्रि०
मुद्गवृक्षेपु० वैद्य० तस्य कर्दमसमीपजातत्वात्तथात्वम् पृषी०कर्द्रमीत्यपि तत्रार्थे