| YouTube Channel

कर्त्रभिप्राय (kartrabhiprAya)

 
Abhyankara Grammar
English
कर्त्रभिप्राय meant for the agent of the action. The word is used in connection with the fruit or result of an action
when the result is for the agent, roots having both the Padas get the Ātmanepada terminations
cf. स्वरितञ्जितः कर्त्रभिप्राये क्रियाफले P.I.3.72.
वाचस्पत्यम्
Sanskrit
कर्त्रभिप्राय
पु०
कर्त्तारमभिप्रैति संबघ्नाति अभि + प्र +इण--अण् उप० स० कर्त्तृसम्बन्धिनि “स्वरितञितः क-र्त्त्रभिपाये क्रियाफले” पा० अत्र क्रियाफलस्वरूप-ञ्चास्माभिः शब्दार्थरत्ने निरूपितं यथा ।“स्वरितञिद्धातूत्तरतङः कर्तृगामिन्येव सति क्रियाफलेकर्तृवाचकत्वं नान्यथा तत्र फलञ्च धातूपस्थाप्यंजानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्तृनिष्ठतयामर्व्वदैव जानीते इत्येव प्रयोगापत्तेः जानातीत्यादेरपला-पाषत्तेश्च नेष्यते तु तथा शास्त्रकारैः नापि क्रियाज-न्यवेतनदक्षिणादिरूपलाभादि गौर्ण फलमिह विवक्षितंतथा सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजो-यजन्ते इत्यादिप्रयोगापत्तेः किन्तु फलतीतिव्युत्पत्त्याप्रयोजनापरनामकक्रियाजन्यतृप्तिस्वर्गादिरूपमेव मुख्यं फलंग्राह्यं यथोक्तं हरिणा “यस्यार्थंस्य प्रसिद्ध्यर्थमारभ्यन्तेपचादयः तत् प्रधानं फलं तासां लाभादि प्रयोज-नमिति” प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयःतासांपचादीनां प्रधानं फलं तदित्यर्थः फलस्य प्राधान्यञ्चेत-रापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्य तस्यसुखादिष्वेव सत्त्वेऽपि क्वचित् साक्षात्सुखादिरूपप्रयोज-नालाभे तत्साधनरूपेतरफलस्यापि ग्रहणमिति द्रष्टव्यम्तेन “अपाद्वदः” पा० इत्यादिसूत्रविहिततङः सुखादिरू-पमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम्” ।कर्त्तुरभिप्रायो यत्र कर्त्तुरभिप्रायविषये
त्रि०
उक्तपाणिनिसूत्रस्य “आत्मनेपदमपि कर्त्रभिप्रेतक्रियाफलमात्रजनकत्वेनेति” शब्दचि० व्याख्यानात्तदर्थता अतएव पा० सूत्रस्योभयार्थता तदेतत्शब्द० प्र० विवृतं यथा“अत्रोभयपदिधातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्म-नेपदं यत्र कर्तृभिन्ननिष्ठं तत्र परस्मैपदं साधु “स्वरि-तञितः कर्त्रभिपाये क्रियाफले” इति सूत्रेण कर्त्त्रारमभि-प्रौति सम्बध्नातीति व्युत्पत्त्या कर्तृसम्बद्धे क्रियाफलएवा-त्मनेपदस्य विधानात् अतएव “स्वरिज्ञिण्ण्यन्तधातूनांकर्तृनिष्ठे क्रियाफले आत्मनेपदमुद्दिष्टं तदनिष्ठे पदान्त-रम्” इत्यापिशालीयाः पठन्ति तदनुसृत्यैव दानादिस्थलेस्वगते फले ददे इत्येवं, परगते तु ददानीत्येव वाक्यं प्रयु-ञ्जते वृद्धाः “स्वर्गंकामोयजेत” इत्यादौ सामान्यतः श्रुत-मपि फलं कर्तृनिष्ठमेव “शास्त्रदेशितं फलमनुष्ठातरोति”मीमांसयोत्सर्गतस्तथा कल्पमादिति प्राञ्चः चिन्तामणि-कृतस्तु यत्र क्रिवाफले कर्त्तृरभिप्रायैच्छा तत्रैवात्मनेप-दमिति सूत्रार्थस्तेन याजकाद्यैर्दक्षिणदिलाभेच्छयैव यागा-दिकरणे यजन्ति याजकाः पठन्ति पाठकाः इति परस्मै-पदम् परगतस्यापि याग दिफलस्येच्छया तत्करणे तु यजन्तेयाजकाइत्यादिकः साधुरेव प्रयोगोऽतएव “पितृस्वर्गकामःपुष्करिण्या यजेत” इत्यादावप्यात्मनेपदम् “धनकामोग-णपतिं मुक्तिकामोऽर्च्चयेद्धरिम्” इत्यादौ परस्मैपदंसङ्गच्छते” इत्याहुः