| YouTube Channel

कर्त्त (kartta)

 
शब्दसागरः
English
कर्त्त r. 10th. cl. (कर्त्तयति) To slacken or unloose, to remove
also कत्र
and कर्त्र.
Yates
English
कर्त्त (त् क) कर्त्तयति 10.
a. To cut
to
slacken or unloose.
Wilson
English
कर्त्त r. 10th cl. (कर्त्तयति) To slacken or unloose, to remove
also
कत्र and कर्त्र.
शब्दकल्पद्रुमः
Sanskrit
कर्त्त, त् शैथिल्ये इति कविकल्पद्रुमः
(अदन्तचुरां--परं--अकं--सेट् ।) रेफस्याधस्तकारःकर्त्तयति कर्त्तापयति धूलिर्ज्जलेन इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
कर्त्त शैथिल्येशिथिलीकरणे आरम्भसंयोगशिथिलतापादनेअ०
चु०
सक०
सेट् कर्त्तयति ते मतान्तरे कर्त्तापयति तेअचकर्त्तत्--त कर्त्तयाम्--वमूव आस चकार चक्रे कर्त्तयिता कर्त्यात् कर्त्तयिषीष्ट कर्त्तयिष्यति ते कर्त्तनीयःकर्त्तयितव्यः कर्त्तयिता कर्त्तितः कर्त्तनं कर्त्तना कर्त्तयितुम् कर्त्तयित्वा आकर्त्त्य कर्म्मणि कर्त्त्यतेअकर्त्तिं अकर्त्तयिषाताम्--अकर्त्तिवाताम् कर्त्तिता-कर्त्तियिता कर्त्तयिष्यते कर्त्तिष्यते--“एवाहं सर्वं दुर्भूतंकर्त्रं कृत्या कृताकृतम्” अथ० १०, १, ३२ “अपि क-र्त्तमवर्त्तयोऽयज्यून्” ऋ० १, १२१, १३
कर्त्त
पु०
कर्त्तयति शिथिलीकरोति कर्त्तं--अच् कूपे“त्राध्वं कर्त्तादपपदो यजत्राः!” यजु० ३३, ५१, कर्त्तात्कूपात्” वेददी० कृत--भावे घञ् भेदे “सध्र्यङ्नि-यम्य यतयो यमकर्त्तहेतिम्” भाग० २, ७, ४९, कृत--चत् ।३ छेदके
त्रि०
“वृकस्य कर्त्तादवपदोयजत्राः” ऋ० २, ३०, “हे यजत्राः अवपदः आपदः कर्त्तात् कर्त्तुः” भा०