| YouTube Channel

कर्ता (kartA)

 
Hindi
Hindi
कर्ता, भी एक घर में मुख्य व्यक्ति को जिम्मेदार ठहराया
Kridanta Forms
Sanskrit
कृ (कृ॒ञ् करणे - भ्वादिः - अनिट्)
ल्युट् = करणम्
अनीयर् = करणीयः - करणीया
ण्वुल् = कारकः - कारिका
तुमुँन् = कर्तुम्
तव्य = कर्तव्यः - कर्तव्या
तृच् = कर्ता - कर्त्री
क्त्वा = कृत्वा
ल्यप् = प्रकृत्य
क्तवतुँ = कृतवान् - कृतवती
क्त = कृतः - कृता
शतृँ = करन् - करन्ती
शानच् = करमाणः - करमाणा
कृ (कृ॒ञ् हिंसायाम् - स्वादिः - अनिट्)
ल्युट् = करणम्
अनीयर् = करणीयः - करणीया
ण्वुल् = कारकः - कारिका
तुमुँन् = कर्तुम्
तव्य = कर्तव्यः - कर्तव्या
तृच् = कर्ता - कर्त्री
क्त्वा = कृत्वा
ल्यप् = प्रकृत्य
क्तवतुँ = कृतवान् - कृतवती
क्त = कृतः - कृता
शतृँ = कृण्वन् - कृण्वती
शानच् = कृण्वानः - कृण्वाना
कृ (डुकृ॒ञ् करणे - तनादिः - अनिट्)
ल्युट् = करणम्
अनीयर् = करणीयः - करणीया
ण्वुल् = कारकः - कारिका
तुमुँन् = कर्तुम्
तव्य = कर्तव्यः - कर्तव्या
तृच् = कर्ता - कर्त्री
क्त्वा = कृत्वा
ल्यप् = प्रकृत्य
क्तवतुँ = कृतवान् - कृतवती
क्त = कृतः - कृता
शतृँ = कुर्वन् - कुर्वती
शानच् = कुर्वाणः - कुर्वाणा
Wordnet
Sanskrit
Synonyms:
कर्ता
noun
यः कार्यं करोति।
"
Synonyms:
कर्ता
noun
व्याकरणशास्त्रानुसारेण तत् कारकं यत् धात्वर्थस्य व्यापारस्य आश्रयः।
"रामेण भोजनं कृतम् इत्यस्मिन् वाक्ये रामः इति कर्ता।"
Synonyms:
कर्ता
adjective
यः करोति।
"सर्वकार्याणां कर्ता ईश्वरः।"
पुराणम्
English
कर्ता / KARTĀ. A Viśvadeva, (Śloka 35, Chapter 91, anuśāsana parva).
शब्दकल्पद्रुमः
Sanskrit
कर्त्ता, [ऋ] त्रि, (करोति क्रिया निष्पादयतीति वा ।करोति यः कर्म्मेति शेषः कृ + कर्त्तरि तृच् ।)कारकः इति मेदिनी
षट्कारकान्तर्गतकारक-विशेषः वोपदेवेनास्य घसंज्ञा कृता अत्रउक्तार्थे प्रथमा अनुक्तार्थे तृतीया विभक्तिर्भवति
तस्य लक्षणम् “क्रियानुकूलकृतिमत्त्वम्” इतिसारमञ्जरी
“यः करोति सः” इति सर्व्ववर्म्मा
“कृत्याश्रयः” इति तार्किकाः
“चेतनान्तरव्या-पाराव्यवधानेन धात्वर्थनिष्पादकश्चेतनः कर्म्मकर-णादिकारकचक्रप्रयोक्ता वा” इति प्रायश्चित्तवि-वेकः
“क्रियामुख्यप्रयोजकौ कर्त्ता” इति क्रम-दीश्वरः
तु पञ्चविधः क्रियामुख्यः हेतुकर्त्ता२ प्रयोजकः अनुमन्ता ग्रहीता तथा ।“क्रियामुख्यो भवेत् कर्त्ता हेतुकर्त्ता प्रयोजकः ।अनुमन्ता ग्रहीता कर्त्ता पञ्चविधः स्मृतः” ।इति गोयीचन्द्रटीकाकृद्गोपालचक्रवर्त्ती
चत्रिविधः सात्त्विकः राजसः तामसः ।सात्त्विको यथा, --“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।सिद्ध्यसिद्ध्योर्निर्विकारः कर्त्ता सात्त्विक उच्यते”
राजसो यथा, --“रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः”
तामसो यथा, --“अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः ।विषादी दीर्घसूत्री कर्त्ता तामस उच्यते”
इति श्रीभगवद्गीता १८ २६-२८
कर्त्ता, [ऋ]
पुं,
(करोति सृजति चतुर्द्दशभुवनानियः सर्व्वलोकस्रष्टेति यावत् कृ + तृच् ।) पर-मेष्ठी ब्रह्मा इति मेदिनी
क्रियानुकूलकृति-मान् त्रिविधः यथा, --“त्रिधैव ज्ञायते कर्त्ता विशेषेण प्रतिक्रियाम् ।योग्यत्वप्रतिषिद्धत्वविशेषणपदान्वयैः”
अस्यार्थः क्रियां प्रति प्रकारत्रयेण कर्त्ता विज्ञा-यते तस्य विवरणम् स्वाध्यायोऽध्येतव्य इत्यत्रयोग्यत्वेन लब्धविद्यस्त्रैवर्णिकः
अहरहर्दद्यात्दीक्षितो ददातीत्यत्र प्रतिषिद्धत्वेन दीक्षिते-तरपरः
स्वर्गकामो यजेतेत्यत्र विशेषण-पदान्वयेन स्वर्गकामः कर्त्ता ज्ञायते
*
नित्ये निषेधे यद्यत् साधनं तदभावस्तदभाव-साधनं इत्यनुभवसिद्ध्या नित्याकरणं निषिद्धाचर-णञ्च प्रत्यवायसाधनं शास्त्रावगतं अतस्तदभावोनित्याचरणं निषिद्वाकरणञ्च प्रत्यवायाभावसाधन-मिति प्रत्यवायपरिहारार्थी नियोज्योऽन्वेतितद्वोधकविशेषणपदाध्याहारादिति बोध्यं ततश्चेयंविधिवाक्यशाब्दधीः यथा, काम्ये स्वर्गकामोयजेतेत्यत्र स्वर्गकामस्य कर्त्तुर्य्यागविषयकं कार्य्यम् ।नित्ये अहरहः सन्ध्यामुपासीत इत्यत्र प्रत्यवाय-परिहारार्थिनः कर्तुः प्रत्यहं सन्ध्यावन्दनविषयकं ।कार्य्यम् कलञ्जं भक्षयेदित्यत्रापि प्रत्यवायपरि-हारार्थिनः कर्तुः कलञ्जभक्षणाभावविषयकं कार्य्य-मित्येवं रूपा इति धर्म्मदीपिका
(महादेवः यथा, महाभारते १३ १७ ६४ ।“संग्रहो निग्रहः कर्त्ता सर्पचीरनिवासनः”
विश्वस्रष्टुर्ब्रह्मणोऽपि कर्तृत्वात् आदिकर्त्ता विष्णुः
यथा महाभारते १३ १४९ ४७ ।“क्रोधहा क्रोधकृत् कर्त्ता विश्वबाहुर्महीधरः”
)