| YouTube Channel

कर्ण्णस्रोतोभव (karNNasrotobhava)

 
वाचस्पत्यम्
Sanskrit
कर्ण्णस्रोतोभव
पु०
कर्णस्रोतसो विष्णुकर्णमलाद्भवति भू-अच्, भवत्यस्मात् अपादाने अप् कर्णस्रोतो भवोयस्य वा ।विष्णुकर्णमलोद्भूते मधुनामके कैटभनःमके चासुरे ।“कर्णस्रोतो भवञ्चापि मधुं नाम महासुरम् तमुग्रमु-ग्रकर्म्माणमुग्रां बुद्धिं समास्थितम् ब्रह्मणोऽपचितिं कुर्व्वन्जघान पुरुषोत्तमः” भा० अनु० ६६ अ० यथाचास्यविष्णुकर्णादुद्भवः तथा कैटभशब्दे वक्ष्यते