| YouTube Channel

कर्ण्णवेध (karNNavedha)

 
वाचस्पत्यम्
Sanskrit
कर्ण्णवेध
पु०
विध--घञ् त० शास्त्रोक्तविधानेन कर्ण्ण-योर्वेधने तत्प्रकारमुहूर्त्तादिकं मुहूर्त्तचिन्तामणिपीयू-षधारयोरुक्त यथा ।“हित्व तांश्चैत्रपौषावथ हरिशयनं जन्ममासंच रिक्तांयुगमावदं जन्मतारामृतुमुनिवसुभिः संसिते मास्यथो वा ।जन्माहात्सूयंभूपैः परिमितदिवसे ज्ञेज्यशुक्रेन्दुवारेऽथोजाब्दे विष्णुयुग्मादितिमृदुलघुभैः कर्णवेधः प्रशस्तः ।संशुद्धे मृतिभवने त्रिकोणकेन्द्रत्र्यायस्थैः शुभखचरैःकवीज्यलग्न पापाख्यैररिसहजायगेहसंस्थैर्लग्नस्थेत्रिदशगुरौ शुभावहः स्यात्” चिन्ता० ।“आरभ्य जन्मदिवसंयावत्रिंशद्दिनं भवेत् जन्म-मासः विज्ञेयो गर्हितः सर्वकर्मसु” इतिलक्षणलक्षितम्जन्ममासम् रिक्तान्तिथिम् ४, ९, १४ युग्माव्दं समवर्षंद्वितीयचतुर्थादिकम् जन्मतारां प्रथमदशमैकोनविंशति-कात्मिकां हित्वा उक्तं व्यवहारोच्चये “न जन्म-मासे चैत्रपौषे जन्मतारासु हरौ प्रसुप्ते तिथावरिक्ते विष्टिदुष्टे कर्णस्य वेधोन समानवर्षे” इति ।अत्र चैत्रस्य निषेधोमीनार्कविषयः पौषनिषेधोऽपि धनुरर्कविषयः अन्यथा “कार्त्तिके पौषमासे वा चत्रे वा फाल्-गुनेऽपि वा कर्णवेध प्रशंसन्ति शुक्ले पक्षे शुभेऽहनीति”व्यासबवनमसङ्गतं स्यात् अत्र कार्त्तिकशुक्लपक्षैकादशीतःपरः कार्त्तिकः प्रशस्तः पूर्वत्र देवशयनसत्त्वान्निषेधः अत्रजन्ममासे वर्ज्यान्तराण्यप्याह प्रयोगपारिजाते व्यासः ।“योजन्ममासे क्षुरकर्मयात्रा कर्णस्य वेधं कुरुते विमोहात् ।मूढः रोगी धनपुत्रनाशं प्राप्तोति गूढंनिधनं तदाश्विति” ।विहितकालमाह ऋत्विति ऋतवः षट्मुनयः सप्त वसवो ष्टौएतैः संभिते गणिते मासि षष्ठमासे सप्तममासेऽष्टममासे वा ।अथोवा जन्माहात्सूर्य भूपैर्द्वादशभिः षोडषमिर्वा परिमितेगणिते दिवसे सौरसावने कर्णवेधः प्रशस्तौक्तः यदाह जगन्माहने वसिष्ठः “मासे षष्ठे सप्तमे वाष्टमे वा वेध्यौ कर्णौ द्वादशेषोडशेऽह्नि मध्ये चाह्नः पूर्वभागे रात्राविति” यदा तु ष-ष्ठमासादौ कर्णवेधश्चिकीर्षितः तदा तिथीनाह जगन्मोहनेवशिष्ठः “द्वितीया दशमी षष्ठी सप्तमी त्रयोदशी द्वादशीपञ्चमी शस्ता तृतीया कर्णवेधने” इति ज्ञेज्य शुक्रेन्दु-वारे इति बुधबृहस्पतिशुक्रचन्द्रवारेषु प्रशस्तः कणवेधःयदाह जगन्मोहने वसिष्ठः “भूमिजार्कात्मजार्काणां बारान्संवर्जये त्सुधीः जीवेन्दुजेन्दुशुक्राणां दिवसाः परिपू-जिताः” इति अथेति ओजाव्दे विषमवर्षे वा कर्णवेधःप्रशस्तः सूर्यबले सतीत्यपि ध्येयं यदाह राजुमार्त्तण्डः“अर्केऽनुकूले शशिनि प्रशस्तेताराबले चन्द्रविवृद्धिपक्षे अ-युग्मवर्षे शुभदं शिशूनां कर्णस्य वेधं मुनयो वदन्ति” अत्रकर्णस्येत्येकवचनं ग्रहैकत्वाधिकरणन्यायेनाविवक्षितंतेन द्वयोरपि कर्णयोर्वेधः विष्ण्विति श्रवणा धनिष्ठा-पुनर्वसुचित्रानुरा धामृगरेवत्यश्विनीपुष्यहस्तनक्षत्रैर्दशभिरु-षलक्षिते काले कर्णवेधः प्रशस्तः उक्तं हि श्रीपतिना“पौष्णवैष्णवकराश्विनचित्रापुष्यवासवपुनर्वसुप्तैत्रेः सैन्देवैःश्रवणवेधविधानं निर्दिशन्ति मुनयो हि शिशूनाम्” ।नारदेनापि “चित्रादित्याश्विविष्ण्वन्त्यरविमित्रवसूडष ।समृगेज्येषु बालानां कर्ण्णवेधक्रिया हितेति” गर्गे-णोत्तरात्रयमप्युक्तम् “पुष्ये धनिष्ठास्वदितौ हरीन्दुत्वा-ष्ट्रे करेऽन्त्ये तिसृषूत्तरासु दस्रे समैत्रेऽप्यथ कर्णवेधोनेष्टाश्च सर्वेऽष्टमराशिसंस्थाः” इति अत्रैच्छिकोवि-कल्पः अत्र जन्मनक्षत्रनिषेधः सर्ववादिसिद्धः तदुक्तंदीपिकायाम् “जन्मनक्षत्रगश्चन्द्रः प्रशस्तः सर्वकर्मसु ।क्षौरभेषजवादाध्वकर्त्तनेषु विवर्जयेत्” कृती च्छेदन-इति धात्वर्थानुसारात् कर्त्तनशब्देन कर्णवेधो विव-क्षितः तया स्मर्यते “जन्मनि माति विवाहः शुभ-दो जन्मर्क्षजन्मराश्योश्च अशुभं वदन्ति गर्गाः श्रुतिवेधक्षौरयात्रास्विति” “मृतिभवनेऽष्टमस्थाने संशुद्धे सर्वग्रह-वर्जिते सति यदाह जगन्मोहने वसिष्ठः “न कश्चिदि-ष्टोऽष्टमराशिसंस्थस्तिथिद्वयञ्चावमसंज्ञकं चेति” अत्रविहितलग्नानि प्रयोगपारिजाते नारदेनोक्तानि “वृषभेमिथुने मीने कुलीरे कन्यकसु तुलाचापे कुर्वीतकर्णवेधं शुभावहम् मेषश्च मकरश्चैव मध्यमा गुरुणोदितौ ।सिंहवृश्चिककुम्भाश्च अधमत्वाद्विवर्जिताः” इति अतएवो-क्त वराहसंहितायाम् “लाभे तृतीये शुभैः समेते क्रू-रैर्विहीने शुभराशिलग्ने वेध्यौ तु कर्णौ त्रिदशेज्यल-ग्न” इति शुभाश्चन्द्रबुधगुरुशुक्राः तेषां राशयः कर्कमिथु-नकन्यावृषतुलाधनुर्मीनास्तेषामन्यतमे लग्ने क्रूरैर्विहीनेसतीत्यर्थः ग्रन्थकृद्दीपिकाकारमतमाश्रित्याह कवीति ।कवीज्ययोर्लग्ने वृषतुलाधनुर्मीनानामन्यतमे लग्ने सतित्रिकोणे ५, ९, केन्द्रे १, ४, ७, १० त्र्याय ३, ११, स्थितैः शुभ-ग्रहैस्तथा पापाख्यैर्ग्रहैररिसहजायगेहसंस्थैः षष्ठतृतीयै-कादशस्थानस्थितैरुपलक्षिते तथा लग्नस्थे त्रिदशगुरौसति कर्णवेधः शुभावहः शुभकारकः स्यात् उक्तञ्च दीपि-कायाम् “सौम्यैस्त्र्यायत्रिकोणकण्टकगतैः पापैस्त्रिलाभा-रिगैरोजाव्दे श्रुतिवेध ईज्यसतयोर्लग्नेऽनुकूले शुभे” इतिगुरु “कर्णवेधादिकार्थेषु नेष्टाः सर्तेऽष्टमस्थिताः कर्ण्णवेधोविनिर्देश्योलग्नस्थे वृहस्पतौ तदभावेऽन्यकेन्द्रस्थे तद-भावे त्रिकोण्णगे” इति अत्र कर्ण्णवेधप्रकारो रत्नमालायाम्“शिशीरजातदन्तस्य मातुरुत्सङ्गसर्पिणः सौचिकोवेधयेत्कर्णौ सूच्या द्विगुणसूत्रया” कर्ण्णरन्ध्रे विशेषमाह देवलः“कर्ण्णरन्ध्रे रवेच्छाया विशेदग्रजन्मनः तं दृष्ट्वाविलयं यान्ति पुण्यौघाश्च पुरातनाः” शालङ्कायनः “अवि-द्धकर्ण्णैर्यद्भुक्तं लम्बकर्ण्णैस्तथैव दग्धकर्णैश्च यद्भुक्तंतद्वै रक्षांसि गच्छतीति” कर्ण्णवेधप्रकारः कर्णव्यधविधि-शब्दे वक्ष्यमाणसुश्रुतोक्तावनुसन्धेयः ।विघा० पा० श्रीधरः “हरिहरकरचित्रासौम्यपौष्णौत्तरार्य्यादितिवसुषु घटालीसिंहवर्ज्ये सुलग्ने शशि-बुधगुरुकाव्यानां दिने पर्वरिक्तारहिततिथिषु शुद्धे नैधनेकर्णवेधः सुनक्षत्रे शुभे चन्द्रे सुस्थे शीर्षोदये शुभे ।दिनच्छिद्रव्यतीपातविष्टिवैधृतिवर्जिते शिशोरजात-दन्तस्य मातुरुत्सङ्गसर्पिणः सौचिकोवेधयेत् कर्णौ सूच्यद्विगुणसूत्रया शातकुम्भमयी सूचिर्वेधने तु शुभप्र-दा राजती वायसी वापि यथा विभवतः शुभा सुभू-मौ प्राङ्गणे रम्ये शुचो देशेऽम्वरे रवेः सन्निधौ वेधयेत्कर्ण्णौ स्त्रीपुं सोर्वामदक्षिणौ क्रमेण पूर्वं वेध्यौ द्वौ शि-शोरायुष्यवर्द्धनौ” अर्ण्णवेऽप्युक्तम् “शुक्लसूत्रसमायुक्तताम्र-सूच्याथ वेधयेत् वेधात् तृतीये नक्षत्रे क्षालयेदुष्णवारि-णा रोपणार्थसुशुध्यर्थं बालसंपत्तिमाप्नुयात् एवं छिन्ने चभिन्ने हित्वा योज्यानि योजयेत्” विष्णु धर्मोत्तरे पुष्करः“शिशोरेवाथ कर्तव्यं कर्णवेधं यथा शृणु पूर्वाह्णे पूज-नं कृत्वा केशवस्य हरस्य ब्रह्मणश्चन्द्रसूर्याभ्यां दिगी-शानान्तथैव नासत्ययोः सरस्वत्या ब्राह्मणानां गवांतया गुरूणां, मण्डलं कृत्वा तत्र दत्त्वा वरासनम् ।तथोपवेशयेत्तत्र धात्री शुक्लाम्बरां तथा अलङ्कृतं तदुत्-सङ्गे बालन्धृत्वा तु सान्त्वनैः धृतस्य निश्चलः सम्यक् कर्ण-युग्मं रसाङ्कितम् विध्येदलङ्कृते छिद्रे सकृदेवात्र लाघवात् ।प्राग्दक्षिणे कुमारस्य भिषग्वामे तु योषितः शिशोर्वि-वर्धनं कार्ं यावदाभरणक्षमम् कर्णवेधदिने विप्राःसांवत्सरचिकित्सकौ पुज्याश्च विविधा नार्य्यः सुहृदश्चतथा द्विजेति” अत्र पुरुषकर्णरन्ध्रवृद्धिविषये पिशेषमा-ह हेमाद्रौ देवलः “कर्णरन्ध्रे रवेश्छाया विशेदग्रज-न्मनः तं दृष्ट्वा विलयं यान्ति पुण्यौघाश्व पुरातनाः” ।तत्प्रमाणं प्रसङ्गान्तरेणाह शङ्ख “अङ्गुष्ठमानशुषिरौ कर्णौन भवतोयदि तस्मै श्राद्धं दातव्य यदि चेद मुर भवेत्तस्य श्राद्धेऽपात्रतामाह शालङ्कायनः “अविद्वकर्णैर्यद्भुक्तं लम्बवर्णेस्तथा यत् दग्धकर्णैश्च यद्भुक्त त-द्वै रक्षांसि गच्छति” विधा० पा० तथा कर्णबेधःसंस्कारः किन्तु श्राद्धादौ पात्रतासम्पादकोऽदृष्टविशेष-जनकः क्रियाभेदः इत्याकरे स्थितम् शलाकामानं क-र्णवेधनीशब्दे वक्ष्यते अत्र कालादिप्रतिप्रसवः ज्यो० त०माण्डव्यवृहद्राजमार्त्तण्डकृत्यचिन्तामणिषु “यदापत्यद्वयंतिष्ठेत् सम्भवोऽप्यपरस्य षट्कर्णं तं विजानीयात्गर्हितञ्चत्रयस्य इत्याशङ्क्य द्वयोर्मध्ये शुद्धिर्यस्याथवत्सरे कर्णवेधो हितस्तस्य नात्र ज्येष्ठविचारणा ।षटकर्णोत्पत्तिमाशङ्क्य भानोः शुद्ध्या समेऽपि कर्णौवेध्यौ दोषः स्यादन्यथा मरणं भवेत्”