| YouTube Channel

कर्ण्णपर्वन् (karNNaparvan)

 
वाचस्पत्यम्
Sanskrit
कर्ण्णपर्वन्
न०
भारतान्तर्गते अष्टमे पर्व्वणि तत्पर्व्वणिकथासंग्रहश्च भा० आ० अ० यथा“अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् सारथ्ये-विनियोगश्च मद्रराजस्य धीमतः आख्यानं यत्र पौराणांत्रिपुरस्य निपातनम् प्रयाणे परुषश्चात्र संवादः कर्ण शल्य-योः हंसकाकीयमाख्यानं तथैवाक्षेपसंभृतम् बधः पा-ण्डस्य तथा अश्वत्थाम्ना महात्मना दण्डसेनस्य ततोदण्डस्य बधस्तथा द्वैरथे यत्र कर्णेन धर्मराजो युधि-ष्ठिरः संशयं गमितो युद्धे मिषतां सर्वधन्विनाम् अन्यो-न्यं प्रति क्रोधं युधिष्ठिरकिरीटिनोः तत्रैवानुनयःप्रोक्तोमाधवेनार्ज्जुनस्य हि प्रतिज्ञापूर्वकञ्चापि वक्षोदुः-शासनस्य भित्त्वा वृकोदरो रक्तं पीतवानत्र संयुगे ।द्वैरथे यत्र पार्थेन हतः कर्णो महारथः अष्टमं पर्वनिर्दिष्टमेतद्भारतचिन्तकैः एकोनसप्ततिः प्रोक्ता अध्या-याः कर्णपर्वणि चत्वार्य्येव सहस्राणि नवश्लोकशतानि ।चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन् प्रकीत्तिताः” ।“कर्णपर्वण्यपि तथा भोजनं सार्व्वकामिकम् विप्रेभ्यःसंस्कृतं सम्यग्दद्यात् संयतमानसः” भा० स्वर्गा० अ०