| YouTube Channel

कर्णीरथः (karNIrathaH)

 
Apte Hindi
Hindi
कर्णीरथः
पुं*
कर्णी - रथः -
"बन्द डोली, स्त्रियों की सवारी, पालकी"
शब्दकल्पद्रुमः
Sanskrit
कर्णीरथः,
पुं,
(कर्णसाध्या श्रवणक्रिया उपचारात्कर्णः कर्णोऽस्यास्ति इनिः कर्णी चासौ रथ-श्चेति शब्दमात्रेण रथो वस्तुतः यद्वा साभीप्यात् कर्णशब्देनस्कन्धो लक्ष्यते सोऽस्त्यस्य वाह-कत्वेन इनिः कर्णी चासौ रथश्च अन्येषामपीतिदीर्घः ।) क्रीडार्थनिर्म्मितस्वल्परथः पुरुषस्कन्ध-नीयमानरथः इति भगीरथः
स्त्रीवहनार्थमु-परि वस्त्राच्छादितरथविशेषः इति मञ्जरी
चतुर्दोल इति ख्यात इति पितृचरणाः
इतिसारसुन्दरी
स्त्रीरत्नवहनार्थमुपरिवस्त्राच्छादि-तमनुष्यवाह्ययानविशेषः इति भरतः
तत्प-र्य्यायः प्रवहनम् हयनम् इत्यमरः ।८ ५२
प्रहरणम् डयनम् इति तट्टीका