| YouTube Channel

कर्णसंस्रावः (karNasaMsrAvaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्णसंस्रावः,
पुं,
(कर्णस्य कंर्णयोर्वा संस्रावः पूय-शोणितादेः निःस्रावणम् यत्र रोगे ।) कर्ण-रोगविशेषः तस्य निदानसम्प्राप्तिरूपाणि ।“शिरोऽभिघातादथवा निमज्जतोजले प्रपाकादथवापि विद्रधेः ।स्रवेद्धि पूयं श्रवणोऽनिलार्द्दितःसकर्णसंस्राव इति प्रकीर्त्तितः”
इति माधवकरः