| YouTube Channel

कर्णशूलः (karNazUlaH)

 
Apte Hindi
Hindi
कर्णशूलः
पुं*
कर्णः - शूलः -
कानों में पीड़ा
शब्दकल्पद्रुमः
Sanskrit
कर्णशूलः,
पुं,
(कर्णस्य शूलः शूलवत् यन्त्रणादायकः ।)कर्णरोगविशेषः तस्यौषधं यथा, --“हिङ्गुतुम्बुरुशुण्ठ्या साध्यं तैलन्तु सार्षपम् ।एतद्धि पूरणं श्रेष्ठं कर्णशूलापहं परम्
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।शुक्लं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत्
बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।कृमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात्
शुष्कमूलकशुष्ठीनां क्षारो हिङ्गुलनागरम् ।शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम्
सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।भुजग्रन्थि विडं मुस्तं मधु शुक्रञ्चतुर्गुणम्
मातुलुङ्गरसञ्चैव कदलीरसमेव ।तैलमेभिर्व्विपक्तव्यं कर्णशूलापहं परम्
बाधिर्य्यं कर्णनादश्च पूयस्रावश्च दारुणः ।पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम्
प्रस्थे द्वे गण्डमालानां क्वाथयेत् द्रोणमम्भसाम् ।चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत्
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।पुनर्णवा गोक्षुरकं सैन्धवं त्र्युषणं वचा
सरलं सुरदारुश्च वृहती कण्टकारिका ।नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम्
बाधिर्य्यं सर्व्वरोगांश्च अभ्यङ्गाच्च महेश्वर !”
।इति गारुडे १९८ अध्यायः
(कर्णरोगशब्देऽस्यविवरणं ज्ञेयम्
)