कर्णव्यधविधि (karNavyadhavidhi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaकर्णव्यधविधि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಿವಿಚುಚ್ಚುವ ಕ್ರಮ
वाचस्पत्यम्
Sanskritकर्णव्यधविधि कर्ण्णव्यधस्य कर्ण्णवेधस्य विधिः । सुश्रुतोक्तेकर्ण्णवेधप्रक रभेदे स च प्रकारः सुश्रुते दर्शितोयथा“अथातः कर्णव्यधबन्धविधिमध्यायं व्याख्यास्यामः । र-क्षाभूषणनिमित्तं बालस्य कर्णौ विध्येते षष्ठे मासिसप्तमे वा शुक्लपक्षे प्रशस्तेषु तिथिकरणमुहूर्त्तनक्ष-त्रेषु कृतमङ्गलस्वस्तिवाचनं धात्र्यङ्के कुमारमुपवेश्यवालक्राडनकैः प्रलोभ्याभिसान्त्वयन् भिषग्वामहस्तेनाकृष्यकर्णं दैवकृते छिद्रे आदित्यकरावभासिते शनैः शनैर्द-क्षिणहस्तेन ऋजु विध्येत् प्रतनुकं सूच्या बहुलभारयापूर्वं दक्षिणं कुमारस्य, वामं कन्यायास्ततः पिचुवर्त्तिं प्र-वेश्य सम्यक् विद्धमामतैलेन परिषेचयेत् । शोणितवहुत्वेनवेदनया वान्यदेशविद्धमिति जानीयान्निरुपद्रवतया तद्देश-विद्धमिति । तत्राज्ञेन यदृच्छया विद्धासु सिरासु का-लिकामर्मरिकालोहितिकासूपद्रवा भवन्ति । तत्र कालि-कायां ज्वरो दाहः श्वपथुर्वेदना च भवति । मर्मरिकायांवेदना ज्वरो ग्रन्थयश्च । लोहितिकायां मन्यास्तम्भाव-तानकशिरोग्रहकर्णशूलानि भवन्ति । तेषु यथास्वं प्रति-कुर्वीत । क्लिष्टजिह्माप्रशस्तसूचीव्यधाद्गाढतरवर्त्तित्वाद्दोष-प्रकोपादप्रशस्तव्यधाद्वा यत्र संरम्भो वेदना वा भवति तत्रवर्त्तिमुपहृत्याशु मधुकैरण्डमूलमञ्जिष्ठायवतिलकल्कैर्मधुघृत-प्रगाढैरालेपयेत्तावद्यावत्सुरूढ इति सुरूढं चैनं पुनर्वि-ध्येत् विधानन्तु पूर्वोक्तमेव । त्र्यहात्त्र्यहाच्च वर्त्तिञ्चस्थूलतरां दद्यात्परिषेकं तमेव । अथ व्यपगतदोषोप-द्रवे कर्णे वर्द्धनार्थं लघुवर्द्धनकं कुर्य्यात् । भवति चात्र ।एवं विवर्द्धितः कर्णश्किद्यते तु द्विधा नृणाम् । दोषतोवाभिघाताद्वा सन्धानं तस्य मे शृणु ।तत्र समासेन पञ्चदशकर्ण्णबन्धनाकृतयः । तद्यथा-नेमिसन्धानक उत्पलभेद्यको वल्लूरक आसङ्गिमो गण्ड-कर्ण आहार्य्यो निर्व्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्द्धकपाटसन्धिकः संक्षिप्तो हीनकर्ण्णो वल्लीकर्ण्णोयष्टिकर्ण्णः काकौष्ठक इति । तेषु पृथुलायतसमोभयपालिर्णेमिसन्धानकः । वृत्तायतसमोभयपालिरुत्पलभे-द्यकः । ह्रस्ववृत्तसमोभयपालिर्व्वल्लूरकः । अभ्यन्त-रदार्घैकपालिरासङ्गिमः । बाह्यदीर्घकपालिर्गण्डकर्णः ।अपालिरुभयतोऽप्याहार्य्यः । पीठोपमपालिरुभयतःक्षीणपुत्रिकाश्रितो निर्व्वेधिमः । स्थूलाणुसमविषम-पालिर्व्यायोजिमः । अभ्यन्तरदीर्घैकपालिरितराल्पपालिःकपाटसन्धिकः । बाह्यदीर्घैकपालिरितराल्पपालिरर्द्धक-पाटसन्धिकः । तत्र दशैते कर्णबन्धविकल्पाः साध्या-स्त्रेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः । सं-क्षिप्तादयः पञ्चासाध्यास्तत्न शुष्कशष्कुलिरुत्सन्नपालि-रितराल्पपालिः संक्षिप्तः । अनधिष्ठानपालिः पर्य्य-न्तयोः क्षीणमांसोहीनकर्णः । तनुविषमाल्पपालिर्व्व-ल्लीकर्ण्णः, ग्रथितमांसस्तब्धसिराततः सूक्ष्मपालियष्टि-कर्णः । निर्म्मांससंक्षिप्ताग्राल्पशोणितपालिः काकौष्ठ-कपालिरिति । बन्धेष्वपि तु शोथदाहरागपाकपिद्ध-कास्रवयुक्ता न सिद्धिमुपयान्ति । भवन्ति चात्र । य-स्य पालिद्वयमपि कर्ण्णस्य न भवेदिह । कर्ण्णपीठंसमे मध्ये तस्य विद्ध्वा विवद्धेयेत् । बाह्यायामिह दी-र्घायां सन्धिराभ्यन्तरो मवेत् । आभ्यान्तरायां दी-र्घायां बाह्यसन्धिरुदाहृतः । एकैवतु भवेत्पालिः स्थूलापृथ्वी स्थिरा च या । तां द्विधा पाटयित्वा तु छित्त्वाचोपरि सन्धयेत् । गण्डादुत्पाट्य मांसेन सानुबन्धेनजीवता । कर्णपालिमपालेस्तु कुर्य्यान्निर्लिख्य शास्त्रवित् ।अतोऽन्यतमं बन्धं चिकीर्षुरग्रोपहरणीयोक्तोपसंभृतस-म्भारं विशेषतश्चात्रोपहरेत् सुरां मण्डं क्षीरमुदकं धा-न्याम्लं कपालचूर्णञ्चेति । ततोऽङ्गनां पुरुषं वा ग्रथित-केशान्तं लघु भुक्तवन्तमाप्तैः सुपरिगृहीतञ्च कृत्वा ब-न्धमुपधार्य्य छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णंशो-णितमवेक्षेत तद्दुष्टमदुष्टंवेति । तत्र वातदुष्टे धान्याम्लोष्णोदकाभ्यां, पित्तदुष्टे शीतोदकपयोभ्यां, श्लेष्मदुष्टेसुरामण्डोष्णोदकाभ्यां प्रक्षाल्य कर्णौ पुनरवलिख्या-नुन्नतमहीनमविषमञ्च कर्णसन्धिं सन्निवेश्य स्थित-रक्तं सन्दध्यात् । ततो मधुघृतेनाभ्यज्य पिचुप्लोतयोर-न्यतरेणावगुण्ठ्य सूत्रेणानपगाढमशिथिलञ्च बद्ध्वा कपा-लचूर्णेनावकीर्य्याचारिकमुपदिशेद्द्विव्रणीयोक्तेन विधाने-नावचरेत् । भवतश्चात्र । विघदृनं दिवास्वप्नं व्यायामम-तिभोजनम् । व्यवायमभग्निसन्तापं वाक्श्रमञ्च विवर्ज्जयेत् । आमतैलपरोषेकं त्रिरात्रमवचारयेत् । ततस्तैलेनसंसृष्टं त्र्यहादपनयेत् पिचुम् । न चासंशुद्धरक्तमति-प्रवृत्तरक्तं वा सन्दध्यात् । स हि वातदुष्टे रक्तेरूढोऽपि परिपुटनवान्, पित्तदुष्टे दाहपाकरागवेदनावान्, श्लेष्मदुष्टे स्तब्धः कण्डूमान्, अतिप्रवृ-द्धरक्ते श्यावशोफवान् । क्षीणोऽल्पमांसो न वृद्धिमुपैति ।स यदा सुरूढो निरुपद्रवः सवर्णो भवति तदैनं श-नैःशनैरभिवर्द्धयेत् । अतोऽन्यथा संरम्भदाहपाकरा-गवेदनावान् पुनश्छिद्यते वा । अथास्याप्यदुष्टस्याभिवर्द्ध-नार्थमभ्यङ्गः । तद्यथा गोधाप्रतुदविष्किरानूपौदकवसामज्जानौ पयःसर्पिस्तैलं गौरसर्षपजञ्च यथालाभं स-म्भृत्यार्कालर्कबलातिबलानन्तापामार्गाश्वगन्धाविदारिगन्धा-क्षीरशुक्लजलशूकमधुरवर्गप्रतिवापं तैलं वा पाचयित्वास्वनुगुप्तं निदध्यात् । स्वेदितोन्मर्दितं कर्ण्णं स्नेहेना-नेन योजयेत् । अथानुपद्रवः सम्यक् बलवांश्च विव-र्द्धते । यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम् । श-तावर्य्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः । तैलं विपक्वंसक्षीरमभ्यङ्गात् पालिवर्द्धनम् । ये तु कर्णा न वर्द्धन्तेविधिनानेन योजिताः । तेषामपाङ्गदेशेषु कुर्य्यात् प्रच्छा-नमेव तु । बाह्यच्छेदं न कुर्व्वीत व्यापदस्तु ततो ध्रुवाः ।बद्धमात्रन्तु यः कर्णं सहसैवाभिवर्द्धयेत् । आमकोशी-समाध्मातः क्षिप्रमेव विमुच्यते । जातरोमा सुवर्त्मा चश्लिष्टसन्धिः समः स्थिरः । सुरूढोऽवेदनो यस्तु तं कर्णंवर्द्धयेच्छनैः । अमिताः कर्णबन्धास्तु विज्ञेयाः कुशलै-रिह । यो यथा सुनिविष्टः स्यात्तं तथा विनियोजयेत्” ।एवं वेधप्रकाराभिज्ञेनैव भिषजा कर्णवेधः कारयितव्यः
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
