कर्णरोग (karNaroga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaकर्णरोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಿವಿಯ ರೋಗ /ಕಿವಿಯಲ್ಲಿ ಉಂಟಾಗುವ ವ್ಯಾಧಿ
शब्दकल्पद्रुमः
Sanskritकर्णरोगः, (कर्णस्य कर्णेगतः कर्णे जातो वा रोगः ।)श्रवणव्याधिः । यथा । अथ कर्णरोगाधिकारः ।तत्र कर्णरोगाणां नामानि सङ्ख्याञ्चाह ।“कर्णशूलं प्रणादश्च बाधिर्य्यं क्ष्वेड एव च ।कर्नस्रावः कर्णकण्डूः कर्णगूथस्तथैव च ॥
प्रतिनाहो जन्तुकर्णो विद्रधिर्विविधस्तथा ।कर्णपाकः पूतिकर्णस्तथैवार्शश्चतुर्व्विधम् ॥
तथार्व्वुदं सप्तविधं शोफश्चापि चतुर्व्विधः ।एते कर्णगता रोगा अष्टाविंशतिरीरिताः” ॥
* ॥
तेषु कर्णशूलस्य संप्राप्तिपूर्व्वकं लक्षणमाह ।“समीरणः श्रोत्रगतोऽन्यथा चरन्समन्ततः शूलमतीव कर्णयोः ।करोति दोषैश्च यथास्वमावृतःस कर्णशूलः कथितो दुराचरः” ॥
अन्यथाचरन् प्रतिलोमं चरन् । दोषैः पित्तकफ-रक्तैः । रक्तस्यापि रुजादिकर्त्तृत्वेन दोषसाम्यात्दोषत्वमेव । यथास्वं यथात्मीयनिदानं कुपितैःअथवा यथास्वमिति शूलविशेषणम् । दुराचरःदुरुपचरः मूर्च्छाद्युपद्रवयोगात् ॥
* ॥
कर्णशूलस्यासाध्यतां चाह ।“मूर्च्छा दाहो ज्वरः काशः क्लमोऽथ वमथुस्तथा ।उपद्रवाः कर्णशूले भवन्त्येते मरिष्यतः” ॥
* ॥
कर्णनादस्य लक्षणमाह ॥
“कर्णस्रोतःस्थिते वाते शृणोति विविधान् स्वनान् ।भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते” ॥
* ॥
बाधिर्य्यलक्षणमाह ।“यदा शब्दवहो वायुः स्रोतसावृत्य तिष्ठति ।शुद्धश्लेष्मान्वितो वापि बाधिर्य्यं तेन जायते” ॥
* ॥
असाध्यबाधिर्य्यमाह ।“बाधिर्य्यं बालवृद्धोत्थं चिरोत्थञ्च विवर्ज्जयेत्” ॥
* ॥
क्ष्वेडमाह ।“वायुःपित्तादिभिर्युक्तो वेणुघोषसमस्वनम् ।करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते” ॥
क्ष्वेडशब्दार्थं व्यनक्ति । वेणुघोषसमस्वनमिति ।यत उक्तम् । क्ष्वेडनं वेणुघोषवदिति । ननु कर्ण-नादकर्णक्ष्वेडयोः को भेदः । उच्यते । कर्णनादःकेवलेन वातेन जन्यते तत्र नानाशब्दांश्च शृणोति ।कर्णक्ष्वेडस्तु पित्तादियुक्तेन वातेन जन्यते तत्रनियमेन वेणुघोषमिव शृणोतीति भेदः ॥
* ॥
कर्णस्रावमाह ।“शिरोऽभिघातादथवा निमज्जतोजलप्रपाकादथवापि विद्रधेः ।स्रवेद्विपूयं श्रवणोऽनिलादितःस कर्णसंस्राव इति प्रकीर्त्तितः” ॥
पूयमित्युपलक्षणं जलं रसञ्च स्रावयेत् ॥
श्रवणशब्दः पुंलिङ्गोऽप्यस्ति ॥
* ॥
कर्णकण्डूमाह ।“मारुतः कफसंयुक्तः कर्णे कण्डूं करोति हि” ॥
* ॥
कर्णगूथमाह ।“पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम्” ॥
कर्णे गूथं यस्मात् स कर्णगूथव्याधिः ॥
* ॥
प्रतिनाहमाह ।“स कर्णगूथो द्रवतां यदा गतोविलापितो घ्राणमुखं प्रपद्यते ।तदा स कर्णप्रतिनाहसंज्ञितोभवेद्विकारः शिरसोऽर्द्धभेदकृत्” ॥
घ्राणञ्च मुखञ्च एकत्वं द्वन्दे । शिरसोऽर्द्धभेदकृत्अर्द्धावभेदकाख्यशिरोरोगकृत् ॥
* ॥
कृमिकर्णमाह ।“यदा तु मूर्च्छत्यथवात्र जन्तवःसृजत्यपत्यान्यथवापि मक्षिकाः ।तदञ्जनत्वात् श्रवणो निरुध्यतेभिषग्भिराद्यैः कृमिकर्णको गदः” ॥
तदञ्जणत्वात् कृमिलक्षणत्वात् ॥
श्रवणे कृमि-कर्णको गदो निरुध्यत इत्यन्वयः ॥
* ॥
पतङ्गादिषु कर्णप्रविष्टेषु लक्षणमाह ।“पतङ्गाः शतपद्यश्च कर्णश्रोत्रं प्रविश्य हि ।अरतिं व्याकुलत्वञ्च भृशं कुर्व्वन्ति वेदनाम् ॥
कर्णो निस्तुद्यते तस्य तथा फरफरायते ।कोटे चरति रुक् तीव्रा निस्यन्दे मन्दवेदना” ॥
निस्यन्दे निश्चले ॥
* ॥
द्विविधकर्णविद्रधिमाह ।“क्षताभिघातप्रभवस्तु विद्रधि-र्भवेत्तथा दोषकृतोऽकरः पुनः ।सरक्तपीतारुणमस्रमास्रवेत्प्रतोदधूमायनदाहचोषवान्” ॥
क्षतप्रभवोघातप्रभवश्च तयोरथागन्तुजत्वादैक्यम् ॥
अस्रं आस्रावमित्यर्थः ॥
* ॥
कर्णपाकमाह ।“कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत्” ।कोथः पूतिभावः । क्लेद आर्द्रता ॥
* ॥
पूतिकर्णमाह ।“कर्णविद्रधिपाकाद्वा सकर्णो वारिपूरणात् ।पूयं स्रवति यत् पूतिं स ज्ञेयः पूतिकर्णकः” ॥
* ॥
कर्णस्रावाद्भेदार्थमाह ।पूतन्ति नियमेन पूति यथा स्यादेवं स्रवति ॥
* ॥
कर्णगतानां शोथार्व्वुदार्शसां लक्षणान्याह ।“कर्णशोथार्व्वुदार्शांसि जानीयादुक्तलक्षणैः” ॥
कणशोथाश्च चत्वारो वातपित्तकफरक्तजाः ।एवमर्शोऽपि चतुर्व्विधम् । अन्येषां शोथानामर्श-साञ्चात्रासम्भव आधारप्रभावात् ॥
अर्व्वुदं सप्त-विधम् । वातपित्तकफरक्तमांसमेदःसिराजम् ॥
एते कर्णरोगा अष्टाविंशतिः सुश्रुतोक्ता उक्ताः ॥
* ॥
इदानीं चरकोक्तकर्णरोगचतुष्टयं वातपित्तकफ-सन्निपातकृतमाह । तत्र वातजमाह ।“नादोऽतिरुक् कर्णतले तु शोथःस्रावस्तनुश्चास्रवणञ्च वातात्” ॥
* ॥
पित्तजमाह ।“शोथः सरागो दरणं विदाहःसपूतिपीतस्रवणञ्च पित्तात्” ॥
* ॥
कफजमाह ।“वैस्रुत्य कण्डूस्थिरशोथशुक्ल-स्निग्धस्त्वतिस्वल्परुजः कफाच्च” ॥
वैस्रुत्यं अन्यथा स्रावणम् ॥
* ॥
त्रिदोषजमाह ।“सर्व्वाणि रूपाणि च सन्निपातात्स्रावश्च तत्राधिकदोषवर्णः” ॥
* ॥
कर्णपाल्याः सकर्णावयवत्वात् तद्विकारमप्यत्रैवाह ।तत्र सनिदानं परिपोटकलक्षणमाह ॥
“सौकुमार्य्यात् चिरोत्सृष्टे सहसैवातिवर्द्धिते ।कर्णशोथो भवेत् पाल्यां सरुजः परिपोटवान् ॥
कृष्णारुणानिभः स्तब्धः सवातात् परिपोटकः” ॥
* ॥
उत्पातमाह ।“गुर्व्वाभरणसंयोगात् ताडनात् घर्षणादपि ।शोथः पाल्यां भवेत् स्रावो दाहपाकरुजान्वितः ॥
रक्ते वा रक्तपित्ताभ्यामुत्पातः स गदः स्मृतः” ॥
* ॥
उन्मन्थकमाह ।“कर्णं बलाद्वर्द्धयतः पाल्यां वायुः प्रकुप्यति ।कफं संगृह्य कुरुते शोथस्तब्धमवेदनम् ॥
उन्मन्थकः सकण्डूको विकारः कफवातजः” ।अवेदनं ईषद्वेदनम् ॥
* ॥
दुःखवर्द्धनमाह ।“संवर्द्ध्यमाने दुर्व्विद्धे कण्डूदाहरुजान्वितः ।शोथो भवति पाकश्च त्रिदोषो दुःखवर्द्धनः” ॥
संवर्द्ध्यमाने दुर्व्विद्धे कर्ण इति शेषः ॥
* ॥
परिलेहिनमाह ।“कफासृक् कृमयः क्रुद्धाः सर्षपाभा विसारिणः ।कुर्व्वन्ति पिडकां पाल्यां कण्डूदाहसमन्विताम् ॥
कफासृक्कृमिसम्भूतः स विसर्पान्वितस्ततः ।लिह्यात् सशस्कुलीं पालीं परिलेही स च स्मृतः” ॥
स पीडकात्मकः परिलेहिसंज्ञो गदः । लिह्यात्निर्मांसीकुर्य्यात् ॥
* ॥
अथ कर्णरोगाणां चिकित्सा ।“कर्णशूले कर्णनादे बाधिर्य्ये क्ष्वेड एव च ॥
चतुर्ष्वपि च रोगेषु सामान्यं मेषजं स्मृतम् ।शृड्गवेरञ्च मधु च सैन्धवं तैलमेव च ।कदुष्णं कर्णयोर्धार्य्यमेतत् स्याद्वेदनापहम्” ॥
१ ॥
“लशुनार्द्रकशिग्रूणां वारुण्या मूलकस्य च ।कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे” ॥
वारुणी वरुणः ॥
२ ॥
“अर्काङ्कुरानम्लपिष्टान् सतैलान् लवणान्वितान् ।सन्निदध्यात् सुधाकाण्डे कोरिते मृतयावृते ॥
पुटपाकक्रमस्विन्नं पीडयेदारसागमात् ।सुखोष्णं तद्रसं कर्णेप्रक्षिपेच्छूलशान्तये” ॥
३ ॥
“अर्कस्य पत्रं परिणामपीत-माज्येन लिप्तं शिखियोगतप्तम् ।आपीड्य तस्याम्बुसुखोष्णमेवकर्णे निषिक्तं हरतेऽतिशूलम्” ॥
४ ॥
“तीव्रशूलातुरे कर्णे सशब्दे क्लेदवाहिनि ।छागमूत्रं प्रशंसन्ति कोष्णं सैन्धवसंयुतम् ॥
५ ॥
तैलं श्योणाकमूलेन मन्देऽग्नौ विधिना शृतम् ।हरेदाशु त्रिदोषोत्थं कर्णशूलं प्रपूरणात् ॥
६ ॥
हिङ्गुसैन्धवशुण्ठीभिस्तैलं सर्षपसम्भवम् ।विपक्वं हरतेऽवश्यं कर्णशूलं प्रपूरणात् ॥
७ ॥
कर्णशूले कर्णनादे बाधिर्य्ये क्ष्वेड एव च ।पूरणं कटुतैलेन हितं वातघ्नमौषधम् ॥
८ ॥
शिखरीक्षारजवारा तत्कृतकल्केन साधितं तैलम् ।अपहरति कर्णनादं बाधिर्य्यञ्चापि पूरणतः” ॥
शिखरी अपामार्गः ॥
९ ॥
“गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ।सजलञ्च सदुग्धञ्च तद्बाधिर्य्यहरं परम्” ॥
क्षीरमात्रं ग्राह्यम् । विल्वतैलम् ॥
१० ॥
“कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ।सामान्यं कर्म्म कुर्व्वीत योगान् वैशेषिकानपि ॥
११ ॥
स्वर्जिकाचूर्णसंयुक्तवीजपूररसं क्षिपेत् ।कर्णस्रावरुजा दाहास्तेन नश्यन्त्यसंशयम् ॥
१२ ॥
आम्रजम्बूप्रबालानां मधुकस्य वटस्य च ।एमिस्तु साधितं तैलं पूतिकर्णगदं हरेत् ॥
१३ ॥
जातीपत्ररसे तैलं विपक्वं पूतिकर्णजित् ॥
१४ ॥
सृष्टं रसाञ्जनं नार्य्याः क्षीरंक्षौद्रेण संयुतम् ।प्रशस्यते चिरोत्थे तत् सस्रावे पूतिकर्णके ॥
१५ ॥
कुष्ठहिङ्गुवचादारुशताह्वाविश्वसैन्धवैः ।पूतिकर्णापहं तैलं वस्तमूत्रेण साधितम्” ॥
कुष्ठादितैलम् ॥
१६ ॥
“शम्बूकस्य तु मांसेन कटुतैलं विपाचयेत् ।तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति” ॥
शम्बूकाद्यं तैलम् ॥
१७ ॥
“चूर्णेन गन्धकशिलारजनीभवेनमुष्ट्यंशकेन कटुतैलपलाष्टके तु ।धत्तूरपत्ररसतुल्यमिदं विपक्वंनाडीं जयेच्चिरभवामपि कर्णजाताम्” ॥
मुष्टिः पलम् । निशा तैलम् ॥
१८ ॥
“कृमिकर्णविनाशाय कृमिघ्नीं कारयेत् क्रियाम् ।वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव च ॥
१९ ॥
पूरणं हरितालेन गव्यमूत्रयुतेन च ।धूपने कर्णदौर्गन्धे गुग्गुलुः श्रेष्ठ उच्यते ॥
२० ॥
चिकित्सा कर्णशोथानां तथा कर्णार्शसामपि ।कर्णार्व्वुदानां कुर्व्वीत शोथार्शोऽर्व्वुदवद्भिषक्” ॥
* ॥
अथ कर्णपालीविकाराणां चिकित्सा ।“पालीसंशोषणे कुर्य्यात् वातकर्णरुजक्रियाम् ।स्वेदयेत्यत्नतस्ताञ्च स्विन्नां संवर्द्धयेत्तिलैः ॥
१ ॥
शतावरीवाजिगन्धापयस्यैरण्डवीजकैः ।तैलं विपक्वं सक्षीरं पालीं संवर्द्धयेत् सुखम्” ॥
पयस्यत्र क्षीरकाकोली । शतावरीतैलम् ॥
२ ॥
“जीवनीयस्य कल्केन तैलं दुग्धेन पाचयेत् ।चिकित्सेत्तेन तैलेन हतास्रं परिपोटकम् ॥
३ ॥
शीतलेपैर्जलौकाभिरुत्पातं समुपाचरेत् ॥
४ ॥
हलिनीसुरसाभ्याञ्च गोधाकङ्कवसान्वितम् ।तैलं विपक्वमभ्यङ्गादुन्मन्थं नाशयेद्ध्रुवम् ॥
५ ॥
दुःखवर्द्धनकं सिक्त्वा जम्व्वाम्रविल्वपत्रजैः ।क्वाथैस्तैलेन सुस्निग्धं तच्चूर्णैश्चावधूनयेत् ॥
बहुशो गोमयैस्तप्तैः स्वेदितं परिलेपितम् ।घनसारैः समालिम्पेदजामूत्रेण कल्कितैः” ॥
६ ॥
इति कर्णरोगाधिकारः । इति भावप्रकाशः ॥
* ॥
(“प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत् ।मिथ्यायोगेन शब्दस्य कुपितोऽन्यैश्च कोपनैः ॥
प्राप्य श्रोत्रशिराः कुर्य्याच्छूलं स्रोतसि वेगवत् ।अर्द्धावभेदकं स्तम्भं शिशिरानभिनन्दनम् ॥
चिराच्च पाकं पक्वन्तु लसिकामल्पशः स्रवेत् ।श्रोत्रं शून्यमकस्माच्च स्यात् सञ्चारविचारवत् ॥
शूलं पित्तात् सदाहोषा शीतेच्छाश्वयथुं ज्वरम् ।आशुपाकं प्रपक्वञ्च स पीतलसिकास्रुतिः ॥
सा लसीकास्पृशेद्यद्यत्तत्तत्पाकमुपैति च ।कफाच्छिरोहनुग्रीवा गौरवं मन्दतारुजः ॥
कण्डूः श्वयथुरुष्णेच्छा पाकात् श्वेतधनास्रुतिः ।करोति श्रवणे शूलमभिघातादिदूषितम् ॥
रक्तं पित्तसमानार्त्ति किञ्चिद्वाधिकलक्षणम् ।शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक् ॥
पर्य्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत् ।पक्वं सितासितारक्तघनपूय प्रवाहि च ॥
शब्दवाहिशिरासंस्थे शृणोति पवने मुहुः ।नादानकस्माद्विविधान् कर्णनादं वदन्ति तम् ॥
श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षेतः ।उच्चैः कृच्छ्राच्छ्रुतिं कुर्य्याद्वधिरत्वं क्रमेण च ॥
वातेन शोषितः श्लेष्मा स्रोतो लिम्पेत्ततो भवेत् ।रुम्गौरवं पिधानञ्च सप्रतीनाह संज्ञितः ॥
कण्डूशोफौ कफात् श्रोत्रे स्थिरौ तत्संज्ञया स्मृतौ ।कफो विदग्धः पित्तेन सरुजं नीरुजन्त्वपि ।घनपूति बहुक्लेदं कुरुते पूतिकर्णकम् ।वातादिदूषितं श्रोत्रं मांसासृक्क्लेदजां रुजम् ॥
खादन्तो जन्तवः कुर्य्युस्तीव्रां सक्रिमिकर्णकः ।श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्व्वलक्षणः ॥
विद्रधिः पूर्व्ववच्चान्यः शोफोऽर्शोऽर्व्वुदमीरितम् ।तेषुरुक् पूतिकर्णत्वं बधिरत्वञ्च बाधते ॥
गर्भेऽनिलात्सङ्कुचिता शस्कुलीकुचिकर्णकः ।एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः ॥
पिप्पली पिप्पलीमानः सन्निपाताद्विदारिका ।सवर्णः सरुजस्तब्धः श्वयथुः स उपेक्षितः ॥
कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति ।सङ्कोचयति रूढा च सा ध्रुवं कर्णशस्कुली ॥
शिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम् ।कृशा दृढा च तन्त्रीवत् पालीवातेन तन्त्रिका ॥
सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्द्धिते ।कर्ण शोफः सरुक्पाल्यामरुणः परिपोटवान् ॥
परिपोटः सपवनादुत्पातः पित्तशोणितात् ।गुर्व्वाभरणभाराद्यैः श्यावो रुग्दाह पाकवान् ॥
श्वयथुः स्फोटपिटका रागोषाक्लेदसंयुतः ।पाल्यां शोफोऽनिलकफात् सर्व्वतो निर्व्यथःस्थिरः ॥
स्तब्धः सवर्णः कण्डूमान् उन्मन्थो गल्लिरश्च सः ।दुर्व्विद्धे वर्द्धिते कर्णेसकण्डूदाहपाकरुक् ॥
श्वयथुः सन्निपातोत्थः स नाम्ना दुःखवर्द्धनः ।कफासृक् क्रिमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः ॥
लेह्याख्याः पिटिकास्ताहि लिह्युः पालीमुपेक्षिताः ।पिप्पली सर्व्वजं शूलं विदारीकुचिकर्णकः ॥
एषामसाध्या याप्यैका तन्त्रिकान्यास्तु साधयेत् ।पञ्चविंशतिरित्युक्ताः कर्णरोगविभागतः” ॥
इत्युत्तरस्थाने सप्तदशेऽध्याये वाभटेनोक्तम् ॥
* ॥
अस्य चिकित्सा तेनोक्ताष्टादशेऽध्याये, यथा, --“कर्णशूले पवनजे पिबेद्रात्रौ रसाशितः ।वातघ्नसाधितं सर्पिः कर्णं स्विन्नञ्च पूरयेत् ॥
पत्राणां पृथगश्वत्थविल्वार्कैरण्डजन्मनाम् ।तैलसिन्धूत्थदिग्धानां स्विन्नानां पुटपाकतः ॥
रसैः कवोष्णैस्तद्वच्च मूलकस्यारलोरपि ।गणे वातहरेऽम्लेषु मूत्रेषु च विपाचितः ॥
महास्नेहो द्रुतं हन्ति सुतीव्रामपि वेदनाम् ।महतः पञ्चमूलस्य काष्ठात् क्षौमेण वेष्टितात् ॥
तैलसिक्तात् प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः ।योज्यश्चैवं भद्रकाष्ठात् कुष्ठात् काष्ठाच्च सारलात् ॥
वातब्याधि प्रतिश्याय विहितं हितमत्र च ।वर्ज्जयेच्छिरसा स्नानं शीताम्भःपानमह्न्यपि ॥
पित्तशूले सितायुक्तं घृतस्निग्धं विरेचयेत् ।द्राक्षायष्टिशृतं स्तन्यं शस्यते कर्णपूरणम् ॥
यष्ट्यनन्ता हिमोशीरकाकोलीरोध्रजीवकैः ।मृणालविषमञ्जिष्ठासारिवाभिश्च साधयेत् ॥
यष्टीमधुरसप्रस्थं क्षीरद्विप्रस्थसंयुतम् ।तैलस्य कुडवं नस्यपूरणाभ्यञ्जनैरिदम् ॥
निहन्ति शूलदाहोषाः केवलं क्षौद्रमेव वा ।यष्ट्यादिभिश्च सघृतैः कर्णौ दिह्यात् समन्ततः ॥
वामयेत् पिप्पलीसिद्धसर्पिः स्निग्धं कफोद्भवे ।धूमनावनगण्डूषस्वेदान् कुर्य्यात् कफापहान् ॥
लशुनार्द्रकशिग्रूणां सुरुल्या मूलकस्य च ।कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥
अर्काङ्कुरानम्लपिष्टांस्तैलाक्ताँल्लवणान्वितान् ।सन्निधाय स्नुहीकाण्डे कोरिते तच्छदावृतान् ॥
स्वेदयेत् पुटपाकेन स रसः शूलजित्परम् ।रसेन वीजपूरस्य कपित्थस्य च पूरयेत् ॥
सूक्तेन पूरयित्वा वा फेनेनान्ववचूर्णयेत् ।अजाऽविमूत्रवंशत्वक् सिद्धं तैलञ्च पूरणम् ॥
सिद्धं वा सार्षपं तैलं हिङ्गुतुम्बरुनागरैः ।रक्तजेपित्तवत् कार्य्यं शिराञ्चाशु विमोक्षयेत् ॥
पक्वे पूयवहे कर्णे धूमगण्डूषनावनम् ।युञ्ज्यान्नाडी विधानञ्च दुष्टव्रणहरञ्च यत् ॥
स्रोतः प्रमृज्य दिग्धन्तु द्वौ कालौ पिचुवर्त्तिभिः ।पूरयेद्धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥
सुरसादिगणक्वाथफाणिताक्ताञ्च योजयेत् ।पिचुवर्त्तिसुसूक्ष्मैश्च तच्चूर्णैरवचूर्णयेत् ॥
शूलक्लेदगुरुत्वानां विधिरेषनिवर्त्तकः ।प्रियङ्ग मधुकाम्बष्ठा धातक्युत्पलपर्णिभिः ॥
मञ्जिष्ठलोध्रलाक्षाभिः कपित्थस्य रसेन च ।पचेत्तैलं तदास्रावं निगृह्णात्याशु पूरणात् ॥
नादबाधिर्य्ययोः कुर्य्याद्वातशूलोक्तमौषधम् ।श्लेष्मानुबन्धे श्लेष्माणं प्राग्जयेद्वमनादिभिः ॥
एरण्डशिग्रुवरुणमूलकात् पत्रजे रसे ।चतुर्गुणे पचेत्तैलं क्षीरे चाष्टगुणोन्मिते ॥
यष्ट्याह्वाक्षीरकाकोलीकल्कयुक्तं निहन्ति तत् ।नादबाधिर्य्यशूलानि नावनाभ्यङ्गपूरणैः ॥
पक्वं प्रतिविधाहिङ्गुमिषित्वक् स्वर्ज्जिकोषणैः ।ससूक्तैः पूरणात्तैलं रुक्स्रावश्रुतिनादनुत् ॥
कर्णनादे हितं तलं सर्षपोत्थञ्च पूरणे ।शुष्कमूलकखण्डानां क्षारो हिङ्गुमहौषधम् ॥
शतपुष्पावचाकुष्ठदारुशिग्रुरसाञ्जनम् ।सौवर्च्चलयवक्षारस्वर्ज्जिकौद्भिदसैन्धवम् ॥
भूर्ज्जग्रन्थिविडं मुस्ता मधुसूक्तं चतुर्गुणम् ।मातुलुङ्गरसस्तद्वत् कदलीस्वरसश्चतैः ॥
पक्वं तैलं जयत्याशु सुकृच्छ्रानपि पूरणात् ।कण्डूं क्लेदञ्च बाधिर्य्यं पूतिकर्णञ्च रुक्क्रिमीन् ॥
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयेषु च ।अथ सुप्ताविवस्यातां कर्णौ रक्तं हरेत्ततः ॥
सशोफक्लेदयोर्मन्दस्रुतेर्वमनमाचरेत् ।बाधिर्य्यं वर्ज्जयेद्बालवृद्धयोश्चिरजञ्च यत् ॥
प्रतिनाहे परिक्लेद्य स्नेहस्वेदैर्विशोधयेत् ।कर्णशोधनकेनानु कर्णौ तैलस्य पूरयेत् ॥
ससूक्तसैन्धवमधोर्मातुलुङ्गरसस्य वा ।शोधनाद्रूक्षतोत्पत्तौघृतमण्डस्य पूरणम् ॥
क्रमोऽयं मलपूर्णेऽपि कर्णे कण्ड्वां कफापहम् ।नस्यादितद्वच्छोफेऽपि कटूष्णैश्चात्र लेपनम् ॥
कर्णस्रावोदितं कुर्य्यात् पूतिकृमिणकर्णयोः ।पूरणं कटुतैलेन विशेषात् कृमिकर्णके ॥
वमिपूर्व्वाहिताकर्ण विद्रधौविद्रधिक्रिया ।पित्तोत्थकर्णशूलोक्तं कर्त्तव्यं क्षतविद्रधौ ॥
अर्शोऽर्ब्बुदेषु नासावदामाकर्णविदारिका ।कर्णविद्रधिवत्साध्या यथा दोषोदयेन च ॥
पालीशोषेऽनिलश्रोत्रशूलवन्नस्य लेपनम् ।स्वेदञ्च कुर्य्यात् स्विन्नाञ्च पालीमुद्वर्त्तयेत्तिलैः ॥
प्रियालवीजयष्ट्याह्वहयगन्धा यवान्वितैः ।ततः पुष्टिकरैः स्नेहैरभ्यङ्गं नित्यमाचरेत् ॥
शतावरी वाजिगन्धा पयस्यैरण्डजीवकैः ।तैलं विपक्वं सक्षीरं पालीनां पुष्टिकृत्परम् ॥
कल्केन जीवनीयेन तैलं पयसि पाचितम् ।आनूपमांसक्वाथे च पालीपोषण वर्द्धनम् ॥
पालीं छित्त्वातिसंक्षीणां शेषां सन्धाय पोषयेत् ।याप्यैवं तन्त्रिकाख्यापि परिपाटेऽप्ययं विधिः ॥
उत्पाते शीतलैर्लेपो जलौको हृतशोणिते ।जम्व्वाम्रपल्लवबलायष्टीरोध्रतिलोत्पलैः ॥
सधान्याम्लैः समञ्जिष्ठैः सकदम्बैः ससारिवैः ।सिद्धमभ्यञ्जनं तैलं विसर्पोक्तघृतानि च ॥
उन्मन्थेऽभ्यञ्जनं तैलं गोधाकर्क्कवसान्वितम् ।तालपत्राश्वगन्धार्कवाकूचीतिलसैन्धवैः ॥
सुरसालाङ्गलीभ्याञ्च सिद्धं तीक्ष्णञ्च नावनम्दुर्व्विद्धेऽश्मन्तजम्व्वाम्रपत्रक्वाथेन सेचितम् ॥
तैलेन पालीं स्वभ्यक्तां सुश्लक्ष्णैरपि चूर्णयेत् ।चूर्णैर्मधुकमञ्जिष्ठा प्रपुण्ड्राह्वनिशोद्भवैः ॥
लाक्षाबिडङ्गसिद्धञ्च तैलमभ्यञ्जने हितम् ।स्विन्नां गोमयजैः पिण्डैर्बहुशः परिलेहिकाम् ॥
विडङ्गसारैरालिम्पेदुरभ्रीमूत्रकल्कितैः ।कौटजेङ्गुदकारञ्जवीजशम्याकवल्कलैः ॥
अथवाम्यञ्जने तैर्वा कटुतैलं विपाचयेत् ।सनिम्बपत्रमरिचमदनैर्लेहिकाव्रणे ॥
च्छिन्नन्तु कर्णं शुद्धस्य बन्धमालोच्य यौगिकम् ।शुद्धास्रं लागयेल्लग्ने सद्यश्छिन्ने विशोधनम् ॥
अथ ग्रथित्वा केशान्तं कृत्वा छेदनलेखनम् ।निवेश्य सन्धिं सुषमं न निम्नं न समुन्नतम् ॥
अभ्यज्य मधुसर्पिर्भ्यां पिचुप्लोतावगुण्ठितम् ।सूत्रेणागाढशिथिलं बद्ध्वा चूर्णैरवाकिरन् ॥
शोणितस्थापनैर्ब्रण्यमाचारञ्चादिशेत्ततः ।सप्ताहादामतैलाक्तं शनैरपनयेत् पिचुम् ॥
सुरूढं जातरोमाणं श्लिष्टसन्धिसमस्थिरम् ।सुवर्ष्माणं सुरागञ्च शनैः कर्णं विवर्द्धयेत् ॥
जलशूकः स्वयं गुप्ता रजन्यौ वृहतीद्वयम् ।अश्वगन्धा बला हस्तिपिप्पली गौरसर्षपाः ॥
मूलं कोशातकाश्वघ्नरूपिका सप्तपर्णजम् ।छुच्छुन्दरी कालमृता गृहं मधुकरीकृतम् ॥
जन्तुका जलजन्मा च तथा शावरकन्दकम् ।एभिः कल्कैः खरं पक्वं सतैलं माहिषं घृतम् ॥
हस्त्यश्वमूत्रेण परभभ्यङ्गात् कर्णवर्द्धनम् ।अथ कुर्य्याद्वयस्थस्य छिन्नां शुद्धस्य नासिकाम् ॥
छिन्द्यान्नासासमं पत्रं तत्तुल्यञ्च कपोलतः ।त्वङ्मांसं नासिकासन्ने रक्षंस्तत्तनुतां नयेत् ॥
सीव्येद्गण्डं ततः सूच्या सेविन्या पिचुयुक्तया ।नासाच्छेदे च लिखिते परिवर्त्त्योपरित्वचम् ॥
कपोलबन्धं सन्दध्यात् सीव्येन्नासाञ्च यत्नतः ।नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये ॥
आमतैलेन सिक्त्वा तु पतङ्गमधुकाञ्जनैः ।शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत् ॥
ततो मधुघृताभ्यक्तं बद्ध्वाचारिकमादिशेत् ।ज्ञात्वावस्थान्तरं कुर्य्यात् सद्यो व्रणविधिन्ततः ॥
छिन्द्याद्रूढेऽधिकं मांसं नासोपान्ते च चर्म्मवत् ।सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्द्धयेत् पुनः ॥
निवेशिते यथान्यासं सद्यश्छेदेऽप्ययं विधिः ।नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः” ॥
इति वाभटे उत्तरस्थाने १८ अध्यायः ॥
* ॥
“सामान्यं कर्णरोगेषु घृतपानं रसायनम् ।अव्यायामो ऽशिरःस्नानं ब्रह्मचर्य्यमकत्थनम् ॥
कर्णशूले प्रणादे च बाधिर्य्यक्ष्वेडयोरपि ।चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ॥
स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम् ।नार्डीस्वेदैरुपचरेत् पिण्डस्वेदैस्तथैव च ॥
विल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः ।वस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ॥
आरनालः शृतैरेभिर्नाडीस्वेदः प्रयोजितः ।कफवातसमुत्थानं कर्णशूलं निरस्यति ॥
मीनकुक्कुटलावानां मांसजैः पयसापि वा ।पिण्डैः स्वेदञ्च कुर्व्वीत कर्णशूलनिवारणम् ।अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम् ।तलाक्तमस्तसम्पूर्णं निदध्याच्छ्रवणोपरि ॥
यत्तैलं च्यवते तस्मात् खल्लादङ्गारसाधितात् ।तत्प्राप्तं श्रवणस्नोतः सद्यो गृह्णाति वेदनाम् ॥
क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम् ।भक्तोपरि हितं सर्पिर्वस्तिकर्म्म च पूजितम् ॥
निरन्नो निशि तत्मर्पिः पीत्वोपरि पयः पिबेत् ।मूर्द्धवस्तिषु नस्ये च मस्तिष्के परिषेचने ॥
शतपाकं बलातैलं प्रशस्तञ्चापि भोजने ।कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च ॥
विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम् ।तण्डुलीयकमूलानि फलमङ्गोठजन्तथा ॥
अहिंस्राकेन्द्रकामूलं सरलं देवदारु च ।लसुनं शृङ्गवेरञ्च तथा वंशावलेखनम् ॥
कल्कैरेषां तथाम्लैश्च पचेत् स्नेहं चतुर्विधम् ।वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् ॥
लसुनार्द्रकशिग्रूनां मुरुङ्ग्या मूलकस्य च ।कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे ॥
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च ।कदुष्णं कर्णयोर्द्देयमेतद्वा वेदनापहम् ॥
वंशावलेखसंयुक्ते मूत्रे चाजाविके भिषक् ।सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः ॥
महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम् ।क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ॥
यत्तैलं च्यवते तेभ्यो घृतेभ्यो भाजनोपरि ।ज्ञेयं तद्दीपिकातैलं सद्यो गृह्नाति वेदनाम् ॥
कुर्य्यादेवं भद्रकाष्ठे कुष्ठे काष्ठे च सारले ।मतिमान्दीपिकातैलं कर्णशूलनिवर्हणम् ॥
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान् ।सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते ॥
पुटपाकक्रमस्विन्नान् पीडयेदारसागमात् ।सुखोष्णं तद्रसं कर्णे दापयेच्छूलशान्तये ॥
कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः ।सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये ॥
कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः ।समुद्रफेनचूर्णेन युक्त्वा वाप्यवचूर्णयेत् ॥
अष्टानामिह मूत्राणां मूत्रेणान्यतमेन वा ।कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये ॥
मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक् ।पचेच्चतुर्व्विधं स्नेहं पूरणं तच्चकर्णयोः ॥
एता एव क्रियाः कुर्य्यात् पित्तघ्नैः पित्तसंयुते ।काकोल्यादौ दशक्षीरं तिक्तञ्चात्र हितं हविः ॥
क्षीरवृक्षप्रबालेषु मधुके चन्दने तथा ।कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ॥
इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ ।तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ॥
सुरसादौ कृतं तैलं पञ्चमूले महत्यपि ।मातुलूङ्गरसः शुक्तं लसुनार्द्रकयो रसः ॥
एकैकः पूरणे पथ्यस्तैलं तेष्वथवा कृतम् ।तीक्ष्णा मूर्द्धविरेकाश्च कवलाश्चात्र पूजिताः ॥
कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते ।शूलप्रणादबाधिर्य्यक्ष्वेडानान्तु प्रकीर्त्तितम् ॥
सामान्यतो विशेषेण बाधिर्य्ये पूरणं शृणु ।गवां मूत्रेण विल्वानि पिष्ट्वा तैलं विपाचयेत् ॥
सजलञ्च सदुग्धञ्च बाधिर्य्ये कर्णपूरणम् ।सितामधुकविम्वीभिः सिद्धं वाजे पयस्यथ ॥
सिद्धं वा विल्वनिःक्वाथे शीतीभूतं तदुद्धृतम् ।पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ॥
विल्वाम्बुगाढं यत्तैलं बाधिर्य्ये कर्णपूरणम् ।वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः ॥
वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत् ।कर्णस्रावे पूतिकर्णे तथैव क्रिमिकर्णके ॥
समानं कर्म्म कुर्व्वीत योगान् वैशेषिकानपि ।शिरोविरेचनञ्चैव धूपनं पूरणन्तथा ॥
प्रमार्जनं धावनञ्च वीक्ष्य वीक्ष्यावचारयेत् ।राजवृक्षादितो येन सुरसादिगणेन वा ॥
कर्णप्रक्षालनं कार्य्यं चूर्णैरेषाञ्च पूरणम् ।चूर्णं पञ्चकषायोत्थं कपित्थरसयोजितम् ॥
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह ।सर्ज्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ॥
योजितो मधुना वापि कर्णस्रावे प्रशस्यते ।लाक्षासर्ज्जरसौ वापि चूर्णितौ कर्णपूरणम् ॥
सशैवलमहावृक्षजम्ब्वम्रप्रसवायुतम् ।कुलीरक्षौद्रमण्डूकी सिद्धं तैलञ्च पूजितम् ॥
तिन्दुकान्यभयारोध्रं समङ्गामलकं मधु ।पूरणञ्चात्र पथ्यं स्यात् कपित्थरसयोजितम् ॥
रसमाम्रकपित्थानां मधूकधवशालजम् ।पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम् ॥
प्रियङ्गुमधुकाम्बष्ठा धातकी शीतपर्णिभिः ।मजिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ।पचेत्तैलं तदास्रावमवगृह्णाति पूरणात् ।घृष्टं रसाञ्जनं नार्य्याः क्षीरेण क्षौद्रसंयुतम् ॥
प्रशस्यते चिरोत्थेऽपि सास्रावे पूतिकर्णके ।निर्गुण्डीस्वरसे तैलं सिन्धुर्धूमरजोगुडः ।पूरणः पूतिकर्णस्य शमनो मधुसंयुतः ।कृमिकर्णकनाशार्थं क्रिमिघ्नं योजयेद्विधिम् ॥
वार्त्ताकुधूमश्च हितः सार्षपस्नेह एव च ।क्रिमिघ्नं हरितालेन गवां मूत्रयुतेन च ॥
गुग्गुलुः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते ॥
छर्द्दनं धूमपानञ्च कवडस्य च धारणम् ।कर्णक्ष्वेड हितं तैलं सार्षपञ्चैव पूरणम् ॥
विद्रधौ वापि कुर्व्वीत विद्रध्युक्तं चिकित्सितम् ॥
प्रक्लेद्यधीमांस्तैलेन स्वेदेन प्रविलाप्य च ।शोधयेत् कर्णविट्कन्तु भिषक् सम्यक् शलाकया ॥
नाडीस्वेदोऽथ वमनं धूमो मूर्द्धविरेचनम् ।विधिश्च कर्णहृत्सर्व्वः कर्णकण्डूमपोहति ॥
अथ कर्णप्रतीनाहे स्रेहस्वेदौ प्रयोजयेत् ।ततोऽतिरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ॥
कर्णपाकस्य भैषज्यं कुर्य्यात् पित्तविसर्पवत् ।कर्णच्छिद्रे वर्त्तमानं कीटं क्लेदमलादि वा ॥
शृङ्गेणापहरेद्ध्वीमानथवापि शलाकया ।शेषाणान्तुविकाराणां प्राक्चिकित्सितमीरितम्” ॥
इति सुश्रुते उत्तरतन्त्रे एकविंशतितमोऽध्यायः ॥
* ॥
चिकित्सितस्थाने ४३ अध्याये सनिदानलक्षण-चिकित्सितान्युक्तानि हारीतेन यथा, --“सिक्थेन वा तोयविपूरणेनमलेन वा चाति भवेद्रुजा च ।उच्छासरोधाद्भवते तथापिवातादिकैर्वा कुपितैरथापि ॥
संसर्गदोषैरपि सर्व्वदोषैःक्रिमिव्रणे नापि तथैव चान्या ।सञ्जायते कर्णरुजा नरस्यशृणोति तेनापि बहुखनांश्च ॥
निःस्वानमेघघ्वनिदन्तशब्दान्शूलं सदाहञ्च शिरोव्यथा च ।वेणुस्वनं वत्स ! शृणोति सर्व्वंपित्तेन तं विद्धि भिषग्वरिष्ठ ! ॥
तथा च मूर्च्छां प्रतनोति शब्दंमेघस्वनं वा कफजे शृणोति ॥
क्रिमिदोषे स्रवेत् पूयं सरक्तं वाति सत्तम ! ।तथा चैवाभिघातेन जायते तीव्रवेदना ॥
क्षतेन पूयं स्रवते बाल्याद्भवति चापरः ।तञ्चापिलूतिदोषेण जायते कर्णजा रुजा ॥
न कर्णरोगे जलपूरणञ्चन चूर्णमेतत् कथितं विधिज्ञैः ।तैलं हितं स्वेदनमेव कर्णेस वाष्पविन्दुश्च हितो मतश्च ॥
समुद्रफेनं सिन्धूत्थं सूक्ष्मचूर्णञ्च कारयेत् ।सौवीरकरसेनापि वातिके कर्णपूरणम् ॥
आर्द्रसौवीरकरसं शुण्ठीसैन्धवगुग्गुलुम् ।माषकुल्माषतोयेन तैलं पक्त्वातिचोष्णकम् ।तुम्बीरसञ्च धार्य्येत कर्णरोगे प्रशस्यते ॥
यष्टीमधुः कुष्ठमरिष्टपत्रंनिशाविशाला सुमनः प्रबालाः ।विपाठितं कर्णभवे च शूलेस पैत्तिके वा घृतमेव शस्तम् ॥
ब्राह्मीरसं सैन्धवकं विडङ्गंसभृङ्गराजस्य घृतेन युक्तम् ।तथैव सौवीररसञ्च पथ्यास्रुतञ्च वस्त्रं परिपूर्णमेतत् ॥
हितम्भवेत्तत् श्रुतिपूरणायपूयं सरक्तं क्रिमिजं निहन्ति ॥
सर्व्वे प्रोक्ताः शिरोरोगास्तैलानि च घृतानि च ।जात्याविकान् वा युञ्जीत शिरोरोगविदाम्बरः ।वातहारीणि पथ्यानि विदाहीनि गुरूणि च” ॥
* ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
