| YouTube Channel

कर्णप्रतिनाहः (karNapratinAhaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्णप्रतिनाहः,
पुं,
(कर्णे जातः प्रतिनाहः रोग-विशेषः ।) कर्णरोगविशेषः तस्य सम्प्राप्तिरूपे ।“सकर्णगूथो द्रवतां यदा गतोविलायितो घ्राणमुखं प्रपद्यते ।तदा कर्णप्रतिनाहसंज्ञितोभवेद् विकारः शिरसोऽर्द्धभेदकृत्”
इति माधवकरः
(अस्य चिकित्सा यथा, --“अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत् ।ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत्”
इति वैद्यकचक्रपाणिसंग्रहे कर्णरोगाधिकारः
)