| YouTube Channel

कर्णगूथकः (karNagUthakaH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्णगूथकः,
पुं,
(कर्णगूथ + संज्ञायां कन् कर्णगूथ-मिव कायति वा कै + कः ।) कर्णरोगविशेषः ।तस्य निदानम् यथाह माधवकरः ।“पित्तोष्मशोषितः श्लेष्मा जायते कर्णगूथकः”
(“विशोषिते श्लेष्मणि पित्ततेजसानृणां भवेत् स्रोतसि कर्णगूथकः”
इति सुश्रुते उत्तरतन्त्रे २० अध्याये
चिकित्सास्य वैद्यकचक्रपाणिसंग्रहे
यथा, “क्लेदयित्वा तु तैलेन स्वेदेन प्रविलाप्य ।शोधयेत् कर्णगूथन्तु भिषक् सम्यक् शलाकया”
)