| YouTube Channel

कर्च्चूरः (karccUraH)

 
शब्दकल्पद्रुमः
Sanskrit
कर्च्चूरः,
पुं,
(कर्ज्ज + ऊरः पृषोदरादित्वात्साधुः ।) वृक्षविशेषः कचूर इति भाषा तत्प-र्य्यायः द्राविडः कर्श्यः दुर्लभः गन्धमूलकः५ वेधमुख्यः गन्धसारः जटालः अस्यगुणाः कटुत्वम् तिक्तत्वम् उष्णत्वम् कफ-कासगलगण्डादिदोषनाशित्वम् मुखवैशद्यजनन-त्वञ्च इति राजनिर्घण्टः
(यथा चरके सूत्रे२७ अध्याये ।“रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्ज्जितः ।कर्च्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः”
)