| YouTube Channel

कर्केतनं (karketanaM)

 
शब्दकल्पद्रुमः
Sanskrit
कर्केतनं, क्ली
पुं,
(कर्के हास्यादो तनोतीति कर्के +तन् + अच् सप्तम्या अलुक् ।) रत्नविशेषः तदु-त्पत्त्यादि यथा, गारुडे ७५ अध्यायः
सूत उवाच ।“वायुर्नखान् दैत्यपतेर्गृहीत्वाचिक्षेप सम्पद्य वनेषु हृष्टः ।ततः प्रसूतं पवनोपपन्नंकर्केतनं पूज्यतमं पृथिव्याम्
वर्णेन तद्रुधिरसोममधुप्रकाश-माताम्रपीतदहनोज्ज्वलितं विभाति ।नीलं पुनः खलसितं परुषं विभिन्नंव्याध्यादिदोषकरणेन तद्विभाति
स्निग्धा विशुद्धाः समरागिणश्चआपीतवर्णा गुरवो विचित्राः ।त्रासव्रणव्याधिविवर्जिताश्चकर्केतनास्ते परमाः पवित्राः
पत्रेण काञ्चनमयेन तु वेष्टयित्वाहस्ते गलेऽथ घृतमेतदतिप्रकाशम् ।रोगप्रणाशनकरं कलिनाशनञ्चआयुष्करं कुलकरञ्च सुखप्रदञ्च
एवंविधं बहुगुणं मणिमावहन्तिकर्केतनं शुभमलं कृतये नरा ये ।ते पूजिता बहुधना बहुबान्धवाश्चनित्योज्ज्वलाः प्रमुदिता अपि ते भवन्ति ।एकेऽपनह्य विकृताकुलनीलभासःप्रम्लानरागलुलिताः कलुषा विरूपाः ।तेजोऽतिदीप्तिकुलपुष्टिविहीनवर्णाःकर्केतनस्य सदृशं वपुरुद्वहन्ति
कर्केतनं यदि परीक्षितवर्णरूपंप्रत्यग्रमास्वरदिवाकरसुप्रकाशम् ।तस्योत्तमस्य मणिशास्त्रविदा महिम्नातुल्यन्तुमूल्यमुदितं तुलितस्य काय्यम्”
हस्ते गलेऽथधृतमेतदतिप्रकाशमित्यत्र वप्तं यदाहुतवहे भवति प्रकाशमिति पुस्तकान्तरे पाठः