| YouTube Channel

कर्कशः (karkazaH)

 
Apte Hindi
Hindi
कर्कशः
पुं*
- कर्क-श
तलवार
कर्कशः
पुं*
- कर्क+श
काले रंग का गन्ना
शब्दकल्पद्रुमः
Sanskrit
कर्कशः,
पुं,
(कर्कशब्दात् मत्वर्थे लोमादित्वात् शः ।)काम्पिल्यवृक्षः इत्यमरः १४६ गुँडारोचनी इति भाषा
(व्यवहारोऽस्य यथा, चरकेविमाने अध्याये
“कर्कोढकवार्त्ताकुकर्कश-काकमाचीकारवल्लीत्यादिषु”
) कासमर्दः इक्षुः ।(कृणोति हिनस्ति शत्रुं कृञ् हिंसायां + अन्येभ्यी-ऽपीति विच् कशति कश्शब्दे इति पचाद्यच्-कर्चासौ कशश्चेति करे कशति वा ।) खड्गः
इति हेमचन्द्रः
कर्कशः, त्रि, (कर्कात् लोमादित्वात् शः ततः प्राग्-वत् कृञादिधातोर्निष्पादितार्थे ।) साहसिकः ।कठोरः (यथा भागवते १७ ११ ।“खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम्”
)अमसृणः (यथा रघौ ४५ ।“हरेः कुमारोऽपि कुमारविक्रमःसुरद्विपास्फालनकर्कशाङ्गुलौ”
)दुष्पर्शः इत्यमरः २१६
क्रूरः निर्दयः ।इति मेदिनी
(यथा रामायणे ४९ ।“तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः”
)कृपणः इति विश्वः