| YouTube Channel

कर्कन्ध (karkandha)

 
वाचस्पत्यम्
Sanskrit
कर्कन्ध स्त्री कर्कं कण्टकं दधाति धा--कू नि० मुम् वदर्य्याम्(कुल) “कर्कन्धूफलमुच्चिनोति शवरी मुक्ताफलाशङ्कया”सा० द० तस्य पुस्त्वमपि “पुंसि स्त्रियाञ्च कर्कन्धूःर्वदरी कोलमित्यपि फेनिलं कुवलं घोटा सौवीरं व-दरं महत् अजप्रिया कुहा कोली विषमोभयक-ण्टका पच्यमानं सुमधुर सौवीरं वदरं महत् ।सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम् वृंहण-म्पित्तदाहास्रक्षयतृष्णानिवारणम् सौवीरं लघु स-पक्वं मधुर कीलमुच्यते कोलन्तु वदरं ग्राहि रुच्य-वुष्णञ्च वातलम् कफपित्तकरञ्चापि गुरु सारकमो-रितम् कर्कन्धूः क्षुद्रवदरं कथितं पूर्व्वसूरिभिः अम्लंस्यात् क्षुद्रवदरं कषायं मधुरं मनाक् स्निग्धं गुरु चतिक्तञ्च वातपित्तापहं स्मृतम् शुष्कं भेद्यग्निकृत्सर्वं लघु-तृष्णाक्लमास्रजित्” फले
न०
“दध्नोरूपं कर्कन्धूनि”यजु० १९, २३, कर्कन्धूनां पाकः पील्वादि० कुणच् ।कर्कन्धूकुण तत्पाके
न०
प्रस्थपरे कर्क्यादि० कर्क-न्धूप्रस्थैत्यादौ नाद्युदास्तता ततः मध्वा० चतुरर्थ्यांमतुप् कर्कन्धूमत् तत्सन्निकृष्टदेशादौ
त्रि०
स्त्रियांङीप् कर्कन्धूमतो तस्या अदूरभवः सुवास्त्वा० अण् ।कार्कन्धूमत तददूरदेशभवे
त्रि०