| YouTube Channel

करुणविप्रलम्भः (karuNavipralambhaH)

 
Apte Hindi
Hindi
करुणविप्रलम्भः
पुं*
करुण - विप्रलम्भः -
वियुक्तावस्था में प्रेम-भावना
शब्दकल्पद्रुमः
Sanskrit
करुणविप्रलम्भः,
पुं,
(करुणयुक्तो विप्रलम्भः ।) पूर्व्व-रागादिचतुर्भेदविप्रलम्भशृङ्गारमध्ये विप्रलम्भवि-शेषः अस्य लक्षणम् यथा साहित्यदर्पणे३ परिच्छेदे १९३ ।“यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये ।विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः”
यथा, कादम्बर्य्याम् “पुण्डरीकमहाश्वेतावृत्तान्तेपुनरलभ्ये शरीरान्तरे वा लभ्ये करुणाख्यएव रसः
किञ्चात्राकाशसरस्वतीभाषानन्तरमेवशृङ्गारः सङ्गमप्रत्याशायां रतेरुद्भावात् प्रथ-मस्तु करुण एवत्यभियुक्ता मन्यन्ते यच्चात्र सङ्गम-प्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्यप्रवासाख्यो भेद एवेति केचिदाहुः तदन्ये मरण-रूपविशेषसम्भवात्तद्भिन्नमपि मन्यन्ते”