| YouTube Channel

करुणविप्रलम्भ (karuNavipralambha)

 
Apte Hindi
Hindi
करुणविप्रलम्भः
पुं*
करुण - विप्रलम्भः -
वियुक्तावस्था में प्रेम-भावना
Shabdartha Kaustubha
Kannada
करुणविप्रलम्भ
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶೃಂಗಾರರಸದ ಒಂದು ಭೇದ
विस्तारः - > "यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये विमनायते यदेकस्तदा भवेत्करुणविप्रलम्भाख्यः ॥" - सा० द० ३-२०९
शब्दकल्पद्रुमः
Sanskrit
करुणविप्रलम्भः,
पुं,
(करुणयुक्तो विप्रलम्भः ।) पूर्व्व-रागादिचतुर्भेदविप्रलम्भशृङ्गारमध्ये विप्रलम्भवि-शेषः अस्य लक्षणम् यथा साहित्यदर्पणे३ परिच्छेदे १९३ ।“यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये ।विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः”
यथा, कादम्बर्य्याम् “पुण्डरीकमहाश्वेतावृत्तान्तेपुनरलभ्ये शरीरान्तरे वा लभ्ये करुणाख्यएव रसः
किञ्चात्राकाशसरस्वतीभाषानन्तरमेवशृङ्गारः सङ्गमप्रत्याशायां रतेरुद्भावात् प्रथ-मस्तु करुण एवत्यभियुक्ता मन्यन्ते यच्चात्र सङ्गम-प्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्यप्रवासाख्यो भेद एवेति केचिदाहुः तदन्ये मरण-रूपविशेषसम्भवात्तद्भिन्नमपि मन्यन्ते”
वाचस्पत्यम्
Sanskrit
करुणविप्रलम्भ
पु०
शृङ्गाररसभेदे शृङ्गारमुक्त्वा” सा० द०उक्तं यथा“विप्रलम्भोऽथ सम्भोग इत्येष द्विविधो मतः तत्रयत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसौ ।अभीष्टं नायकं नायिकां वा पूर्व्वरागमान-प्रवासकरुणात्मकश्चतुर्द्धा स्यात्”