| YouTube Channel

करवीरः (karavIraH)

 
Apte Hindi
Hindi
करवीरः
पुं*
कर - वीरः -
तलवार या खड्ग
करवीरः
पुं*
कर - वीरः -
कब्रिस्तान
करवीरः
पुं*
कर - वीरः -
चेदि देश का एक नगर
करवीरः
पुं*
कर - वीरः -
कनेर
Wordnet
Sanskrit
Synonyms:
खड्गः, कृपाणः, आरी, कृपाणकः, अक्षरः, अस्त्रम्, करवीरः, करवीरकः, करण्डः, करालः, करालिकः
noun
लोहस्य शस्त्रविशेषः।
"हस्ते खड्गं धृत्वा सः वनं प्रति अगच्छत्।"
Synonyms:
रक्तपुष्पः, करवीरः
noun
वृक्षविशेषः।
"सीमा रक्तपुष्पस्य मालां निर्माति।"
Synonyms:
करवीरः, प्रतिहासः, शतप्रासः, चण्डातः, हयमारकः, प्रतीहासः, अश्वघ्नः, हयारिः, अश्वमारकः, शीतकुम्भः, तुरङ्गारिः, अश्वहा, वीरः, हयमारः, हयघ्नः, शतकुन्दः, अश्वरोधकः, वीरकः, कुन्दः, शकुन्दः, श्वेतपुष्पकः, अश्वान्तकः, नखराह्वः, अश्वनाशनः, स्थलकुमुदः, दिव्यपुष्पः, हरिप्रियः, गौरीपुष्पः, सिद्धपुष्पः
noun
एकः मध्यामाकारः वृक्षः।
"करवीरे पीतरक्तशुक्लानि पुष्पाणि भवन्ति।"
अमरकोशः
Sanskrit
Word: करवीरः
Root: करवीर
Gender: पुं
Number: all
Meaning(s):
sword
thumb
cemetery
Oleander
particular spell
Oleander shrub [Nerium oleander - Bot.]
Shloka(s):
2|4|76|2 प्रतिहासशतप्रासचण्डातहयमारकाः॥ (वनौषधिवर्गः)
2|4|77|1 करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। (वनौषधिवर्गः)
Synonym(s):
2|4|76|2 प्रतिहासः (प्रतिहास) (पुं) returning a laugh, fragrant oleander, laughing with or at, oleander [Nerium oleander - Bot.]
2|4|76|2 शतप्रासः (शतप्रास) (पुं)
2|4|76|2 चण्डातः (चण्डात) (पुं)
2|4|76|2 हयमारकः (हयमारक) (पुं) horses-killer, oleander [Nerium oleander - Bot.]
2|4|77|1 करवीरः (करवीर) (पुं) sword, thumb, cemetery, Oleander, particular spell, Oleander shrub [Nerium oleander - Bot.]
Related word(s):
जातिः ओषधिः
शब्दकल्पद्रुमः
Sanskrit
करवीरः,
पुं,
(करं वोरयति वीर + विकान्तौ + कर्म्मण्यण् ।) खड्गः देत्यविशेषः इति मेदिनी
श्मशानम् इति हेमचन्द्रः
ब्रह्मावर्त्ते दृशद्वती-नदीतीरे चन्द्रशेखरराजपुरम् इति कालिका-पुराणे ४६ अध्यायः
(पर्ब्बतविशेषः यथा, भागवते १६ २८ ।“एवमपरेण पवनपारियात्रौदक्षिणेन कैलास करवीरौ प्रगायतौ”
नागविशेषः यथा, महाभारते ३५ १२ ।“करवीरः पुष्पदंष्ट्रो विल्वको विल्वपाण्डरः”
)वृक्षविशेषः करवी इति भाषा
(यथा रामायणे १७ १० ।“दाडिमान् करवीरांश्च अशोकांस्तिलकांस्तथा”
)तत्पर्य्यायः प्रतिहासः शतप्रासः चण्डातः ४हयमारकः इत्यमरः ७६
प्रतीहासः६ इति तट्टीका
अश्वघ्नः हयारिः अश्व-मारकः शीतकुम्भः १० तुरङ्गारिः ११ इतिरत्नमाला
अश्वहा १२ वीरः १३ हयमारः १४हयघ्नः १५ शतकुन्दः १६ अश्वरोधकः १७ वीरकः१८ कुन्दः १९ शकुन्दः २० श्वेतपुष्पकः २१ अश्वा-न्तकः २२ नखराह्वः २३ अश्वनाशनः २४ स्थल-कुमुदः २५ दिव्यपुष्पः २६ हरिप्रियः २७ गौरी-पुष्पः २८ सिद्धपुष्पः २९ अस्य गुणाः कटु-त्वम् तीक्ष्णत्वम् कुष्ठकण्डूतिनाशित्वम् व्रणा-र्त्तिविषविस्फोटकशमनत्वम् अश्वमृतिप्रदत्वञ्च ।इति राजनिर्घण्टः
(श्वेतरक्तभेदेन यथा, --“करवीरः श्वेतपुष्पः शीतकुम्भोऽश्वमारकः ।द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा
करवीरद्वयं तिक्तं कषायं कटुकञ्च तत् ।व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् ।वीर्य्योष्णं क्रिमिकण्डूघ्नं भक्षितं विषवन्मतम्”
इति भावप्रकाशः
नागविशेषः इति भारतम्
)