| YouTube Channel

करमर्द्दः (karamarddaH)

 
शब्दकल्पद्रुमः
Sanskrit
करमर्द्दः,
पुं,
(करं मृद्गातीति करकण्डूप्रदत्वात् ।मृद्क्षोदे + कर्म्मण्यण् करेण मृद्यते इति कर्म्मणिअप् वा ।) करमर्द्दकवृक्षः इति शब्दरत्नावली
(यथा भावप्रकाशे, --अस्य गुणा उक्ताः ।“लघुदीर्घफलाभ्यान्तु करमर्द्दद्वयं मतम् ।करमर्द्दद्वयं त्वाममम्लं गुरुतृषाहरम्
उष्णं रुचिकरं प्रोक्तं पित्तरक्तकफप्रदम् ।तत्पक्वं मधुरं रुच्यं लघुपित्तसमीरजित्
करमर्द्दः सुषेणः स्यात् कृष्णपाकफलस्तथा ।तस्माल्लघुफलायास्तु सा ज्ञेया करमर्द्दिका
)