| YouTube Channel

करणः (karaNaH)

 
शब्दकल्पद्रुमः
Sanskrit
करणः,
पुं,
शूद्रावैश्ययोर्जातजातिविशेषः इत्यमरः ।२ १०
अयं लिखनवृत्तिः कायस्थ इतिख्यातः इति भरतः
यथा, --“शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः” ।इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः
*
अपि ।“कायस्थे साधने क्लीवं पुंसि शूद्राविशोः सुते” ।इति करणशब्दार्थे मेदिनो
*
अन्यच्च ।“झल्लो मल्लश्च राजन्यात् ब्रात्यान्निच्छिविरेव ।नटश्च करणश्चैव खसद्रविड एव च”
इति मानवे १० २२
झल्लोमल्लश्चेति “क्षत्रि-यात् व्रात्यात् सवर्णायां झल्लमल्लनिच्छिविनट-करणखसद्रविडाख्या जायन्ते एतान्यप्येकस्यैवनामानि” इति तट्टीकायां कुल्लूकभट्टः
*
तस्य कर्म्मविपाको यथा, --“तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् ।ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः
तमःकुण्डे वर्षशतं स्थित्वा स्वर्णबणिक् भवेत् ।जन्मैकञ्च दुराचारो जन्मैकं करणो भवेत्
विश्वैकलिपिकर्त्ता भक्ष्यदातुर्धनं हरेत्
कायस्थेनोदरस्थेन मातुर्म्मांसं खादितम् ।तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम्
स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर ।नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले
हृदयं क्षुरधाराभं तेषाञ्च नास्ति सादरम् ।शतेषु सज्जनः कोऽपि कायस्थो नेतरौ तौ
सुबुद्धिः शिवयुक्तिश्च शास्त्रज्ञो धर्म्ममानसः ।न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ अध्यायः