| YouTube Channel

करणं (karaNaM)

 
Hindi
Hindi
मतलब है
शब्दकल्पद्रुमः
Sanskrit
करणं,
क्ली,
(क्रियतेऽनेन कृ + करणे + ल्युट् ।)साधकतमम् इत्यमरः ५४
तत्तुषट्कारकन्तर्गतकारकविशेषः तस्य लक्षणम् ।“क्रियायां साध्यायां बहूनां कारणानां मध्ये कार-णान्तरव्यवधानाभावे यद्वस्तु क्रियानिष्पत्तिकारणंविवक्षितं तस्मिन् करणत्वं प्रकीर्त्तितम् तेनदात्रेण धान्यं लुनातीत्यत्र हस्तादेः कारणत्वेऽपिदात्रस्यैव करणत्वं विवक्षितम्
तथाचोक्तम् ।“कारणाव्यवधानेऽपि क्रिया निष्पत्तिकारणम् ।यद्वै विवक्षितं तेषु करणत्वं प्रकीर्त्तितम्”
इति मुग्धबोधटीकायां दुर्गादासः
*
तिथ्यर्द्ध-परिमितववाद्येकादशसंज्ञककालविशेषः तेषांनामानि ववः वालवः कौलवः तैतिलः ४गरः बणिजः विष्टिः शकुनिः चतुष्पदः९ किन्तुघ्नः १० नागः ११ तेषां यथाक्रमेणा-धिष्ठातृदेवाः इन्द्रः कमलजः मित्रः ३अर्य्यमा भूः श्रीः यमः कलिः वृषः९ फणी १० मारुतः ११ एकैकस्मिन् तिथौद्वे द्वे करणे भवतः तेषां ववादयः सप्त अष्टा-वृत्त्या शुक्लप्रतिपच्छेषार्द्धमारभ्य कृष्णपक्षीयचतु-र्द्दशीप्रथमार्द्धपर्य्यन्तं भवन्ति शेषाश्चत्वारः कृ-ष्णचतुर्द्दशीशेषार्द्धावधिशुक्लप्रतिपत्प्रथमार्द्धपूर्य्यन्तंनियमेन भवन्ति अतो ध्रुवाणि करणानि पूर्व्वेसप्ताध्रुवाणि
तेषामानयनक्रमो यथा ।“तिथिर्द्विघ्ना करोनागशिष्टाकरणमादिमे ।परे दले तु सैकं तत्करणं ववपूर्व्वकम्”
इति ज्योतिषम्
*
क्षेत्रम् गात्रम् इन्द्रि-यम् इत्यमरः ५४
(यथा गीतायां१८ १४ ।“अधिष्ठानं तथाकर्त्ता करणञ्च पृथग्विधम्”
)हेतुः कर्म्म हस्तलेपः नृत्यप्रभेदः गीतवि-शेषः (तले व्यवस्थापकस्ताडनविशेषः ।यदुक्तं राजकन्दर्पेण ।“नृत्यवादित्रगीतानां प्रयोगवशभेदिनां ।संस्थानं ताडनं रोधः करणानि प्रचक्षते”
अस्य प्रमाणं यथा कुमारे ४० ।“शिखरासक्तमेघानां व्यज्यस्ते यत्र वेश्मनाम् ।अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः”
)क्रियाभेदः संवेशनम् कायस्थः इति मेदिनी
कायस्थसंहतिः
वर्णानां स्पष्टतादि योगिना-मासनादि कृतादि इति हेमचन्द्रः
(सर्व्वेषा-मादिकारणत्वात् विष्णुः यथा, महाभारते१३ १४९ ५४ ।“करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः”
लेख्यपत्रसाक्षिदिव्यादि यथा मनुः ४१ ।“अर्थेऽपव्ययमानन्तु करणेन विभावितम् ।दापयेद्धनिकस्याथ दण्डलेशञ्च शक्तितः”
भावे ल्युट् कृतिः यथा रामायणे १७ ५६
“धर्म्मतः शेषकरणे प्रतीक्षिष्यामहे वयम्”
)