करञ्जः (karaJjaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishकरञ्जः [karañjḥ], [कं शिरो जलं वा रञ्जयति Tv.] of a tree (used in medicinal preparations)
3.21.42.
Apte Hindi
Hindiकरञ्जः
- कं शिरोजलं वा रञ्जयति- @ तारा*
एक वृक्ष का नाम
Wordnet
Sanskrit करञ्जः, करकः
कण्टकयुक्तः वृक्षविशेषः यस्य बीजगुप्तिः भेषजरूपेण उपयुज्यते।
"वैद्यः स्वस्य उद्याने करञ्जं रोपयति।"
करञ्जः
करञ्जवृक्षस्य बीजगुप्तिः।
"करञ्जः भेषजार्थे उपयुज्यते।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वैजयन्तीकोषः
SanskritWord: करञ्जः
Root: करञ्ज
Gender: पुं
Number: all
अर्थः ⇒
Meaning(s):
⇒ Galedupa arborea or Robinia mitis
Tamil Puṅgan
Shloka(s):
3|3|62|1 ► करञ्जे स्यान्नक्तमालः प्रकीर्यश्चिरिबिल्वकः। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
➠ 3|3|62|1 ⇢ करञ्जः (करञ्ज) (पुं) ⇒ Galedupa arborea or Robinia mitis
Tamil Puṅgan ⇒
➠ 3|3|62|1 ⇢ नक्तमालः (नक्तमाल) (पुं) ⇒ Galedupa arborea or Robinai mitis
Tamil Puṅgu ⇒
➠ 3|3|62|1 ⇢ प्रकीर्यः (प्रकीर्य) (पुं) ⇒ Galednpa arborea or Robinia mitis
Tamil Maṇippuṅgu ⇒
➠ 3|3|62|1 ⇢ चिरिबिल्वकः (चिरिबिल्वक) (पुं) ⇒ Galedupa arborea or Robinia mitis
Tamil Puṅgan ⇒
Related word(s):
शब्दकल्पद्रुमः
Sanskritकरञ्जः, (कं सुखं शिरो जलं वा रञ्जयतीति । क +रञ्ज + णिच् + अण् ।) स्वनामख्यातवृक्षविशेषः ।करम्चा इति भाषा । तत्पर्य्यायभेदौ यथा, --“करञ्जकः स्यात् करजः पत्रसूची फलाशनः ।आङ्गारमञ्जी षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ।करञ्जभेदाश्चत्वारो विज्ञेया लोकतस्त्विमे” ॥
इति शब्दरत्नावली ॥
अपि च ।“चिरविल्वो नक्तमालः करजश्च करञ्जकः ।सोमवल्कः कलिङ्गस्तु पूतिकः कलिकारकः ॥
प्रकीर्य्यः पूतिकरजः पट्टिलः सुमना अपि ।करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी” ॥
इति जटाधरः ॥
स षड्विधः । तत्र डरकरञ्ज-पर्य्यायः । नक्तमालः २ पूतिकः ३ चिरविल्वकः ४पूतिपर्णः ५ बद्धफलः ६ रोचनः ७ । इति राज-निर्घण्टः ॥
चिरविल्वः ८ करजः ९ करञ्जकः १० ।इत्यमरः । २ । ४ । ४७ ॥
चिरिविल्वः ११ । इतितट्टीका ॥
उदकीर्य्यः १२ । इति रत्नमाला ॥
* ॥
अस्यफलगुणाः । कटुत्वम् । उष्णत्वम् । चक्षुर्हितत्वम् ।वातनाशित्वञ्च । इति राजनिर्घण्टः ॥
वातकफ-मेहतनःकृमिकुष्ठनाशित्वञ्च ॥
* ॥
तत्पत्रगुणाः ।कफवातार्शःकृमिशोथनाशित्वम् । भेदकत्वम् ।पाके कटुत्वम् । वीर्य्योष्णत्वम् । पित्तवर्द्धकत्वम् ।लघुत्वञ्च । इति भावप्रकाशः ॥
* ॥
ततैलगुणाः ।अतिस्निग्धत्वम् । वातनाशित्वम् । स्थिरदीप्ति-दातृत्वम् । नयनामयवातरोगकुष्टकण्डूविसूचिका-नाशित्वम् । तीक्ष्णत्वम् । उष्णत्वम् । लेपेन नाना-विधचर्म्मदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
किटिमत्वम् । कृमिनाशित्वम् । रक्तपित्तदोष-कारित्वञ्च । इति राजवल्लभः ॥
* ॥
अथ नाटा-करञ्जपर्य्यायः । प्रकीर्य्यः १ पूतिकरजः २ पूतिकः३ कलिकारकः ४ । इत्यमरः २ । ४ । ४८ ॥
पूती-करञ्जः ५ सकण्टकः ६ । इति रत्नमाला ॥
* ॥
षड्ग्रन्थः । काँटाकरञ्ज गाँटिया करञ्ज इतिभाषा ॥
* ॥
मर्कटी । माकडाकरञ्ज इति भाषा ॥
* ॥
अङ्गारवल्लरी । इत्यमरभरतौ विषकरञ्जइति भाषा ॥
* ॥
अथ अम्लकरञ्जपर्य्यायः ॥
करमर्द्दी १ वनेक्षुद्रा २ कराम्लः ३ करमर्द्दकः ४ ।इति रत्नमाला ॥
कृष्णपाकफलः ५ अविग्नः ६सुषेणः ७ । इत्यमरः । २ । ४ । ६७ ॥
अस्य फलगुणाः ।पिपासानाशित्वम् । रुचिपित्तकारित्वम् । गुरु-त्वञ्च । इति राजवल्लभः ॥
राजनिर्घण्टोक्तगुण-पर्य्यायौ करमर्द्दकशब्दे द्रष्टव्यौ ॥
(यथा, महाभारते ३ । २२९ । ३५ ।“पादपानाञ्च या माता करञ्जनिलया हि सा ।वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी ।करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनो नराः” ॥
किरति विक्षिपति धार्म्मिकानिति । कॄ विक्षेपे +बाहुलकादौणादिकोऽञ्जन्प्रत्ययः । धर्म्मद्वेष्ठरि, त्रि । यथा ऋग्वेदे । १ । ५३ । ८ ।“त्वं करञ्जमुत पर्ण्यं बधी-स्तेजिष्ठयातिथिग्वस्य वर्त्तनी” ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
