| YouTube Channel

करग्रहारम्भः (karagrahArambhaH)

 
शब्दकल्पद्रुमः
Sanskrit
करग्रहारम्भः,
पुं,
(करग्रहस्य करादानस्य आरम्भःप्रजाभ्यः ।) राज्ञां प्रजाभ्यो नववर्षीयकरस्य प्रथमा-दानम् तद्दिनं पुण्याह इति ख्यातम् तस्याप-भाषा पुण्या तस्य शुभदिननिरूपणम् यथा, --“तीक्षोग्रवह्नीतरभेषु लग्नेशीर्षोदये भानुदिने शुभाहे ।कुर्य्यादनुक्तानि समीहितानिकरग्रहारम्भमपि प्रजाभ्यः”
इति ज्योतिषम्
अस्यार्थः अश्लेषार्द्राज्येष्ठा-मूलापूर्व्वफल्गुनीपूर्व्वाषाढापूर्व्वभाद्रपदमघाभरणी-कृतिकाभिन्ननक्षत्रेषु मिथुनसिंहकन्यातुलावृ-श्चिककुम्भमीनलग्नेषु रविसोमबुधवृहस्पति-शुक्रवारेषु करग्रहारम्भः कर्त्तव्यः